हयचर्या
उत्तरकाण्डः / हयचर्या
Script
Translation
Previous
यज्ञसंविधानम्
Next
वाल्मीकिसंदेशः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे हयचर्या नाम द्विनवतितमः सर्गः ॥७-९२॥
तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः ।
हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह ॥७-९२-१॥
ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च ।
ततोऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ॥७-९२-२॥
यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् ।
प्रबर्षमतुलं लेभे श्रीमानिति वचोऽब्रवीत् ॥७-९२-३॥
नैमिषे वसतस्तस्य सर्व एव नराधिपाः ।
आनिन्युरुपहारांश्च तान्रामः प्रत्यपूजयत् ॥७-९२-४॥
उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् ।
सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ॥७-९२-५॥
अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् ।
भरतः सन्ददावाशु शत्रुघ्नसहितस्तदा ॥७-९२-६॥
वानराश्च महात्मानः सुग्रीवसहितास्तदा ।
विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ॥७-९२-७॥
बिभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः ।
ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ॥७-९२-८॥
एवं सुविहितो यज्ञो हयमेधोऽभ्यवर्तत ।
लक्ष्मणेनागुप्ता च हयचर्या प्रवर्तत ।
ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् ॥७-९२-९॥
नान्यः शब्दोऽभवत्तत्र हयमेधे महात्मनः ।
छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः ॥७-९२-१०॥
तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः ।
विविधानि च गौडानि खाण्डवानि तथैव च ॥७-९२-११॥
न निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम् ।
तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ॥७-९२-१२॥
न कश्चिन्मलिनस्तत्र दीनो वाऽप्यथ कृर्शतः ।
तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ॥७-९२-१३॥
ये च तत्र महात्मानो मुनयश्चिरजीविनः ।
नास्मरंस्तादृशं यज्ञं नाप्यासीत् स कदाचन ॥७-९२-१४॥
यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः ।
वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ॥७-९२-१५॥
रजतानां सुवर्णानामश्मनामथ वाससाम् ।
अनिशं दीयमानानां राशिः समुपदृश्यते ॥७-९२-१६॥
न शक्रस्य धनेशस्य यमस्य वरुणस्य वा ।
ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ॥७-९२-१७॥
सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः ।
वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् ॥७-९२-१८॥
ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः ।
संवत्सरमथो साग्रं वर्तते न च हीयते ॥७-९२-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे हयचर्या नाम द्विनवतितमः सर्गः ॥७-९२॥
Previous
यज्ञसंविधानम्
Next
वाल्मीकिसंदेशः