वृत्रतपोवर्णनम्
उत्तरकाण्डः / वृत्रतपोवर्णनम्
Script
Translation
Previous
राजसूयाजिहीर्षा
Next
वृत्रवधः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे वृत्रतपोवर्णनम् नाम चतुरशीतितमः सर्गः ॥७-८४॥
तथोक्तवति रामे तु भरते च महात्मनि ।
लक्ष्मणोऽथ शुभं वाक्यमुवाच रघुनन्दनम् ॥७-८४-१॥
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् ।
पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ॥७-८४-२॥
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ।
ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ॥७-८४-३॥
पुरा किल महाबाहो देवासुरसमागमे ।
वृत्रो नाम महानासीद्दैतेयो लोकसम्मतः ॥७-८४-४॥
विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः ।
अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ॥७-८४-५॥
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः ।
शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ॥७-८४-६॥
तस्मिन्प्रशासति तदा सर्वकामदुघा मही ।
रसवन्ति प्रभूनानि मूलानि च फलानि च ॥७-८४-७॥
अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः ।
स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ॥७-८४-८॥
तस्य बुद्धिः समुप्तन्ना तपः कुर्यामनुत्तमम् ।
तपो हि परमं श्रेयः सम्मोहमितरत्सुखम् ॥७-८४-९॥
स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् ।
तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ॥७-८४-१०॥
तपस्तप्यति वृत्रे तु वासवः परमार्तवत् ।
विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह ॥७-८४-११॥
तपस्यता महाबाहो लोकाः वृत्रेण निर्जिताः ।
बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ॥७-८४-१२॥
यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वर ।
यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ॥७-८४-१३॥
तं चैनं परमोदारमुपेक्षसि महाबलम् ।
क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ॥७-८४-१४॥
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः ।
तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् ॥७-८४-१५॥
स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः ।
त्वत्कृतेन हि सर्वं स्याप्रशान्तमरुजं जगत् ॥७-८४-१६॥
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः ।
वृत्रघातेन महता तेषां साह्यं कुरुष्व ह ॥७-८४-१७॥
त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् ।
असह्यमिदमन्येषामगतीनां गतिर्भवान् ॥७-८४-१८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे वृत्रतपोवर्णनम् नाम चतुरशीतितमः सर्गः ॥७-८४॥
Previous
राजसूयाजिहीर्षा
Next
वृत्रवधः