वृत्रवधः

उत्तरकाण्डः / वृत्रवधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे वृत्रवधः नाम पञ्चाशीतितमः सर्गः ॥७-८५॥
लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः । वृत्रघातमशेषेण कथयेत्याह सुव्रत ॥७-८५-१॥
राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः । भूय एव कथां दिव्यां कथयामास सुव्रतः ॥७-८५-२॥
सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् । विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥७-८५-३॥
पूर्वं सौहृदबद्धोऽस्मि वृत्रस्य ह महात्मनः । तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् ॥७-८५-४॥
अवश्यं करणीयं च भवतां सुखमुत्तमम् । तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते ॥७-८५-५॥
त्रिधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः । तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ॥७-८५-६॥
एकांशो वासवं यातु द्वितीयो वज्रमेव तु । तृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति ॥७-८५-७॥
तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् । एवमेतन्न सन्देहो यथा वदसि दैत्यहन् ॥७-८५-८॥
भद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः । भजस्व परमोदार वासवं स्वेन तेजसा ॥७-८५-९॥
ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः । तदारण्यमुपाक्रामन्यत्र वृत्रो महासुरः ॥७-८५-१०॥
ते पश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् । पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ॥७-८५-११॥
दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् । कथमेनं वधिष्यामः कथं न स्यात्पराजयः ॥७-८५-१२॥
तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः । वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि ॥७-८५-१३॥
कालाग्निनेव घोरेण तप्तेनैव महार्चिषा । पतता वृत्रशिरसा जगत्त्रासमुपागमत् ॥७-८५-१४॥
असम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः । चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ॥७-८५-१५॥
तमिन्द्रं ब्रह्महत्याऽऽशु गच्छन्तमनुगच्छति । अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥७-८५-१६॥
हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः । विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ॥७-८५-१७॥
त्वं गतिः परमेशान पूर्वजो जगतः पिता । रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥७-८५-१८॥
हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् । बाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश ॥७-८५-१९॥
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् । मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥७-८५-२०॥
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः । पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ॥७-८५-२१॥
एवं सन्दिश्य तां वाणीं देवानाममृतोपमाम् । जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ॥७-८५-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे वृत्रवधः नाम पञ्चाशीतितमः सर्गः ॥७-८५॥