राजसूयाजिहीर्षा
उत्तरकाण्डः / राजसूयाजिहीर्षा
Script
Translation
Previous
रामनिवर्तनम्
Next
वृत्रतपोवर्णनम्
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे राजसूयाजिहीर्षा नाम त्र्यशीतितमः सर्गः ॥७-८३॥
तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्ट कर्मणः ।
द्वास्स्थः कुमारावाहूय राघवाय न्यवेदयत् ॥७-८३-१॥
दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ ।
परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ॥७-८३-२॥
कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् ।
धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ ॥७-८३-३॥
अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम ।
धर्मप्रसाधकं ह्येतत् सर्वपापप्रणाशनम् ॥७-८३-४॥
युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् ।
सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ॥७-८३-५॥
इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः ।
सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ॥७-८३-६॥
सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् ।
प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम् ॥७-८३-७॥
अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह ।
हितं चायतियुक्तं च प्रयतौ कर्तुमर्हथः ॥७-८३-८॥
श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः ।
भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥७-८३-९॥
त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा ।
प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ॥७-८३-१०॥
महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः ।
निरीक्षन्ते महात्मानं लोकानाथं यथा वयम् ॥७-८३-११॥
पुत्राश्च पितृवद्राजन्पश्यन्ति त्वां महाबल ।
पृथिव्या गतिभूतोऽसि प्राणिनामपि राघव ॥७-८३-१२॥
स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप ।
पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ॥७-८३-१३॥
पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः ।
सर्वेषां भविता तत्र सङ्क्षयः सर्वकोपजः ॥७-८३-१४॥
स त्वं पुरुषशार्दूल गुणैरतुलविक्रम ।
पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ॥७-८३-१५॥
भरतस्य तु तद्वाक्यं श्रुत्वाऽमृतमयं तदा ।
प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ॥७-८३-१६॥
उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् ।
प्रीतोऽस्मि परितुष्टोऽस्मि तवाद्य वचनेऽनघ ॥७-८३-१७॥
इदं वचनमक्लीबं त्वया धर्मसमाहितम् ।
व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ॥७-८३-१८॥
एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात् ।
निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ॥७-८३-१९॥
लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः ।
बालानां तु शुभं वाक्यं ग्राह्य लक्ष्मणपूर्वज ।
तस्माच्छृणोमि ते वाक्यं साधु युक्तं महामते ॥७-८३-२०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे राजसूयाजिहीर्षा नाम त्र्यशीतितमः सर्गः ॥७-८३॥
Previous
रामनिवर्तनम्
Next
वृत्रतपोवर्णनम्