अरजासङ्गमः
उत्तरकाण्डः / अरजासङ्गमः
Script
Translation
Previous
दण्डराज्यनिवेशः
Next
दण्डशापः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे अरजासङ्गमः नाम अशीतितमः सर्गः ॥७-८०॥
एतदाख्याय रामाय महर्षिः कुम्भसम्भवः ।
अस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥७-८०-१॥
ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् ।
अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥७-८०-२॥
अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् ।
रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ॥७-८०-३॥
तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि ।
विचरन्तीं वनोद्देशे दण्डोऽपश्यदनुत्तमाम् ॥७-८०-४॥
स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः ।
अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ॥७-८०-५॥
कुतस्त्वमसि सुश्रोणि कस्य वाऽसि सुता शुभे ।
पीडितोऽहमनङ्गेन गच्छामि त्वां शुभानने ॥७-८०-६॥
तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः ।
भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ॥७-८०-७॥
भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ।
अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥७-८०-८॥
मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् ।
गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ।
व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ॥७-८०-९॥
यदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा ।
वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् ॥७-८०-१०॥
अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् ।
क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् ॥७-८०-११॥
दास्यते चानवद्याङ्ग तव मा याचितः पिता ॥७-८०-१२॥
एवं ब्रुवाणामरजां दण्डः कामवशं गतः ।
प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥७-८०-१३॥
प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि ।
त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ॥७-८०-१४॥
त्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः ।
भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ॥७-८०-१५॥
एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली ।
विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ॥७-८०-१६॥
एतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम् ।
नगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥७-८०-१७॥
अरजाऽपि रुदन्ती सा आश्रमस्याविदूरतः ।
प्रतीक्षन्ति सुसंत्रस्ता पितरं देवसन्निभम् ॥७-८०-१८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अरजासङ्गमः नाम अशीतितमः सर्गः ॥७-८०॥
Previous
दण्डराज्यनिवेशः
Next
दण्डशापः