दण्डराज्यनिवेशः
उत्तरकाण्डः / दण्डराज्यनिवेशः
Script
Translation
Previous
आभरणागमः
Next
अरजासङ्गमः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे दण्डराज्यनिवेशः नाम एकोनाशीतितमः सर्गः ॥७-७९॥
तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः ।
गौरवाद्विस्मयाच्चैव पुनः प्रष्टुं प्रचक्रमे ॥७-७९-१॥
भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः ।
श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ॥७-७९-२॥
तद्वनं स कथ राजा शून्यं मनुजवर्जितम् ।
तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ॥७-७९-३॥
रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् ।
वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ॥७-७९-४॥
पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः ।
तस्य पुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः ॥७-७९-५॥
तं पुत्रं पूर्वंकं राज्ये निक्षिप्य भुवि दुर्जयम् ।
पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ॥७-७९-६॥
तथैवेति प्रतिज्ञातं पितुः पुत्रेण राघव ।
ततः परमसन्तुष्टो मनुः पुत्रमुवाच ह ॥७-७९-७॥
प्रीतोऽस्मि परमोदार त्वं कर्ताऽसि न संशयः ।
दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ॥७-७९-८॥
अपराधिषु यो दण्डः पात्यते मानवेषु वै ।
स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥७-७९-९॥
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक ।
धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ॥७-७९-१०॥
इति तं बहु सन्दिश्य मनुः पुत्रं समाधिना ।
जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ॥७-७९-११॥
प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः ।
जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत् ॥७-७९-१२॥
कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतस्सुतान् ।
जनयामास धर्मात्मा शतं देवसुतोपमान् ॥७-७९-१३॥
तेषामवरजस्तात सर्वेषां रघुनन्दन ।
मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ॥७-७९-१४॥
नाम तस्य च दण्डेति पिता चक्रेऽल्पमेधसः ।
अवश्यं दण्डपतनं शरीरेऽस्य भविष्यति ॥७-७९-१५॥
अपश्यमानस्तं देशं घोरं पुत्रस्य राघव ।
विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ॥७-७९-१६॥
स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि ।
पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ॥७-७९-१७॥
पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो ।
पुरोहितं तूशनसं वरयामास सुव्रतम् ॥७-७९-१८॥
एवं स राजा तद्राज्यमकरोत्सपुरोहितः ।
प्रहृष्टमनुजाकीर्णं देवराजं यथा वृषा ॥७-७९-१९॥
ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम् ।
चकार राज्यं सुमहान्महात्मा शक्रो दिवीवोशनसा समेतः ॥७-७९-२०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे दण्डराज्यनिवेशः नाम एकोनाशीतितमः सर्गः ॥७-७९॥
Previous
आभरणागमः
Next
अरजासङ्गमः