दण्डशापः
उत्तरकाण्डः / दण्डशापः
Script
Translation
Previous
अरजासङ्गमः
Next
रामनिवर्तनम्
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे दण्डशापः नाम एकाशीतितमः सर्गः ॥७-८१॥
स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः ।
स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ॥७-८१-१॥
सोऽपश्यदरजां दीनां रजसा समभिप्लुताम् ।
ज्योत्स्नामिव ग्रहग्रस्तां प्रत्यूषे न विराजतीम् ॥७-८१-२॥
तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः ।
निर्दहन्निव लोकांस्त्रीञ्छिष्यांश्चैतदुवाच ह ॥७-८१-३॥
पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः ।
विपत्तिं घोरसङ्काशां क्रुद्धामग्निशिखामिव ॥७-८१-४॥
क्षयोऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ।
यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ॥७-८१-५॥
यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् ।
तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ॥७-८१-६॥
सप्तरात्रेण राजासौ सभृत्यबलवाहनः ।
पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ॥७-८१-७॥
समन्ताद्योजनशतं विषयं चास्य दुर्मतेः ।
धक्ष्यते पांसुवर्षेण महता पाकशासनः ॥७-८१-८॥
सर्वसत्वानि यानीह स्थावराणि चराणि च ।
महता पांसुवर्षेण विलयं सर्वतोऽगमन् ॥७-८१-९॥
दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् ।
पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ॥७-८१-१०॥
इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् ।
जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ॥७-८१-११॥
श्रुत्वा तूशनसो वाक्यं सोऽऽश्रमावसथो जनः ।
निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रेऽथ बाह्यतः ॥७-८१-१२॥
स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् ।
इहैव वस दुर्मेधे आश्रमे सुसमाहिता ॥७-८१-१३॥
इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् ।
अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ॥७-८१-१४॥
त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम् ।
अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा ॥७-८१-१५॥
श्रुत्वा नियोगं ब्रह्मर्षेः साऽरजा भार्गवी तदा ।
तथेति पितरं प्राह भार्गवं भृशदुःखिता ।
इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् ॥७-८१-१६॥
तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् ।
सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ॥७-८१-१७॥
तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप ।
शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ॥७-८१-१८॥
ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते ।
तपस्विनः स्थिता ह्यत्र जनस्थानमतोऽभवत् ॥७-८१-१९॥
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव ।
सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते ॥७-८१-२०॥
एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः ।
कृतोदका नरव्याघ्र आदित्यं पर्युपासते ॥७-८१-२१॥
स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः ।
रविरस्तं गतो राम गच्छोदकमुपस्पृश ॥७-८१-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे दण्डशापः नाम एकाशीतितमः सर्गः ॥७-८१॥
Previous
अरजासङ्गमः
Next
रामनिवर्तनम्