शम्बूकवधः

उत्तरकाण्डः / शम्बूकवधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे शम्बूकवधः नाम षट्सप्ततितमः सर्गः ॥७-७६॥
तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः । अवाक्छिरास्तथाभूत्वा वाक्यमेतदुवाच ह ॥७-७६-१॥
शूद्रयोन्यां प्रसूतोऽस्मि शम्बूको नाम नामतः । देवत्वं पार्थये राम सशरीरो महायशः ॥७-७६-२॥
न मिथ्याऽहं वदे राम देवलोकजिगीषया । शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ॥७-७६-३॥
भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् । निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ॥७-७६-४॥
तस्मिञ्छूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः । साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ॥७-७६-५॥
पुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम् । पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ॥७-७६-६॥
सुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम् । सुरकार्यमिदं सौम्य सुकृतं ते महामते ॥७-७६-७॥
गृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम । स्वर्गभाङ्नहि शूद्रोऽयं त्वत्कृते रघुनन्दन ॥७-७६-८॥
देवानां भाषितं श्रुत्वा राघवः सुसमाहितः । उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ॥७-७६-९॥
यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु । दिशन्तु वरमेतं मे इप्सितं परमं मम ॥७-७६-१०॥
ममापचाराद्यातोऽसौ ब्राह्मणस्यैकपुत्रकः । अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ॥७-७६-११॥
तं जीवयथ भद्रं वो नानृतं कर्तुमर्हथ । द्विजस्य संश्रुतोऽर्थो मे जीवयिष्यामि ते सुतम् ॥७-७६-१२॥
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः । प्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ॥७-७६-१३॥
निर्वृतो भव काकुत्स्थ सोऽस्मिन्नहनि बालकः । जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ॥७-७६-१४॥
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रोऽयं विनिपातितः । तस्मिन्मुहूर्ते बालोऽसौ जीवेन समयुज्यत ॥७-७६-१५॥
स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ । अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ॥७-७६-१६॥
तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः । द्वादशं हि गतं वर्षं जलशय्यां समासतः ॥७-७६-१७॥
काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् । त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ॥७-७६-१८॥
स तथेति प्रतिज्ञाय देवानां रघुनन्दनः । आरुरोह विमानं तं पुष्पकं हेमभूषितम् ॥७-७६-१९॥
ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः । रामोऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ॥७-७६-२०॥
दृष्ट्वा तु देवान्सम्प्राप्तानगस्त्यस्तपसां निधिः । अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ॥७-७६-२१॥
प्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम् । जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ॥७-७६-२२॥
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च । ततोऽभिवादयामास ह्यगस्त्यमृषिसत्तमम् ॥७-७६-२३॥
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा । आतिथ्यं परमं प्राप्य निषसाद नराधिपः ॥७-७६-२४॥
तमुवाच महातेजाः कुम्भयोनिर्महातपाः । स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ॥७-७६-२५॥
त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः । अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ॥७-७६-२६॥
सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् । ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥७-७६-२७॥
उष्यतां चेह रजनी सकाशे मम राघव । प्रभाते पुष्पकेण त्वं गन्ताऽसि पुरमेव हि ॥७-७६-२८॥
त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् । त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः ॥७-७६-२९॥
इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा । दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा । प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ॥७-७६-३०॥
दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते । भरणे हि भवान् शक्तः सेन्द्राणां मरुतामपि ॥७-७६-३१॥
त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः । तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप ॥७-७६-३२॥
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ॥७-७६-३३॥
अथोवाच महात्मानमिक्ष्वाकूणां महारथः । रामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ॥७-७६-३४॥
प्रतिग्रहोऽयं भगवन्ब्राह्मणस्याविगर्हितः । गृह्णीयां क्षत्रियोऽहं वै कथं ब्राह्मणपुङ्गव ॥७-७६-३५॥
ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि । एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ॥७-७६-३६॥
आसन्कृतयुगे राम ब्रह्मभूते पुरायुगे । अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ॥७-७६-३७॥
ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन् । सुराणां स्थापितो राजा त्वया देव शतक्रतुः ॥७-७६-३८॥
प्रयच्छ नो हि लोकेश पार्थिवं नरपुङ्गवम् । यस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि । न वसामो विना राज्ञा एष नो निश्चयः परः ॥७-७६-३९॥
प्रजानां वचनं श्रुत्वा निश्चयित्वाऽर्थमुत्तमम् ॥७-७६-४०॥
ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान् । समाहूयाब्रवीत्सर्वांस्तेजोभागान्प्रयच्छत ॥७-७६-४१॥
ततो ददुर्लोकपालाः सर्वे भागान्स्वतेजसः । अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ॥७-७६-४२॥
तं ब्रह्मा लोकपालानां सहांशैः समयोजयत् । ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ॥७-७६-४३॥
तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः । वारुणेन तु भागेन वपुः पुष्यति पार्थिवः ॥७-७६-४४॥
कौबेरेण तु भागेन वित्तमासां ददौ तदा । यस्तु याम्योऽभवद्भागस्तेन शास्ति स्म स प्रजाः ॥७-७६-४५॥
तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन । प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ॥७-७६-४६॥
तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् । तद्रामः प्रतिजग्राह मुनेराभरणं वरम् ॥७-७६-४७॥
प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् । आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ॥७-७६-४८॥
अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् । कथं वा भगवता प्राप्तं कुतो वा केन वा हृतम् ॥७-७६-४९॥
कुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः । आश्चर्याणां बहूनां हि निधिः परमको भवान् ॥७-७६-५०॥
एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् । शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ॥७-७६-५१॥
रमणीयप्रदेशेऽस्मिन् वने यद्दृष्टवानहम् । आश्चर्यं मे महाबाहो दानमाश्रित्य केवलम् ॥७-७६-५२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे शम्बूकवधः नाम षट्सप्ततितमः सर्गः ॥७-७६॥