शम्बूकविचयः
उत्तरकाण्डः / शम्बूकविचयः
Script
Translation
Previous
नारदवचनम्
Next
शम्बूकवधः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे शम्बूकविचयः नाम पञ्चसप्ततितमः सर्गः ॥७-७५॥
नारदस्य तु तद्वाक्यं श्रुत्वाऽमृतमयं तदा ।
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥७-७५-१॥
गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रतम् ।
बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय ॥७-७५-२॥
गन्धैश्च परमोदारैस्तैलैश्चापि सुगन्धिभिः ।
यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ॥७-७५-३॥
यथा शरीरो बालस्य गुप्तः सन् शिष्टकर्मणः ।
विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ॥७-७५-४॥
एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् ।
मनसा पुष्पकं दध्यावागच्छेति महायशाः ॥७-७५-५॥
इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ।
आजगाम मुहूर्तेन समीपे राघवस्य वै ॥७-७५-६॥
सोऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप ।
वश्यस्तव महाबाहो किङ्करः समुपस्थितः ॥७-७५-७॥
भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः ।
अभिवाद्य महर्षींस्तान् विमानं सोऽध्यरोहत ॥७-७५-८॥
धनुर्गृहीत्वा तूणी च खड्गं च रुचिरप्रभम् ।
निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ ॥७-७५-९॥
प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः ।
उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम् ॥७-७५-१०॥
अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् ।
पूर्वामपि दिशं सर्वामथोऽपश्यन्नराधिपः ॥७-७५-११॥
प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् ।
पुष्पकस्थो महाबाहुस्तदापश्यन्नराधिपः ॥७-७५-१२॥
दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः ।
शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ॥७-७५-१३॥
तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः ।
ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ॥७-७५-१४॥
राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् ।
उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत ॥७-७५-१५॥
कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम ।
कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम् ॥७-७५-१६॥
कोऽर्थो मनीषितस्तुभ्यं स्वर्गलाभः परोऽथवा ।
वराश्रयो यदर्थं त्वं तपस्यसि सुदुष्करम् ।
यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ॥७-७५-१७॥
ब्राह्मणो वाऽसि भद्रं ते क्षत्रियो वाऽसि दुर्जयः ।
वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यवाग्भव ॥७-७५-१८॥
इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा दाशरथाय तस्मै ।
उवाच जातिं नृपपुङ्गवाय यत्कारणे चैव तपःप्रयत्नः ॥७-७५-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे शम्बूकविचयः नाम पञ्चसप्ततितमः सर्गः ॥७-७५॥
Previous
नारदवचनम्
Next
शम्बूकवधः