स्वर्गिप्रश्नः

उत्तरकाण्डः / स्वर्गिप्रश्नः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे स्वर्गिप्रश्नः नाम सप्तसप्ततितमः सर्गः ॥७-७७॥
पुरा त्रेतायुगे राम बभूव बहुविस्तरम् । समन्ताद्योजनशतं विमृगं पक्षिवर्जितम् ॥७-७७-१॥
तस्मिन्निर्मानुषेऽरण्ये कुर्वाणस्तप उत्तमम् । अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ॥७-७७-२॥
तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह । फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः ॥७-७७-३॥
तस्यारण्यस्य मध्ये तु सरो योजनमायतम् । हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥७-७७-४॥
पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् । तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम् ॥७-७७-५॥
अरजस्कं तथाऽक्षोभ्यं श्रीमत्पक्षिगणायुतम् । समीपे तस्य सरसो महदद्भुतमाश्रमम् ॥७-७७-६॥
पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम् । तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ॥७-७७-७॥
प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे । अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित् ॥७-७७-८॥
पङ्किभेदेन पुष्टाङ्गं समाश्रितसरोवरम् । तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ॥७-७७-९॥
तमर्थं चिन्तयानोऽहं मुहूर्तं तत्र राघव । उषितोऽस्मि सरस्तीरे किन्न्विदं स्यादिति प्रभो ॥७-७७-१०॥
अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनम् । विमानं परमोदारं हंसयुक्तं मनोजवम् ॥७-७७-११॥
अत्यर्थं स्वर्गिणं त विमाने रघुनन्दन । उपास्तेऽप्सरसां वीर सहस्रं दिव्यभूषणम् ॥७-७७-१२॥
गायन्ति दिव्यगेयानि वादयन्ति तथाऽपराः । क्ष्वेलयन्ति तथा चान्या नृत्यन्ति च तथाऽपराः ॥७-७७-१३॥
अपराश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः । दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम् ॥७-७७-१४॥
ततः सिंहासनं त्यक्त्वा मेरुकूटमिवांशुमान् । पश्यतो मे तदा राम विमानादवरुह्य च । तं शवं भक्षयामास स स्वर्गी रघुनन्दन ॥७-७७-१५॥
तथा भुक्त्वा यथाकामं मांसं बहु सुपीवरम् । अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे ॥७-७७-१६॥
उपस्पृश्य यथान्यायं स स्वर्गी रघुपुङ्गव । आरोढुमुपचक्राम विमानवरमुत्तमम् ॥७-७७-१७॥
तमहं देवसङ्काशमारोहन्तमुदीक्ष्य वै । अथाहमब्रुवं वाक्यं स्वर्गिणं पुरुषर्षभ ॥७-७७-१८॥
को भवान्देवसङ्काश आहारश्च विगर्हितः । त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ॥७-७७-१९॥
कस्य स्यादीदृशो भाव आहारो देवसम्मतः । आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः ॥७-७७-२०॥
नाहमौपयिकं मन्ये तव भक्ष्यमिदं शवम् ॥७-७७-२१॥
इत्येवमुक्तः स नरेन्द्र नाकी कौतूहलात्सूनृतया गिरा च । श्रुत्वा च वाक्यं मम सर्वमेतत्सर्वं तथा चाकथयन्ममेति ॥७-७७-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे स्वर्गिप्रश्नः नाम सप्तसप्ततितमः सर्गः ॥७-७७॥