नारदवचनम्

उत्तरकाण्डः / नारदवचनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे नारदवचनम् नाम चतुःसप्ततितमः सर्गः ॥७-७४॥
तथा तु करुणं तस्य द्विजस्य परिदेवनम् । शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ॥७-७४-१॥
स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् । वसिष्ठं वामदेवं च भ्रातरौ सह नैगमान् ॥७-७४-२॥
ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः । राजानं देवसङ्काशं वर्धस्वेति ततोऽब्रुवन् ॥७-७४-३॥
मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः । कात्यायनोऽथ जाबालिर्गौतमो नारदस्तथा । एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः ॥७-७४-४॥
महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः । मन्त्रिणो नैगमांश्चैव यथार्हमनुकूलतः ॥७-७४-५॥
तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् । राघवः सर्वमाचष्टे द्विजोऽयमुपरोधते ॥७-७४-६॥
तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः । प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ नृपम् ॥७-७४-७॥
शृणु राजन्यथाकाले प्राप्तो बालस्य सङ्क्षयः । श्रुत्वा कर्तव्यतां राजन्कुरुष्वरघुनन्दन ॥७-७४-८॥
पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः । अब्राह्मणस्तदा राजन्न तपस्वी कथञ्चन ॥७-७४-९॥
तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते । अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ॥७-७४-१०॥
ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् । क्षत्रियास्तत्र जायन्ते पूर्णेन तपसाऽन्विताः ॥७-७४-११॥
वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि । मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे ॥७-७४-१२॥
ब्रह्मक्षत्रं च तत्सर्वं यत्पूर्वमपरं च यत् । युगयोरुभयोरासीत्समवीर्यसमन्वितम् ॥७-७४-१३॥
अपश्यंस्तु न ते सर्वे विशेषमधिकं ततः । स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम् ॥७-७४-१४॥
तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते । अधर्मः पादमेकं तु पातयत्पृथिवीतले ॥७-७४-१५॥
अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ॥७-७४-१६॥
आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् । अनृतं नाम तद्भूतं पादेन पृथिवीतले ॥७-७४-१७॥
अनृतं पातयित्वा तु पादमेकमधर्मतः । ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ॥७-७४-१८॥
पतिते त्वनृते तस्मिन्नधर्मे च महीतले । शुभान्येवाचरँल्लोकः सत्यधर्मपरायणः ॥७-७४-१९॥
त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये । तपोऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ॥७-७४-२०॥
स धर्मः परमस्तेषां वैश्यशूद्रं समागमत् । पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ॥७-७४-२१॥
एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह । ततः पूर्वे भृशं ह्रासमगमन्नृपसत्तम ॥७-७४-२२॥
ततः पादमधर्मस्स द्वितीयमवतारयत् । ततो द्वापरसञ्ज्ञाऽस्य युगस्य समजायत ॥७-७४-२३॥
तस्मिन्द्वापरसञ्ज्ञे तु वर्तमाने युगक्षये । अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ॥७-७४-२४॥
तस्मिन्द्वापरसङ्ख्याते तपो वैश्यान्समाविशत् । त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत् ॥७-७४-२५॥
त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः । न शुद्धो लभते धर्मं युगतस्तु नरर्षभ । हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः ॥७-७४-२६॥
भविष्यच्छूद्रयोन्यां वै तपश्चर्या कलौ युगे । अधर्मः परमो राजन्द्वापरे शूद्रजन्मनः ॥७-७४-२७॥
स वै विषयपर्यन्ते तव राजन्महातपाः । अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ॥७-७४-२८॥
यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु । करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः । क्षिप्रं च नरकं याति स च राजा न संशयः ॥७-७४-२९॥
अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च । षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ॥७-७४-३०॥
षङ्भागस्य न भोक्ताऽसौ रक्षते न प्रजाः कथम् ॥७-७४-३१॥
स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् । दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ॥७-७४-३२॥
एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् । भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ॥७-७४-३३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नारदवचनम् नाम चतुःसप्ततितमः सर्गः ॥७-७४॥