शत्रुघ्नप्रशंसा

उत्तरकाण्डः / शत्रुघ्नप्रशंसा

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे शत्रुघ्नप्रशंसा नाम एकसप्ततितमः सर्गः ॥७-७१॥
ततो द्वादशमे वर्षे शत्रघ्नो रामपालिताम् । अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ॥७-७१-१॥
ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च । जगाम हयमुख्यैश्च रथानां च शतेन सः ॥७-७१-२॥
स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः । वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ॥७-७१-३॥
सोऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः । पाद्यमर्ध्यं तथातिथ्यं जग्राह मुनिहस्ततः ॥७-७१-४॥
बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः । कथयामास स मुनिः शत्रुघ्नाय महात्मने ॥७-७१-५॥
उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् । सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया ॥७-७१-६॥
बहवः पार्थिवाः सौम्य हताः सबलवाहनाः । लवणेन महाबाहो युध्यमाना महाबलाः ॥७-७१-७॥
स त्वया निहतः पापो लीलया पुरुषर्षभ । जगतश्च भयं तत्र प्रशान्तं तव तेजसा ॥७-७१-८॥
रावणस्य वधो घोरो यत्नेन महता कृतः । इदं तु सुमहत्कर्म त्वया कृतमयत्नतः ॥७-७१-९॥
प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते । भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ॥७-७१-१०॥
तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ । सभायां वासवस्याथ उपविष्टेन राघव ॥७-७१-११॥
ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते । उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ॥७-७१-१२॥
इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः । आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ॥७-७१-१३॥
स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् । शुश्राव रामचरितं तस्मिन्काले यथाकृमम् ॥७-७१-१४॥
तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् । संस्कृतं लक्षणोपेतं समतालसमन्वितम् । शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् ॥७-७१-१५॥
तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः । श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो बाष्पलोचनः ॥७-७१-१६॥
स मुहूर्तमिवासञ्ज्ञो विनिःश्वस्य मुहुर्मुहुः । तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत् ॥७-७१-१७॥
पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसम्पदम् । अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन् ॥७-७१-१८॥
परस्परं च ये तत्र सैनिकाः सम्बभाषिरे । किमिदं क्व च वर्तामः किमेतत्स्वप्नदर्शनम् ॥७-७१-१९॥
अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः । शृणुमः किमिदं स्वप्नो गीतबन्धं श्रियो भवेत् ॥७-७१-२०॥
विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् । साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ॥७-७१-२१॥
शत्रुघ्नस्त्वब्रवीत्सर्वान्कौतूहलसमन्वितान् । सैनिका न क्षमोऽस्माकं परिप्रष्टुमिहेदृशः ॥७-७१-२२॥
आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः । न तु कौतूहलाद्युक्तमन्वेष्टुं तं महामुनिम् ॥७-७१-२३॥
एवं तद्वाक्यमुक्त्वा च सैनिकान्रघुनन्दनः । अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा ॥७-७१-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे शत्रुघ्नप्रशंसा नाम एकसप्ततितमः सर्गः ॥७-७१॥