मधुपुरीनिवेशः

उत्तरकाण्डः / मधुपुरीनिवेशः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे मधुपुरीनिवेशः नाम सप्ततितमः सर्गः ॥७-७०॥
हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः । ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ॥७-७०-१॥
दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः । हतः पुरुषशार्दूल वरं वरय सुव्रत ॥७-७०-२॥
वरदास्तु महाबाहो सर्व एव समागताः । विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ॥७-७०-३॥
देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः । प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ॥७-७०-४॥
इयं मधुपुरी रस्या मधुरा देवनिर्मिता । निवेशं प्राप्नुयाच्छीघ्रमेष मेऽस्तु वरः परः ॥७-७०-५॥
तं देवाः प्रीतमनसो बाढमित्येव राघवम् । भविष्यति पुरी रम्या शूरसेना न संशयः ॥७-७०-६॥
ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा । शत्रुघ्नोऽपि महातेजास्तां सेनां समुपानयत् ॥७-७०-७॥
सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् । निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ॥७-७०-८॥
सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे । निविष्टा शूरसेनानां विषयश्चाकुतोभयः ॥७-७०-९॥
क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः । अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ॥७-७०-१०॥
अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता । शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः । चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता ॥७-७०-११॥
यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् । तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम् ॥७-७०-१२॥
आरामैश्च विहारैश्च शोभमानं समन्ततः । शोभितां शोभनीयैश्च तथाऽन्यैर्दैवमानुषैः ॥७-७०-१३॥
तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् । नानादेशागतैश्चापि वणिग्भिरुपशोभिताम् ॥७-७०-१४॥
तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः । निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ॥७-७०-१५॥
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् । रामपादौ निरीक्षेऽहं वर्षे द्वादश आगते ॥७-७०-१६॥
ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् । नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ॥७-७०-१७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे मधुपुरीनिवेशः नाम सप्ततितमः सर्गः ॥७-७०॥