शत्रुघ्नरामसमागमः
उत्तरकाण्डः / शत्रुघ्नरामसमागमः
Script
Translation
Previous
शत्रुघ्नप्रशंसा
Next
ब्राह्मणपरिदेवनम्
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे शत्रुघ्नरामसमागमः नाम द्विसप्ततितमः सर्गः ॥७-७२॥
तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा ।
चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम् ॥७-७२-१॥
तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् ।
श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ॥७-७२-२॥
तस्यां निशायां व्युष्टायां कृत्वा पौर्वाह्णिकं क्रमम् ।
उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् ॥७-७२-३॥
भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम् ।
त्वयाऽनुज्ञातुमिच्छामि सहैभिः संशितव्रतैः ॥७-७२-४॥
इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुतापनम् ।
वाल्मीकिः सम्परिष्वज्य विससर्ज च राघवम् ॥७-७२-५॥
सोऽभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् ।
अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ॥७-७२-६॥
स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः ।
प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ॥७-७२-७॥
स रामं मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् ।
पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ॥७-७२-८॥
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
उवाच प्राञ्जलिर्वाक्यं रामं सत्यपराक्रमम् ॥७-७२-९॥
यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् ।
हतः स लवणः पापः पुरी चास्य निवेशिता ॥७-७२-१०॥
द्वादशैते गता वर्षास्त्वां विना रघुनन्दन ।
नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ॥७-७२-११॥
स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम ।
मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ॥७-७२-१२॥
एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् ।
मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम् ॥७-७२-१३॥
नावसीदन्ति राजानो विप्रवासेषु राघव ।
प्रजा नः परिपाल्या हि क्षत्रधर्मेण राघव ॥७-७२-१४॥
काले काले तु मां वीर अयोध्यामवलोकितुम् ।
आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ॥७-७२-१५॥
ममापि त्वं सुदयितः प्राणैरपि न संशयः ।
अवश्यं करणीयं च राज्यस्य परिपालनम् ॥७-७२-१६॥
तस्मात्त्वं वस काकुत्स्थ सप्तरात्रमिहावस ।
ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ॥७-७२-१७॥
रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोगतम् ।
शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ॥७-७२-१८॥
सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया ।
उष्य तत्र महेष्वासो गमनायोपचक्रमे ॥७-७२-१९॥
आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् ।
भरतं लक्ष्मणं चैव महारथमुपारुहत् ॥७-७२-२०॥
दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना ।
भरतेन च शत्रुघ्नो जगामाशु पुरं ततः ॥७-७२-२१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे शत्रुघ्नरामसमागमः नाम द्विसप्ततितमः सर्गः ॥७-७२॥
Previous
शत्रुघ्नप्रशंसा
Next
ब्राह्मणपरिदेवनम्