लवणवधः

उत्तरकाण्डः / लवणवधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे लवणवधः नाम एकोनसप्ततितमः सर्गः ॥७-६९॥
तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः । क्रोधामाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥७-६९-१॥
पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च । लवणो रघुशार्दूलमाह्वयामास चासकृत् ॥७-६९-२॥
तं ब्रुवाणं तथा वाक्यं लवणं घोरदर्शनम् । शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ॥७-६९-३॥
न शत्रुघ्नस्तथा जातो यथाऽन्ये निर्जितास्त्वया । तदद्य बाणाभिहतो व्रज त्वं यमसादनम् ॥७-६९-४॥
ऋषयोऽप्यद्य पापात्मन्मया त्वां निहतं रणे । पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ॥७-६९-५॥
त्वयि मद्बाणनिर्दग्धे पतितेऽद्य निशाचर । पुरे जनपदे चापि क्षेममेव भविष्यति ॥७-६९-६॥
अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः । प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ॥७-६९-७॥
एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः । शत्रुघ्नोरसि चिक्षेप स च तं शतधाच्छिनत् ॥७-६९-८॥
तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु । पादपान्सुबहून्गृह्य शत्रुघ्नायासृजद्बली ॥७-६९-९॥
शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् । त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ॥७-६९-१०॥
ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि । शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न स राक्षसः ॥७-६९-११॥
ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् । शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ॥७-६९-१२॥
तस्मिन्निपतिते वीरे हाहाकारो महानभूत् । ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ॥७-६९-१३॥
तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् । रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ॥७-६९-१४॥
नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् । ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ॥७-६९-१५॥
मुहूर्ताल्लब्धसञ्ज्ञस्तु पुनस्तस्थौ धृतायुधः । शत्रुघ्नो वै पुरद्वारि ऋषिभिः सम्प्रपूजितः ॥७-६९-१६॥
ततो दिव्यममोघं तं जग्राह शरमुत्तमम् । ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ॥७-६९-१७॥
वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् । नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ॥७-६९-१८॥
असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् । दानवेन्द्राचलेन्द्राणामसुराणां च दारणम् ॥७-६९-१९॥
तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते । दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ॥७-६९-२०॥
सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् । जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ॥७-६९-२१॥
उवाच देवदेवेशं वरदं प्रपितामहम् । देवानां भयसंमोहो लोकानां सङ्क्षयं प्रति ॥७-६९-२२॥
नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह । देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ॥७-६९-२३॥
तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः । भयकारणमाचष्ट लोकानामभयङ्करः । उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः ॥७-६९-२४॥
वधाय लवणस्याजौ शरः शत्रुघ्नधारितः । तेजसा तस्य सम्मूढाः सर्वे स्मः सुरसत्तमाः ॥७-६९-२५॥
एष पूर्वस्य देवस्य लोककर्तुः सनातनः । शरस्तेजोमयो वत्सा येन वै भयमागतम् ॥७-६९-२६॥
एष वै कैटभस्यार्थे मधुनश्च महाशरः । सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ॥७-६९-२७॥
एक एव प्रजानाति विष्णुस्तेजोमयं शरम् । एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ॥७-६९-२८॥
इतो गच्छत पश्यध्वं वध्यमानं महात्मना । रामानुजेन वीरेण लवणं राक्षसोत्तमम् ॥७-६९-२९॥
तस्य ते देवदेवस्य निशम्य वचनं सुराः । आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ॥७-६९-३०॥
तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम् । ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ॥७-६९-३१॥
अकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः । सिंहनादं भृशं कृत्वा ददर्श लक्षणं पुनः ॥७-६९-३२॥
आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना । लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ॥७-६९-३३॥
आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः । तं मुमोच महाबाणं लवणस्य महोरसि ॥७-६९-३४॥
उरस्तस्य विदार्याशु प्रविवेश रसातलम् ॥७-६९-३५॥
गत्वा रसातलं दिव्यः शरो विबुधपूजितः । पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ॥७-६९-३६॥
शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः । पपात सहसा भूमौ वज्राहत इवाचलः ॥७-६९-३७॥
तच्च शूलं महत्तेन हते लवणराक्षसे । पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ॥७-६९-३८॥
एकेषुपातेन भृशं निपात्य लोकत्रयस्यापि रघुप्रवीरः । विनिर्बभावुत्तमचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ॥७-६९-३९॥
ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः । दिष्ट्या जयो दाशरथेरवाप्तस्त्यक्त्वा भयं सर्प इव प्रशान्तः ॥७-६९-४०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे लवणवधः नाम एकोनसप्ततितमः सर्गः ॥७-६९॥