विष्णुमाल्यवदादियुद्धम्
उत्तरकाण्डः / विष्णुमाल्यवदादियुद्धम्
Script
Translation
Previous
माल्यवदाद्यपत्योत्पत्तिः
Next
मालिवधः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे विष्णुमाल्यवदादियुद्धम् नाम षष्ठः सर्गः ॥७-६॥
तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः ।
भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ॥७-६-१॥
जगत्सृष्ट्यन्तकर्तारमजमव्यक्तरूपिणम् ।
आधारं सर्वलोकानामाराध्यं परमं गुरुम् ॥७-६-२॥
ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् ।
ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः ॥७-६-३॥
सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः ।
प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः ॥७-६-४॥
शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः ।
स्वर्गाच्च देवान्प्रच्याव्य स्वर्गे क्रीडन्ति देववत् ॥७-६-५॥
अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् ।
अहं यमश्च वरुणश्चन्द्रोऽहं रविरप्यहम् ॥७-६-६॥
इति माली सुमाली च माल्यवांश्चैव राक्षसाः ।
बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः ।
तन्नो देव भयार्तानामभयं दातुमर्हसि ॥७-६-७॥
अशिवं वपुरास्थाय जहि वै देवकण्टकान् ॥७-६-८॥
धन्ते समरोद्धर्षा ये च तेषां पुरःसराः ।
इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः ।
सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः ॥७-६-९॥
अहं तान्न हनिष्यामि मयावध्या हि ते सुराः ।
किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ॥७-६-१०॥
एतमेव समुद्योगं पुरस्कृत्य महर्षयः ।
गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः ॥७-६-११॥
ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् ।
विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ॥७-६-१२॥
शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च ।
ऊचुः सम्भ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ॥७-६-१३॥
सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसन्निभैः ।
आक्रम्य वरदानेन स्थानान्यपहृतानि नः ॥७-६-१४॥
लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता ।
तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः ॥७-६-१५॥
स त्वमस्मद्धितार्थाय जहि तान्मधुसूदन ।
शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ॥७-६-१६॥
चक्रकृत्तास्यकमलान्निवेदय यमाय वै ।
भयेष्वभयदोऽस्माकं नान्योऽस्ति भवता विना ॥७-६-१७॥
राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान् ।
नुदं त्वं नो भयं देव नीहारमिव भास्करः ॥७-६-१८॥
इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः ।
अभयं भयदोऽरीणां दत्त्वा देवानुवाच ह ॥७-६-१९॥
सुकेशं राक्षसं जाने ईशानवरदर्पितम् ।
तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ॥७-६-२०॥
तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् ।
निहनिष्यामि सङ्क्रुद्धः सुरा भवत विज्वराः ॥७-६-२१॥
इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना ।
यथावासं ययुर्हृष्टाः प्रशंसन्तो जनार्दनम् ॥७-६-२२॥
विबुधानां समुद्योगं माल्यवांस्तु निशाचरः ।
श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ॥७-६-२३॥
अमरा ऋषयश्चैव सङ्गम्य किल शकरम् ।
अस्मद्वधं परीप्सन्त इदं वचनमब्रुवन् ॥७-६-२४॥
सुकेशतनया देव वरदानबलोद्धताः ।
बाधन्तेऽस्मान्समुद्दृप्ता घोररूपाः पदे पदे ॥७-६-२५॥
राक्षसैरभिभूताः स्म न शक्ताः स्म प्रजापते ।
स्वेषु सद्मसु संस्थातुं भयात्तेषां दुरात्मनाम् ॥७-६-२६॥
तदस्माकं हितार्थाय जहि तांश्च त्रिलोचन ।
राक्षसान्हुङ्कृतेनैव दह प्रदहतां वर ॥७-६-२७॥
इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः ।
शिरः करं च धुन्वान इदं वचनमब्रवीत् ॥७-६-२८॥
अवध्या मम ते देवाः सुकेशतनया रणे ।
मन्त्रं तु वः प्रदास्यामि यस्तान्वै निहनिष्यति ॥७-६-२९॥
योऽसौ चक्रगदापाणिः पीतवासा जनार्दनः ।
हरिर्नारायणः श्रीमान् शरणं तं प्रपद्यथ ॥७-६-३०॥
हरादवाप्य ते मन्त्रं कामारिमभिवाद्य च ।
नारायणालयं प्राप्य तस्मै सर्वं न्यवेदयन् ॥७-६-३१॥
ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः ।
सुरारींस्तान्हनिष्यामि सुरा भवत विज्वराः ॥७-६-३२॥
देवानां भयभीतानां हरिणा राक्षसर्षभौ ।
प्रतिज्ञातो वधोऽस्माकं चिन्त्यतां यदिह क्षमम् ॥७-६-३३॥
हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् ।
नमुचिः कालनेमिश्च संह्रादो वीरसत्तमः ॥७-६-३४॥
राधेयो बहुमायी च लोकपालोऽथ धार्मिकः ।
यमलार्जुनौ च हार्दिक्यः शुम्भश्चैव निशुम्भकः ॥७-६-३५॥
असुरा दानवाश्चैव सत्त्ववन्तो महाबलाः ।
सर्वे समरमासाद्य न श्रूयन्तेऽपराजिताः ॥७-६-३६॥
सर्वैः क्रतुशतैरिष्टं सर्वे मायाविदस्तथा ।
सर्वे सर्वास्त्रकुशलाः सर्वे शत्रुभयङ्कराः ॥७-६-३७॥
नारायणेन निहताः शतशोऽथ सहस्रशः ।
एतज्ज्ञात्वा तु सर्वेषां क्षमं कर्तुमिहार्हथ ॥७-६-३८॥
ततः सुमाली माली च श्रुत्वा माल्यवतो वचः ।
ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् ॥७-६-३९॥
स्वधीतं दत्तमिष्टं चाप्यैश्वर्यं परिपालितम् ।
आयुर्निरामयं प्राप्तं सुधर्मः प्रापितः पथि ॥७-६-४०॥
देवसागरमक्षोभ्यं शस्त्रैः समवगाह्य च ।
जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम् ॥७-६-४१॥
नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा ।
अस्माकं प्रमुखे स्थातुं सर्वे बिभ्यति सर्वदा ॥७-६-४२॥
विष्णोर्देवस्य नास्त्येव कारणं राक्षसेश्वर ।
देवानामेव दोषेण विष्णोः प्रचलितं मनः ॥७-६-४३॥
तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः ।
देवानेव जिघांसाम एभ्यो दोषः समुत्थितः ॥७-६-४४॥
एवं सम्मन्त्र्य बलिनः सर्वे सैन्यसमावृताः ।
उद्योगं घोषयित्वा तु सर्वे नैर्ऋतपुङ्गवाः युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव ॥७-६-४५॥
इति ते राम सम्मन्त्र्य सर्वोद्योगेन राक्षसाः ।
युद्धाय निर्ययुः सर्वे महाकाया महाबलाः ॥७-६-४६॥
स्यन्दनैर्वारणैश्चैव हयैश्च गिरिसन्निभैः ।
खरैर्गोभी रथोष्ट्रैश्च शिंशुमारैर्भुजङ्गमैः ॥७-६-४७॥
मकरैः कच्छपैर्मीनैर्विहङ्गैर्गरुडोपमैः ।
सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि ॥७-६-४८॥
त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः ।
प्रयाता देवलोकाय योद्धुं दैवतशत्रवः ॥७-६-४९॥
लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ ।
भूतानि भयदर्शीनि विमनस्कानि सर्वशः ॥७-६-५०॥
रथोत्तमैरुह्यमानाः शतशोऽथ सहस्रशः ॥७-६-५१॥
प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः ।
रक्षसामेव मार्गेण दैवतान्यपचक्रमुः ॥७-६-५२॥
भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः ।
उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः ॥७-६-५३॥
अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च ।
वेलां समुद्राश्चोत्क्रान्ताश्चेलुश्चाप्यथ भूधराः ॥७-६-५४॥
अट्टहासान्विमुञ्चन्तो घननादसमस्वनाः ।
वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ॥७-६-५५॥
सम्पतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् ।
गृध्रचक्रं महच्चात्र ज्वलनोद्गारिभिर्मुखैः ॥७-६-५६॥
राक्षसानामुपरि खे भ्रमतेऽलातचक्रवत् ।
कपोता रक्तपादाश्च शारिका विद्रुता ययुः काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः ॥७-६-५७॥
उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः ।
यान्त्येव न निवर्त्तन्ते मृत्युपाशावपाशिताः ॥७-६-५८॥
माल्यवांश्च सुमाली च माली च सुमहाबलाः ।
आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः ॥७-६-५९॥
माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् ।
निशाचरा ह्याश्रयन्ति धातारमिव देवताः ॥७-६-६०॥
तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् ।
जयेप्सया देवलोकं ययौ मालिवशे स्थितम् ॥७-६-६१॥
राक्षसानां समुद्योगं तं तु नारायणः प्रभुः ।
देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ॥७-६-६२॥
स सज्जायुधतूणीरो वैनतेयोपरि स्थितः ।
आसज्ज्य कवचं दिव्यं सहस्रार्कसमद्युति ॥७-६-६३॥
आबध्य शरसम्पूर्णे इषुधी विमले तदा ।
श्रोणिसूत्रं च खड्गं च विमलं कमलेक्षणः शङ्खचक्रगदाशार्ङ्गखड्गाख्यप्रवरायुधान् ॥७-६-६४॥
सुपर्णं गिरिसङ्काशं वैनतेयमथास्थितः ।
राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ॥७-६-६५॥
सुपर्णपृष्ठे स बभौ श्यामः पीताम्बरो हरिः ।
काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ॥७-६-६६॥
स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः ।
समाससादासुरसैन्यशत्रूंश्चक्रासिशार्ङ्गायुधशङ्खपाणिः ॥७-६-६७॥
सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् ।
चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन्द्रः ॥७-६-६८॥
ततः शरैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः ।
निशाचराः सम्परिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः ॥७-६-६९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे विष्णुमाल्यवदादियुद्धम् नाम षष्ठः सर्गः ॥७-६॥
Previous
माल्यवदाद्यपत्योत्पत्तिः
Next
मालिवधः