माल्यवदाद्यपत्योत्पत्तिः
उत्तरकाण्डः / माल्यवदाद्यपत्योत्पत्तिः
Script
Translation
Previous
रावणादिपूर्वतनराक्षसोत्पत्तिकथनम्
Next
विष्णुमाल्यवदादियुद्धम्
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे माल्यवदाद्यपत्योत्पत्तिः नाम पञ्चमः सर्गः ॥७-५॥
सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम् ।
ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ॥७-५-१॥
तस्य देववती नाम द्वितीया श्रीरिवात्मजा ।
त्रिषु लोकेषु विख्याता रूपयौवनशालिनी ।
तां सुकेशाय धर्मेण ददौ रक्षःश्रियं यथा ॥७-५-२॥
वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ।
आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ॥७-५-३॥
स तया सह संयुक्तो रराज रजनीचरः ।
अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ॥७-५-४॥
देववत्यां सुकेशस्तु जनयामास राघव ॥७-५-५॥
त्रीन् पुत्रान् जनयामास त्रेताग्निसमविग्रहान् ।
माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ।
त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ॥७-५-६॥
त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः ।
त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ॥७-५-७॥
त्रयः सुकेशस्य सुतास्त्रेताग्निसमतेजसः ।
विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ॥७-५-८॥
वरप्राप्तिं पितुस्ते तु ज्ञात्वेश्वरतपोबलात् ।
तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ॥७-५-९॥
प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम ।
विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ॥७-५-१०॥
सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः ।
सन्तापयन्तस्त्रील्लोँकान्सदेवासुरमानुषान् ॥७-५-११॥
ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः ।
सुकेशपुत्रानामन्त्र्य वरदोऽस्मीत्यभाषत ॥७-५-१२॥
ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् ।
ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ॥७-५-१३॥
तपसाराधितो देव यदि नो दिशसे वरम् ।
अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ॥७-५-१४॥
प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ॥७-५-१५॥
एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः ।
स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥७-५-१६॥
वरं लब्ध्वा तु ते सर्वे राम रात्रिञ्चरास्तदा ।
सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ॥७-५-१७॥
तैर्वध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः ।
त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ॥७-५-१८॥
अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ।
ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥७-५-१९॥
ओजस्तेजोबलवतां महतामात्मतेजसा ।
गृहकर्ता भवानेव देवानां हृदयेप्सितम् ॥७-५-२०॥
अस्माकमपि तावत्त्वं गृहं कुरु महामते ।
हिमवन्तमपाश्रित्य मेरुमन्दरमेव वा ।
महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ॥७-५-२१॥
विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः ।
निवासं कथयामास शक्रस्येवामरावतीम् ॥७-५-२२॥
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।
सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ॥७-५-२३॥
शिखरे तस्य शैलस्य मध्यमेऽम्बुदसन्निभे ।
शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ॥७-५-२४॥
त्रिंशद्योजनक्स्तीर्णा शतयोजनमायता ।
स्वर्णप्राकारसंवीता हेमतोरणसंवृता ॥७-५-२५॥
मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता ।
तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ॥७-५-२६॥
अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ।
लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ॥७-५-२७॥
भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ॥७-५-२८॥
विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः ।
सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ॥७-५-२९॥
दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् ।
लङ्कामवाप्य ते हृष्टा न्यवसन्रजनीचराः ॥७-५-३०॥
एतस्मिन्नेव काले तु यथाकामं च राघव ।
नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ॥७-५-३१॥
तस्याः कान्यात्रयं ह्यासीत् धीश्रीकिर्तिसमद्युति ।
ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ॥७-५-३२॥
कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः ।
त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ॥७-५-३३॥
दत्ता मात्रा महाभागा नक्षत्रे भगदैवते ।
कुतदारास्तु ते राम सुकेशतनयास्तदा ॥७-५-३४॥
चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः ।
ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ॥७-५-३५॥
स तस्यां जनयामास यदपत्यं निबोध तत् ।
वज्रमुष्टिर्विरूपाक्षोदुर्मुखश्चैव राक्षसः ॥७-५-३६॥
सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च ।
अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ॥७-५-३७॥
सुमालिनोऽपि भार्यासीत्पूर्णचद्रनिभानना ।
नाम्ना केतुमती राम प्राणेभ्योऽपि गरीयसी ॥७-५-३८॥
सुमाली जनयामास यदपत्यं निशाचरः ।
केतुमत्यां महाराज तन्निबोधानुपूर्वशः ॥७-५-३९॥
प्रहस्तोऽकम्पनश्चैव विकटः कालकार्मुखः ।
धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ॥७-५-४०॥
संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः ।
राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ॥७-५-४१॥
मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी ।
भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ॥७-५-४२॥
सुमालेरनुजस्तस्यां जनयामास यत् प्रभो ।
अपत्यं कथ्यमानं तु मया त्वं शृणु राघव ॥७-५-४३॥
अनिलश्चानलश्चैव हरः सम्पातिरेव च ।
एते विभीषणामात्या मालेयास्तु निशाचरः ॥७-५-४४॥
ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः ।
सुरान्सहेन्द्रानृषिनागयक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः ॥७-५-४५॥
जगद्भ्रमन्तोऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः ।
वरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमङ्कराः सदा ॥७-५-४६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे माल्यवदाद्यपत्योत्पत्तिः नाम पञ्चमः सर्गः ॥७-५॥
Previous
रावणादिपूर्वतनराक्षसोत्पत्तिकथनम्
Next
विष्णुमाल्यवदादियुद्धम्