मालिवधः

उत्तरकाण्डः / मालिवधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे मालिवधः नाम सप्तमः सर्गः ॥७-७॥
नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः । ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥७-७-१॥
श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तञ्चरोत्तमैः । वृतोऽञ्जनगिरीवासीत् वर्षमाणैः पयोधरैः ॥७-७-२॥
शलभा इव केदारं मशका इव पर्वतम् । यथामृतघटं दंशा मकरा इव चार्णवम् ॥७-७-३॥
तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः । हरिं विशन्ति स्म शरा लोका इव विपर्यये ॥७-७-४॥
स्यन्दनैः स्यन्दनगता गजैश्च गजपृष्ठगाः । अश्वारोहास्तथाश्वैश्च पादाताश्चाम्बरे स्थिताः ॥७-७-५॥
राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्यृष्टितोमरैः । निरुछ्वासं हरिं चक्रुः प्राणायामा इव द्विजम् ॥७-७-६॥
निशाचरैस्ताड्यमानो मीनैरिव महोदधिः । शार्ङ्गमायम्य दुर्धर्षो राक्षसेभ्योऽसृजच्छरान् ॥७-७-७॥
शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः । चिच्छेद विष्णुर्निशितैः शतशोऽथ सहस्रशः ॥७-७-८॥
विद्राव्य शरवर्षेण वर्षा वायुरिवोत्थितम् । पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ॥७-७-९॥
सोऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् । ररास भीमनिर्हादस्त्रैलोक्यं व्यथयन्निव ॥७-७-१०॥
शङ्खराजरवः सोऽथ त्रासयामास राक्षसान् । मृगराज इवारण्ये समदानिव कुञ्जरान् ॥७-७-११॥
न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् । स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः ॥७-७-१२॥
शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः । विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ॥७-७-१३॥
भिद्यमानाः शरैः सङ्ख्ये नारायणकरच्युतैः । निपेतू राक्षसा भूमौ शैला वज्रहता इव ॥७-७-१४॥
व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि वै । असृक्क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः ॥७-७-१५॥
शङ्खराजरवश्चापि शार्ङ्गचापरस्वस्तथा । राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः ॥७-७-१६॥
तेषां शिरोधरान्धूताञ्छरध्वजधनूंषि च । रथान्पताकास्तूणीरांश्चिच्छेद स हरिः शरैः ॥७-७-१७॥
सूर्यादिव करा घोरा ऊर्मयः सागरादिव । पर्वतादिव नागेन्द्रा धारौघा इव चाम्बुदात् ॥७-७-१८॥
तथा शार्ङ्गविनिर्मुक्ताः शरा नारायणेरिताः । निर्धावन्तीषवस्तूर्णं शतशोथ सहस्रशः ॥७-७-१९॥
शरभेण यथा सिंहाः सिंहेन द्विरदा यथा । द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा ॥७-७-२०॥
द्वीपिनेव यथा श्वानः शुना मार्जारका यथा । मार्जारेण यथा सर्पाः सर्पेण च यथाऽऽखवः ॥७-७-२१॥
तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना । द्रवन्ति द्राविताश्चन्ये शायिताश्च महीतले ॥७-७-२२॥
राक्षसानां सहस्राणि निहत्य मधुसूदनः । वारिजं पूरयामास तोयदं सुरराडिव ॥७-७-२३॥
नारायणशरत्रस्तं शङ्खनादसुविह्वलम् । ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ॥७-७-२४॥
प्रभग्ने राक्षसबले नारायणशराहते । सुमाली शरवर्षेण निववार रणे हरिम् ॥७-७-२५॥
स तु तं छादयामास नीहार इव भास्करम् । राक्षसाः सत्त्वसम्पन्नाः पुनर्धैर्यं समादधुः ॥७-७-२६॥
अथ सोऽभ्यपतद्रोषाद्राक्षसो बलदर्पितः । महानादं प्रकुर्वाणो राक्षसाञ्जीवयन्निव ॥७-७-२७॥
उत्क्षिप्य लम्बाभरणं धुन्वन्करमिव द्विपः । ररास राक्षसो हर्षात्सतडित्तोयदो यथा ॥७-७-२८॥
सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् । चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः ॥७-७-२९॥
तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः । इन्द्रियाश्वैः परिभ्रान्तैर्धृतिहीनो यथा नरः ॥७-७-३०॥
ततो विष्णुं महाबाहुं प्रपतन्तं रणाजिरे । हृते सुमालेरश्वैश्च रथे विष्णुरथं प्रति ॥७-७-३१॥
माली चाभ्यद्रवद्युक्तः प्रगृह्य सशरं धनुः । मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः । विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ॥७-७-३२॥
अर्द्यमानः शरैः सोऽथ मालिमुक्तैः सहस्रशः । चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः ॥७-७-३३॥
अथ मौर्वीस्वनं कृत्वा भगवान्भूतभावनः । मालिनं प्रति बाणौघान्ससर्जारिनिषूदनः ॥७-७-३४॥
ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः । पिबन्ति रुधिरं तस्य नागा इव सुधारसम् ॥७-७-३५॥
मालिनं विमुखं कृत्वा शङ्खचक्रगदाधरः । मालिमौलिं ध्वजं चापं वाजिनश्चाप्यपातयत् ॥७-७-३६॥
विरथस्तु गदां गृह्य माली नक्तञ्चरोत्तमः । आपुप्लुवे गदापाणिर्गिर्यग्रादिव केसरी ॥७-७-३७॥
गदया गरुडेशानमीशानमिव चान्तकः । ललाटदेशेऽभ्यहनद्वज्रेणेन्द्रो यथाऽचलम् ॥७-७-३८॥
गदयाभिहतस्तेन मालिना गरुडो भृशम् । रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः ॥७-७-३९॥
पराङ्मुखे कृते देवे मालिना गरुडेन वै । उदतिष्ठन्महाञ्छब्दो रक्षसामभिनर्दताम् ॥७-७-४०॥
रक्षसां रवतां रावं श्रुत्वा हरिहयानुजः ॥७-७-४१॥
तिर्यगास्थाय सङ्क्रुद्धः पक्षीशे भगवान्हरिः । पराङ्मुखोऽप्युत्ससर्ज मालेश्चक्रं जिघांसया ॥७-७-४२॥
तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः । कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् ॥७-७-४३॥
तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं बिभीषणम् । पपात रुधिरोद्गारि पुरा राहुशिरो यथा ॥७-७-४४॥
ततः सुरैः संसहृष्टैः सर्वप्राणसमीरितः । सिंहनादरवोन्मुक्तः साधु देवेतिवादिभिः ॥७-७-४५॥
मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि । सबलौ शोकसन्तप्तौ लङ्कामेव प्रधावितौ ॥७-७-४६॥
गरुडस्तु समाश्वस्तः सन्निवृत्य यथा पुरा । राक्षसान्द्रावयामास पक्षवातेन कोपितः ॥७-७-४७॥
चक्रकृत्तास्यकमला गदासञ्चूर्णितोरसः । लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः ॥७-७-४८॥
केचिच्चैवासिना छिन्नास्तथान्ये शरपीडिताः । निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ॥७-७-४९॥
नारायणो बाणवराशनीभिर्विदारयामास धनुर्विमुक्तैः । नक्तञ्चरान्मुक्तविधूतकेशान्यथाऽशनीभिः सतडिन्महाभ्राः ॥७-७-५०॥
भिन्नातपत्रं पतमानमस्त्रं शरैरपध्वस्तविनीतवेषम् । विनिस्सृतान्त्रं भयलोलनेत्रं बलं तदुन्मत्ततरं बभूव ॥७-७-५१॥
सिंहार्दितानामिव कुञ्जराणां निशाचराणां सह कुञ्जराणाम् । रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम् ॥७-७-५२॥
ते वार्यमाणा हरिबाणजालैः सबाणजालानि समुत्सृजन्तः । धावन्ति नक्तञ्चरकालमेघा वायुप्रभिन्ना इव कालमेघाः ॥७-७-५३॥
चक्रपहारैर्विनिकृत्तशीर्षाः सञ्चूर्णिताङ्गाश्च गदाप्रहारैः । अभिप्रहारैर्द्विविधा विभिन्नाः पतन्ति शैला इव राक्षसेन्द्राः ॥७-७-५४॥
विलम्बमानैर्मणिहारकुण्डलैर्निशाचरैर्नीलबलाहकोपमैः । निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नीलपर्वतैः ॥७-७-५५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे मालिवधः नाम सप्तमः सर्गः ॥७-७॥