रावणादिपूर्वतनराक्षसोत्पत्तिकथनम्
उत्तरकाण्डः / रावणादिपूर्वतनराक्षसोत्पत्तिकथनम्
Script
Translation
Previous
वैश्रवणलोकपालपदलङ्कादिप्राप्तिः
Next
माल्यवदाद्यपत्योत्पत्तिः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे रावणादिपूर्वतनराक्षसोत्पत्तिकथनम् नाम चतुर्थः सर्गः ॥७-४॥
श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः ।
कथमासीत्तु लङ्कायां सम्भवो रक्षसां पुरा ॥७-४-१॥
ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् ।
तमगस्त्यं मुहुर्दृष्ट्वा स्मयमानोऽभ्यभाषत ॥७-४-२॥
भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् ।
श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः ॥७-४-३॥
पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् ।
इदानीमन्यतश्चापि सम्भवः कीर्तितस्त्वया ॥७-४-४॥
रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि ।
रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः ॥७-४-५॥
क एषां पूर्वको ब्रह्मन्किन्नामा च बलोत्कटः ।
अपराधं च कं प्राप्य विष्णुना द्राविताः कथम् ॥७-४-६॥
एतद्विस्तरतः सर्वं कथयस्व ममानघ ।
कुतूहलमिदं मह्यं नुद भानुर्यथा तमः ॥७-४-७॥
राघवस्य वचः श्रुत्वा संस्कारालङ्कृतं शुभम् ।
ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् ॥७-४-८॥
प्रजापतिः पुरा सृष्ट्वा ह्यपः सलिलसम्भवः ।
तासां गोपायने सत्त्वानसृजत्पद्मसम्भवः ॥७-४-९॥
ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः ।
किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ॥७-४-१०॥
प्रजापतिस्तु तान्याह सत्वानि प्रहसन्निव ।
आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः ॥७-४-११॥
रक्षामेति च तत्रान्ये जक्षाम इति चापरे ।
भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत् ॥७-४-१२॥
रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः ।
जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः ॥७-४-१३॥
तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ ।
मधुकैटभसङ्काशौ बभूवतुररिन्दमौ ॥७-४-१४॥
प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा ।
हेतिर्दारक्रियार्थे तु परं यत्नमथाकरोत् ॥७-४-१५॥
स कालभगिनीं कन्यां भयां नाम भयावहाम् ।
उदावहदमेयात्मा स्वयमेव महामतिः ॥७-४-१६॥
स तस्यां जनयामास हेती राक्षसपुङ्गवः ।
पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ॥७-४-१७॥
विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः ।
व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः ॥७-४-१८॥
स यदा यौवनं भद्रमनुप्राप्तो निशाचरः ।
ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता ॥७-४-१९॥
सन्ध्यायास्तनयां सोऽथ सन्ध्यातुल्यां प्रभावतः ।
वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः ॥७-४-२०॥
अवश्यमेव दातव्या परस्मै सेति सन्ध्यया ।
चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ॥७-४-२१॥
सन्ध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः ।
रमते स्म तया सार्धं पौलोम्या मघवानिव ॥७-४-२२॥
केनचित्त्वथ कालेन राम सालकटङ्कटा ।
विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् ॥७-४-२३॥
ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् ।
प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् ॥७-४-२४॥
समुत्सृज्य तु सा गर्भं विद्युत्केशरतार्थिनी ।
रेमे तु सार्धं पतिना विस्मृत्य सुतमात्मजम् ॥७-४-२५॥
उत्सृष्टस्तु तदा गर्भो घनशब्दसमस्वनः ।
तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः ।
निधायास्ये स्वयं मुष्टिं रुरोद शनकैस्तदा ॥७-४-२६॥
ततो वृषभमास्थाय पार्वत्या सहितः शिवः ।
वायुमार्गेण गच्छन्वै शुश्राव रुदितस्वनम् ॥७-४-२७॥
अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् ।
कारुण्यभावात्पार्वत्या भवस्त्रिपुरसूदनः ॥७-४-२८॥
तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् ।
अमरं चैव तं कृत्वा महादेवोऽक्षरोऽव्ययः ॥७-४-२९॥
पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया ।
उमयापि वरो दत्तो राक्षसानां नृपात्मज ॥७-४-३०॥
सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च ।
सद्य एव वयःप्राप्तिर्मातुरेव वयस्समम् ॥७-४-३१॥
ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः ।
चचार सर्वत्र महान्महामतिः खगं पुरं प्राप्य पुरन्दरो यथा ॥७-४-३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे रावणादिपूर्वतनराक्षसोत्पत्तिकथनम् नाम चतुर्थः सर्गः ॥७-४॥
Previous
वैश्रवणलोकपालपदलङ्कादिप्राप्तिः
Next
माल्यवदाद्यपत्योत्पत्तिः