वाल्मीक्याश्रमप्रवेशः
उत्तरकाण्डः / वाल्मीक्याश्रमप्रवेशः
Script
Translation
Previous
सीतापरित्यागः
Next
सुमन्त्ररहस्यकथनम्
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे वाल्मीक्याश्रमप्रवेशः नाम एकोनपञ्चाशः सर्गः ॥७-४९॥
सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः ।
प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ॥७-४९-१॥
अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये ।
सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् ॥७-४९-२॥
अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः ।
पत्नी श्रीरिव सम्मोहाद्विरौति विकृतानना ॥७-४९-३॥
भगवन्साधु पश्य त्वं देवतामिव खाच्च्युताम् ।
नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता ॥७-४९-४॥
दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा ।
अनर्हा दुःखशोकाभ्यामेकां दीनां ह्यनाथवत् ॥७-४९-५॥
न ह्येनां मानुषीं विद्मः सत्क्रियाऽस्याः प्रयुज्यताम् ।
आश्रमस्याविदूरे च त्वामियं शरणं गता ॥७-४९-६॥
त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि ।
तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् ।
तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली ॥७-४९-७॥
तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् ।
तं तु देशमभि प्रेत्य किञ्चित्पद्भ्यां महामतिः ॥७-४९-८॥
अर्घ्यमादाय रुचिरं जाह्नवीतीरमागमत् ।
ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ॥७-४९-९॥
तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः ।
उवाच मधुरां वाणीं ह्लादयन्निव तेजसा ॥७-४९-१०॥
स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया ।
जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ॥७-४९-११॥
आयान्ती चासि विज्ञाता मया धर्मसमाधिना ।
कारणं चैव सर्वं मे हृदयेनोपलक्षितम् ॥७-४९-१२॥
तव चैव महाभागे विदितं मम तत्त्वतः ।
सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ॥७-४९-१३॥
अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा ।
विस्रब्धा भव वैदेहि साम्प्रतं मयि वर्तसे ॥७-४९-१४॥
आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः ।
तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ॥७-४९-१५॥
इदमर्ध्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा ।
यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ॥७-४९-१६॥
श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् ।
शिरसाऽऽवन्द्य चरणौ तथेत्याह कृताञ्जलिः ॥७-४९-१७॥
तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतोऽन्वगात् ॥७-४९-१८॥
तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः ।
उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ॥७-४९-१९॥
स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते ।
अभिवादयामस्त्वां सर्वा उच्यतां कि च कुर्महे ॥७-४९-२०॥
तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् ।
सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ॥७-४९-२१॥
स्नुषा दशरथस्यैषा जनकस्य सुता सती ।
अपापा पतिना त्यक्ता परिपाल्या मया सदा ॥७-४९-२२॥
इमां भवन्त्यः पश्यन्तु स्नेहेन परमेण हि ।
गौरवान्मम वाक्याच्च पूज्या वोऽस्तु विशेषतः ॥७-४९-२३॥
मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः ।
स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ॥७-४९-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे वाल्मीक्याश्रमप्रवेशः नाम एकोनपञ्चाशः सर्गः ॥७-४९॥
Previous
सीतापरित्यागः
Next
सुमन्त्ररहस्यकथनम्