सीतापरित्यागः
उत्तरकाण्डः / सीतापरित्यागः
Script
Translation
Previous
रामशासनकथनम्
Next
वाल्मीक्याश्रमप्रवेशः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे सीतापरित्यागः नाम अष्टचत्वारिंशः सर्गः ॥७-४८॥
लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा ।
परं विषादमागम्य वैदेही निपपात ह ॥७-४८-१॥
सा मुहूर्तमिवासञ्ज्ञा बाष्पपर्याकुलेक्षणा ।
लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ॥७-४८-२॥
मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण ।
धात्रा यस्यास्तथा मेऽद्य दुःखमूर्तिः प्रदृश्यते ॥७-४८-३॥
किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः ।
याऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती ॥७-४८-४॥
पुराऽहमाश्रमे वासं रामपादानुवर्तिनी ।
अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी ॥७-४८-५॥
सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता ।
आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ॥७-४८-६॥
किं नु वक्ष्यामि मुनिषु कर्म वा सत्कृतं च किम् ।
कस्मिंश्चित् कारणे त्यक्ता राघवेण महात्मना ॥७-४८-७॥
न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले ।
त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ॥७-४८-८॥
यथाज्ञं कुरु सोमित्रे त्यज मां दुःखभागिनीम् ।
निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ॥७-४८-९॥
श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च ।
शिरसाऽऽवन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् ॥७-४८-१०॥
शिरसाऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण ।
वक्तव्यश्चापि नृपतिर्धर्मेषु सुसमाहितः ॥७-४८-११॥
जानासि च यथा शुद्धा सीता तत्त्वेन राघव ।
भक्त्या च परया युक्ता हिता च तव नित्यशः ॥७-४८-१२॥
अहं त्यक्ता त्वया वीर अयशोभीरुणा जने ।
यच्च ते वचनीयं स्यादपवादसमुत्थितम् ।
मया च परिहर्तव्यं त्वं हि मे परमा गतिः ॥७-४८-१३॥
वक्तव्यश्चेति नृपतिर्धमेण सुसमाहितः ।
यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ॥७-४८-१४॥
परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा ॥७-४८-१५॥
यत्तु पौरजनो राजन्धर्मेण समवाप्नुयात् ।
अहं तु नानुशोचामि स्वशरीरं नरर्षभ ॥७-४८-१६॥
यथापवादं पौराणां तथैव रघुनन्दन ।
पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः ॥७-४८-१७॥
प्राणैरपि प्रियं तस्माद्भर्तुः कार्यं विशेषतः ।
इति मद्वचनाद्रामो वक्तव्यो मम सङ्ग्रहः ।
निरीक्ष्य माऽद्य गच्छ त्वमृतुकालातिवर्तिनीम् ॥७-४८-१८॥
एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः ।
शिरसाऽऽवन्द्य धरणीं व्याहर्तुं न शशाक ह ॥७-४८-१९॥
प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः ।
ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने ॥७-४८-२०॥
दृष्टपूर्वं न ते रूपं पादौ दृष्टौ तवानघे ।
कथमत्र हि पश्यामि रामेण रहितां वने ॥७-४८-२१॥
इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् ।
आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत् ॥७-४८-२२॥
स गत्वा चोत्तरं तीरं शोकभारसमन्वितः ।
सम्मूढ इव दुःखेन रथमध्यारुहद्द्रुतम् ॥७-४८-२३॥
मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् ।
चेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ ॥७-४८-२४॥
दूरस्थं रथमालोक्य लक्ष्मणं च मुहूर्मुहुः ।
निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत् ॥७-४८-२५॥
सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती ।
रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती ॥७-४८-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सीतापरित्यागः नाम अष्टचत्वारिंशः सर्गः ॥७-४८॥
Previous
रामशासनकथनम्
Next
वाल्मीक्याश्रमप्रवेशः