सुमन्त्ररहस्यकथनम्

उत्तरकाण्डः / सुमन्त्ररहस्यकथनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे सुमन्त्ररहस्यकथनम् नाम पञ्चाशः सर्गः ॥७-५०॥
दृष्ट्वा तु मैथिलीं सीतामाश्रमे सम्प्रवेशिताम् । सन्तापमगमद्घोरं लक्ष्मणो दीनचेतनः ॥७-५०-१॥
अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् । सीतासन्तापजं दुःखं पश्य रामस्य सारथे ॥७-५०-२॥
ततो दुःखतरं किं नु राघवस्य भविष्यति । पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ॥७-५०-३॥
व्यक्तं दैवादहं मन्ये राघवस्य विना भवम् । वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ॥७-५०-४॥
यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः । निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ॥७-५०-५॥
पुरा रामः पितुर्वाक्याद्दण्डके विजने वने । उषित्वा नव वर्षाणि पञ्च चैव महावने ॥७-५०-६॥
ततो दुःखतरं भूयः सीताया विप्रवासनम् । पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ॥७-५०-७॥
को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे । मैथिलीं प्रतिसम्प्राप्तः पौरैर्हीनार्थवादिभिः ॥७-५०-८॥
एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः । सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ॥७-५०-९॥
न सन्तापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति । दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ॥७-५०-१०॥
भविष्यति दृढं रामो दुःखप्रायोऽपि सौख्यभाक् । प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्ध्रुवम् ॥७-५०-११॥
त्वां चैव मैथिलीं चैव शत्रुघ्नभरतावुभौ । सन्त्यजिष्यति धर्मात्मा कालेन महता महान् ॥७-५०-१२॥
इदं त्वयि न वक्तव्यं सौमित्रे भरतेऽपि वा । राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ॥७-५०-१३॥
महाजनसमीपे च मम चैव नरर्षभ । ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ॥७-५०-१४॥
ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः । सूत न क्वचिदेवं ते वक्तव्यं जनसन्निधौ ॥७-५०-१५॥
तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः । नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ॥७-५०-१६॥
सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः । यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ॥७-५०-१७॥
यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा । तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ॥७-५०-१८॥
येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् । न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ॥७-५०-१९॥
तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् । तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ॥७-५०-२०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सुमन्त्ररहस्यकथनम् नाम पञ्चाशः सर्गः ॥७-५०॥