लक्ष्मणाद्यानयनम्
उत्तरकाण्डः / लक्ष्मणाद्यानयनम्
Script
Translation
Previous
भद्रवाक्यश्रवणम्
Next
सीतासमुत्सर्गादेशः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे लक्ष्मणाद्यानयनम् नाम चतुश्चत्वारिंशः सर्गः ॥७-४४॥
विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः ।
समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ॥७-४४-१॥
शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् ।
भरतं च महाभागं शत्रुघ्नमपराजितम् ॥७-४४-२॥
रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।
लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ॥७-४४-३॥
उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः ।
द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ॥७-४४-४॥
बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् ।
प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ॥७-४४-५॥
प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् ।
उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ॥७-४४-६॥
विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति ।
भरतस्तु वचःश्रुत्वा द्वाःस्थाद्रामसमीरितम् ॥७-४४-७॥
उत्पपातासनात्तूर्णं पद्भ्यामेव ययौ बली ।
दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ॥७-४४-८॥
शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह ।
एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ॥७-४४-९॥
गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः ।
श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ॥७-४४-१०॥
शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः ।
द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः ।
निवेदयामास तदा भ्रातऽन्स्वान्समुपस्थितान् ॥७-४४-११॥
कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः ।
अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् ॥७-४४-१२॥
प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः ।
एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ॥७-४४-१३॥
आज्ञप्तास्तु नरेन्द्रेण कुमाराः शक्रतेजसः ।
प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ॥७-४४-१४॥
ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा ।
सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ॥७-४४-१५॥
बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः ।
हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ॥७-४४-१६॥
ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः ।
तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् ॥७-४४-१७॥
तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः ।
आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ॥७-४४-१८॥
भवन्तो मम सर्वस्वं भवन्तो जीवितं मम ।
भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ॥७-४४-१९॥
भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः ।
सम्भूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः ॥७-४४-२०॥
तथा वदति काकुत्स्थे अवधानपरायणाः ।
उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति ॥७-४४-२१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे लक्ष्मणाद्यानयनम् नाम चतुश्चत्वारिंशः सर्गः ॥७-४४॥
Previous
भद्रवाक्यश्रवणम्
Next
सीतासमुत्सर्गादेशः