सीतासमुत्सर्गादेशः
उत्तरकाण्डः / सीतासमुत्सर्गादेशः
Script
Translation
Previous
लक्ष्मणाद्यानयनम्
Next
सीतागङ्गातीरनयनम्
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे सीतासमुत्सर्गादेशः नाम पञ्चचत्वारिंशः सर्गः ॥७-४५॥
तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् ।
उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ॥७-४५-१॥
सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा ।
पौराणां मम सीतायां यादृशी वर्तते कथा ॥७-४५-२॥
पौरापवादः सुमहांस्तथा जनपदस्य च ।
वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ॥७-४५-३॥
अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् ।
सीताऽपि सत्कुले जाता जनकानां महात्मनाम् ॥७-४५-४॥
जानासि त्वं यथा सौम्य दण्डके विजने वने ।
रावणेन हृता सीता स च विध्वंसितो मया ॥७-४५-५॥
तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति ।
अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ॥७-४५-६॥
प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा ।
प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः ।
अपापां मैथिलीमाह वायुश्चाकाशगोचरः ॥७-४५-७॥
चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा ।
ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ॥७-४५-८॥
एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ ।
लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ॥७-४५-९॥
अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ।
ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ॥७-४५-१०॥
अयं तु मे महान्वादः शोकश्च हृदि वर्तते ।
पौरापवादः सुमहांस्तथा जनपदस्य च ॥७-४५-११॥
अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ।
पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ॥७-४५-१२॥
अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते ।
कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ॥७-४५-१३॥
अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः ।
अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ॥७-४५-१४॥
तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे ।
नहि पश्याम्यहं भूतं किञ्चिद्दुःखमतोऽधिकम् ॥७-४५-१५॥
श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् ।
आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ॥७-४५-१६॥
गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः ।
आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः ॥७-४५-१७॥
तत्रैनां विजने देशे विसृज्य रघुनन्दन ।
शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ॥७-४५-१८॥
न चास्मिन् प्रतिवक्तव्यः सीतां प्रति कथञ्चन ।
तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ॥७-४५-१९॥
अप्रीतिर्हि परा मह्यं त्वयेतत्प्रतिवारिते ।
शापिता हि मया यूयं भुजाभ्यां जीवितेन च ॥७-४५-२०॥
ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन ।
अहिता नाम ते नित्यं मदभीष्टविघातनात् ॥७-४५-२१॥
मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ।
इतोऽद्य नीयतां सीता कुरुष्व वचनं मम ॥७-४५-२२॥
पूर्वमुक्तोऽहमनया गङ्गातीरेऽहमाश्रमान् ।
पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ॥७-४५-२३॥
एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः ।
प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः ॥७-४५-२४॥
शोकसंलग्नहृदयो निशश्वास यथा द्विपः ॥७-४५-२५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सीतासमुत्सर्गादेशः नाम पञ्चचत्वारिंशः सर्गः ॥७-४५॥
Previous
लक्ष्मणाद्यानयनम्
Next
सीतागङ्गातीरनयनम्