भद्रवाक्यश्रवणम्
उत्तरकाण्डः / भद्रवाक्यश्रवणम्
Script
Translation
Previous
रामसीताविहारः
Next
लक्ष्मणाद्यानयनम्
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे भद्रवाक्यश्रवणम् नाम त्रिचत्वारिशः सर्गः ॥७-४३॥
तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः ।
कथानां बहुरूपाणां हास्यकाराः समन्ततः ॥७-४३-१॥
विजयो मधुमत्तश्च काश्यपो मङ्गलः कुटः ।
सुराजः कालियो भद्रो दन्तवक्रः सुमागधः ॥७-४३-२॥
एते कथा बहुविधाः परिहाससमन्विताः ।
कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ॥७-४३-३॥
ततः कथायां कस्याञ्चिद्राघवः समभाषत ।
काः कथा नगरे भद्र वर्तन्ते विषयेषु च ॥७-४३-४॥
मामाश्रितानि कान्याहुः पौरजानपदा जनाः ।
किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम् ॥७-४३-५॥
किं नु शत्रुघ्नमुद्दिश्य कैकयीं किं नु मातरम् ।
वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च ॥७-४३-६॥
एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् ।
स्थिताः कथा शुभाः राजन्वर्तन्ते पुरवासिनाम् ॥७-४३-७॥
अमुं तु विजयं सौम्य दशग्रीववधार्जितम् ।
भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ ॥७-४३-८॥
एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् ।
कथयस्व यथातत्त्वं सर्वं निरवशेषतः ॥७-४३-९॥
शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः ।
श्रुत्वेदानीं शुभं कुर्यां नकुर्यामशुभानि च ॥७-४३-१०॥
कथयस्व च विस्रब्धो निर्भयं विगतज्वरः ।
कथयन्ति यथा पौराः पापा जनपदेषु च ॥७-४३-११॥
राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः ।
प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ॥७-४३-१२॥
शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् ।
चत्वरापणरथ्यासु वनेषूपवनेषु च ॥७-४३-१३॥
दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् ।
अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ॥७-४३-१४॥
रावणश्च दुराधर्षो हतः सबलवाहनः ।
वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ॥७-४३-१५॥
हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः ।
अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ॥७-४३-१६॥
कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् ।
अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ॥७-४३-१७॥
लङ्कामपि पुरा नीतामशोकवनिकां गताम् ।
रक्षसां वशमापन्नां कथं रामो न कुत्सते ॥७-४३-१८॥
अस्माकमपि दारेषु सहनीयं भविष्यति ।
यथा हि कुरुते राजा प्रजा तमनुवर्तते ॥७-४३-१९॥
एवं बहुविधा वाचो वदन्ति पुरवासिनः ।
नगरेषु च सर्वेषु राजञ्जनपदेषु च ॥७-४३-२०॥
तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् ।
उवाच सुहृदः सर्वान्कथमेतद्ब्रवीथ माम् ॥७-४३-२१॥
सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च ।
प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ॥७-४३-२२॥
श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् ।
विसर्जयामास तदा वयस्याञ्छत्रुसूदनः ॥७-४३-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे भद्रवाक्यश्रवणम् नाम त्रिचत्वारिशः सर्गः ॥७-४३॥
Previous
रामसीताविहारः
Next
लक्ष्मणाद्यानयनम्