रामसीताविहारः

उत्तरकाण्डः / रामसीताविहारः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे रामसीताविहारः नाम द्विचत्वारिंशः सर्गः ॥७-४२॥
स विसृज्य ततो रामः पुष्पकं हेमभूषितम् । प्रविवेश महाबाहुरशोकवनिकां तदा ॥७-४२-१॥
चन्दनागुरुचूतैश्च तुङ्गकालेयकैरपि । देवदारुवनैश्चापि समन्तादुपशोभिताम् ॥७-४२-२॥
चम्पकाशोकपुन्नागमधूकपनसासनैः । शोभितां पारिजातैश्च विधूमज्वलनप्रभैः ॥७-४२-३॥
लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः । मन्दारकदलीगुल्मलताजालसमावृताम् ॥७-४२-४॥
प्रियङ्गुभिः कदम्बैश्च तथा च वकुलैरपि । जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ॥७-४२-५॥
सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः । दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ॥७-४२-६॥
तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः । चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसङ्कुलैः ॥७-४२-७॥
कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः । शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ॥७-४२-८॥
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः । नीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः ॥७-४२-९॥
सुरभीणि च पुष्पाणि माल्यानि विविधानि च । दीर्घिका विविधाकाराः पूर्णाः परमवारिणा ॥७-४२-१०॥
माणिक्यकृतसोपानाः स्फाटिकान्तरकुट्टिमाः । फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ॥७-४२-११॥
दात्यूहशुकसङ्घुष्टा हंससारसनादिताः । तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ॥७-४२-१२॥
प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः । तत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः ॥७-४२-१३॥
शाद्वलैः परमोपेतां पुष्पितद्रुमकाननाम् । तत्र सङ्घर्षजातानां वृक्षाणां पुष्पशालिनाम् ॥७-४२-१४॥
प्रस्तराः पुष्पशबला नभस्तारागणैरिव । नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा । तथाभूतं हि रामस्य काननं सन्निवेशनम् ॥७-४२-१५॥
बह्वासनगृहोपेतां लतागृहसमावृताम् । अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः ॥७-४२-१६॥
आसने च शुभाकारे पुष्पप्रकरभूषिते । कुशास्तरणसंस्तीर्णे रामः सन्निषसाद ह ॥७-४२-१७॥
सीतामादायं हस्तेन मधुमैरेयकं शुचि । पाययामास काकुत्स्थः शचीमिव पुरन्दरः ॥७-४२-१८॥
मांसानि च समृष्टानि फलानि विविधानि च । रामस्याभ्यवहारार्थं किङ्करास्तूर्णमाहरन् ॥७-४२-१९॥
उपानृत्यंश्च राजानं नृत्यगीतविशारदाः । बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः ॥७-४२-२०॥
मनोभिरामा रामास्ता रामो रमयतां वरः । रमयामास धर्मात्मा नित्यं परमभूषितः ॥७-४२-२१॥
स तया सीतया सार्धमासीनो विरराज ह । अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा ॥७-४२-२२॥
एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम् । रमयामास वैदेहीमहन्यहनि देववत् ॥७-४२-२३॥
तथा तयोर्विहरतोः सीताराघवयोश्चिरम् । अत्यक्रामच्छुभः कालः शैशिरो भोगदः सदा ॥७-४२-२४॥
दशवर्षसहस्राणि गतानि सुमहात्मनोः । प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः ॥७-४२-२५॥
पूर्वाह्णे धर्मकार्याणि कृत्वा धर्मेण धर्मवित् । शेषं दिवसभागार्धमन्तःपुरगतोऽभवत् ॥७-४२-२६॥
सीतापि देवकार्याणि कृत्वा पौर्वाह्णिकानि वै । श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः ॥७-४२-२७॥
अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा । त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ॥७-४२-२८॥
दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् । प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥७-४२-२९॥
अब्रवीच्च वरारोहां सीतां सुरसुतोपमाम् । अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः ॥७-४२-३०॥
किमिच्छसि वरारोहे कामः किं क्रियतां तव ॥७-४२-३१॥
स्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत् । तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ॥७-४२-३२॥
गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम् । फलमूलाशिनां देव पादमूलेषु वर्तितुम् ॥७-४२-३३॥
एष मे परमः कामो यन्मूलफलभोजिनाम् । अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने ॥७-४२-३४॥
तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा । विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ॥७-४२-३५॥
एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् । मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः ॥७-४२-३६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे रामसीताविहारः नाम द्विचत्वारिंशः सर्गः ॥७-४२॥