पुष्पकपुनरभ्यनुज्ञा
उत्तरकाण्डः / पुष्पकपुनरभ्यनुज्ञा
Script
Translation
Previous
हनूमत्प्रार्थना
Next
रामसीताविहारः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे पुष्पकपुनरभ्यनुज्ञा नाम एकचत्वारिंशः सर्गः ॥७-४१॥
विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् ।
भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ॥७-४१-१॥
अथापराह्णसमये भ्रातृभिः सह राघवः ।
शुश्राव मधुरां वाणीमन्तरिक्षात् प्रभाषिताम् ॥७-४१-२॥
सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् ।
कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ॥७-४१-३॥
तव शासनमाज्ञाय गतोऽस्मि भवनं प्रति ।
उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ॥७-४१-४॥
निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना ।
निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ॥७-४१-५॥
ममापि परमा प्रीतर्हते तस्मिन्दुरात्मनि ।
रावणे सगणे चैव सपुत्रे सहबान्धवे ॥७-४१-६॥
स त्वं रामेण लङ्कायां निर्जितः परमात्मना ।
वह सौम्य तमेव त्वमहमाज्ञापयामि ते ॥७-४१-७॥
परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् ।
वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ॥७-४१-८॥
सोऽहं शासनमाज्ञाय धनदस्य महात्मनः ।
त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ॥७-४१-९॥
अदृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया ।
चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ॥७-४१-१०॥
एवमुक्तस्तदा रामः पुष्पकेण महाबलः ।
उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ॥७-४१-११॥
यद्येवं स्वागतं तेऽस्तु विमानवर पुष्पक ।
आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत् ॥७-४१-१२॥
लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः ।
पूजयित्वा महाबाहू राघवः पुष्पकं तदा ॥७-४१-१३॥
गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा ।
सिद्धानां च गतौ सौम्य मा विषादेन योजय ।
प्रतिघातश्च ते मा भूद्यथेष्टं गच्छतो दिशः ॥७-४१-१४॥
एवमस्त्विति रामेण पूजयित्वा विसर्जितम् ।
अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ॥७-४१-१५॥
एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि ।
भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ॥७-४१-१६॥
विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति ।
अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ॥७-४१-१७॥
अनामयश्च सत्वानां साग्रो मासो गतो ह्ययम् ।
जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ॥७-४१-१८॥
अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः ।
हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ॥७-४१-१९॥
काले वर्षति पर्जन्यः पातयन्नमृतं पयः ।
वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ॥७-४१-२०॥
ईदृशोऽनश्वरो राजा भवेदिति नरेश्वरः ।
कथयन्ति पुरे राजन्पौरजानपदास्तथा ॥७-४१-२१॥
एता वाचः सुमधुरा भरतेन समीरिताः ।
श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ॥७-४१-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पुष्पकपुनरभ्यनुज्ञा नाम एकचत्वारिंशः सर्गः ॥७-४१॥
Previous
हनूमत्प्रार्थना
Next
रामसीताविहारः