रावणनर्मदावगाहः

उत्तरकाण्डः / रावणनर्मदावगाहः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे रावणनर्मदावगाहः नाम एकत्रिंशः सर्गः ॥७-३१॥
ततो रामो महातेजा विस्मयात्पुनरेव हि । उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ॥७-३१-१॥
भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् । पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम ॥७-३१-२॥
राजा वा राजमात्रो वा किं तदा नात्र कश्चन । धर्षणं यत्र न प्राप्तो रावणो राक्षसेश्वरः ॥७-३१-३॥
उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः । बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः ॥७-३१-४॥
राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः । उवाच रामं प्रहसन्पितामह इवेश्वरम् ॥७-३१-५॥
इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ । चचार रावणो राम पृथिवीं पृथिवीपते ॥७-३१-६॥
ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् । सम्प्राप्तो यत्र सान्निध्यं सदासीद्वसुरेतसः ॥७-३१-७॥
तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः । अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा ॥७-३१-८॥
तमेव दिवसं सोऽथ हैहयाधिपतिर्बली । अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ॥७-३१-९॥
तमेव दिवसं सोऽथ रावणस्तत्र आगतः । रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ॥७-३१-१०॥
क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ । रावणोऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह । ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ॥७-३१-११॥
इत्येवं रावणेनोक्तास्तेऽमात्याः सुविपश्चितः । अब्रुवन्राक्षसपतिमसान्निध्यं महीपतेः ॥७-३१-१२॥
श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् । अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ॥७-३१-१३॥
स तमभ्रमिवाविष्टमुद्भ्रन्तमिव मेदिनीम् । अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ॥७-३१-१४॥
सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् । प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम् ॥७-३१-१५॥
देवदानवगन्धर्वैः साप्सरोगणकिन्नरैः । स्वस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्रयम् ॥७-३१-१६॥
नदीभिः स्यन्दमानाभिः स्फटिकप्रतिमं जलम् । फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ॥७-३१-१७॥
उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् । पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ॥७-३१-१८॥
चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ॥७-३१-१९॥
महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः । उष्णाभितप्तैस्तृषितैः सङ्क्षोभितजलाशयाम् ॥७-३१-२०॥
चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः । सारसैश्च सदा मत्तैः सुकूजद्भिः समावृताम् ॥७-३१-२१॥
फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् । विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ॥७-३१-२२॥
पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् । जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् । पुष्पकादवरुह्याशु नर्मदां सरितां वराम् ॥७-३१-२३॥
इष्टामिव वरां नारीमवगाह्य दशाननः । स तस्याः पुलिने रम्ये नानामुनिनिषेविते ॥७-३१-२४॥
उपोपविष्टैः सचिवैः सार्धं राक्षसपुङ्गवः । प्रख्याय नर्मदां सोऽथ गङ्गेयमिति रावणः ॥७-३१-२५॥
नर्मदादर्शजं हर्षमाप्तवान् राक्षसाधिपः । उवाच सचिवांस्तत्र सलीलं शुकसारणौ ॥७-३१-२६॥
एष रश्मिसहस्रेण जगत्कृत्वैव काञ्चनम् । तीक्ष्णतापकरः सूर्यो नभसोऽर्धं समाश्रितः ॥७-३१-२७॥
मामासीनं विदित्वैव चन्द्रायति दिवाकरः ॥७-३१-२८॥
नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः । मद्भयादनिलोऽप्यत्र वात्येष सुसमाहितः ॥७-३१-२९॥
इयं वापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी । नक्रमीनविहङ्गोर्मिः सभयेवाङ्गना स्थिता ॥७-३१-३०॥
तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि । चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ॥७-३१-३१॥
ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् । महापद्ममुखा मत्ता गङ्गामिव गहागजाः । अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ॥७-३१-३२॥
अहमप्यद्य पुलिने शरदिन्दुसमप्रभे । पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः ॥७-३१-३३॥
रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः । समहोदरधूम्राक्षा नर्मदां विजगाहिरे ॥७-३१-३४॥
राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नर्मदा नदी । वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः ॥७-३१-३५॥
ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः । उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ॥७-३१-३६॥
नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे । राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः ॥७-३१-३७॥
पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः । अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ॥७-३१-३८॥
तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् । नर्मदासलिलात्तस्मादुत्ततार स रावणः ॥७-३१-३९॥
ततः क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् । रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः ॥७-३१-४०॥
तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः । यत्र यत्र च याति स्म रावणो राक्षसेश्वरः । जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ॥७-३१-४१॥
वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः । अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ॥७-३१-४२॥
ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम् । समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चाग्रतः ॥७-३१-४३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे रावणनर्मदावगाहः नाम एकत्रिंशः सर्गः ॥७-३१॥