इन्द्रपराजयकारणकथनम्
उत्तरकाण्डः / इन्द्रपराजयकारणकथनम्
Script
Translation
Previous
वासवग्रहणम्
Next
रावणनर्मदावगाहः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे इन्द्रपराजयकारणकथनम् नाम त्रिंशः सर्गः ॥७-३०॥
जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै ।
प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा ॥७-३०-१॥
तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम् ।
अब्रवीद्गगने तिष्ठन्सामपूर्वं प्रजापतिः ॥७-३०-२॥
वत्स रावण तुष्टोऽस्मि पुत्रस्य तव संयुगे ।
अहोऽस्य विक्रमौदार्यं तव तुल्योऽधिकोऽपि वा ॥७-३०-३॥
जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा ।
कृता प्रतिज्ञा सफला प्रीतोऽस्मि स्वसुतेन वै ॥७-३०-४॥
अयं च पुत्रोऽतिबलस्तव रावण वीर्यवान् ।
जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ॥७-३०-५॥
बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः ।
यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे ॥७-३०-६॥
तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः ।
किञ्चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः ॥७-३०-७॥
अथाब्रवीन्महातेजा इन्द्रजित्समितिञ्जयः ।
अमरत्वमहं देव वृणे यद्येष मुच्यते ॥७-३०-८॥
चतुष्पदां खेचराणामन्येषां वा महौजसाम् ।
वृक्षगुल्मक्षुपलतातृणोपलमहीभृताम् ॥७-३०-९॥
सर्वेऽपि जन्तवोऽन्योन्यं भेतव्ये सति बिभ्यति ।
अतोऽत्र लोके सर्वेषां सर्वस्माच्च भवेद्भयम् ॥७-३०-१०॥
ततोऽब्रवीन्महातेजा मेघनादं प्रजापतिः ।
नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि ।
चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम् ॥७-३०-११॥
श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाव्ययम् ॥७-३०-१२॥
्वं हि कस्यचित्प्राणिनो भुवि ।
अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः ।
श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे ॥७-३०-१३॥
ममेष्टं नित्यशो हर्व्यैर्मन्त्रैः सम्पूज्य पावकम् ।
सङ्ग्राममवतर्त्तुं च शत्रुनिर्जयकाङ्क्षिणः ॥७-३०-१४॥
अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः ।
तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वरः ॥७-३०-१५॥
तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ ।
युध्येयं देव सङ्ग्रामे तदा मे स्याद्विनाशनम् ॥७-३०-१६॥
सर्वो हि तपसा देव वृणोत्यमरतां पुमान् ।
विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ॥७-३०-१७॥
एवमस्त्विति तं चाह वाक्यं देवः पितामहः ।
मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः ॥७-३०-१८॥
एतस्मिन्नन्तरे राम दीनो भ्रष्टाम्बरद्युतिः ।
इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः ॥७-३०-१९॥
तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः ।
शतक्रतो किमु पुरा करोति स्म सुदुष्कृतम् ॥७-३०-२०॥
अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तथा प्रभो ।
एकवर्णाः समाभाषा एकरूपाश्च सर्वशः ॥७-३०-२१॥
तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वा ।
ततोऽहमेकाग्रमनास्ताः प्रजाः परिचिन्तयम् ॥७-३०-२२॥
सोऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे ।
यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ॥७-३०-२३॥
ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता ।
हलं नामेह वैरूपं हल्यं तत्प्रभवं भवेत् ॥७-३०-२४॥
यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता ।
अहल्येति मया शक्र तस्या नाम प्रवर्तितम् ॥७-३०-२५॥
निर्मितायां च देवेन्द्र तस्यां नार्यां सुरर्षभ ।
भविष्यतीति कस्यैषा मम चिन्ता ततोऽभवत् ॥७-३०-२६॥
त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो ।
स्थानाधिकतया पत्नी ममैषेति पुरन्दर ॥७-३०-२७॥
सा मया न्यासभूता तु गौतमस्य महात्मनः ।
न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ॥७-३०-२८॥
ततस्तस्य परिज्ञाय महास्थैर्यं महामुनेः ।
ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा ॥७-३०-२९॥
सङ्क्रुद्धस्त्वं हि धर्मात्मन् गत्वा तस्याश्रमं मुनेः ।
दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ॥७-३०-३०॥
सा त्वया धर्षिता शक्र कामार्तेन समन्युना ।
दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा ॥७-३०-३१॥
ततः क्रुद्धेन तेनाऽसि शप्तः परमतेजसा ।
गतोऽसि येन देवेन्द्र दशाभागविपर्ययम् ॥७-३०-३२॥
यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् ।
तस्मात्त्वं समरे राजञ्छत्रुहस्तं गमिष्यसि ॥७-३०-३३॥
अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः ।
मानुषेष्वपि लोकेषु भविष्यति न संशयः ॥७-३०-३४॥
तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति ।
न च ते स्थावरं स्थानं भविष्यति न संशयः ॥७-३०-३५॥
यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति ।
एष शापो मया मुक्त इत्यसौ त्वां तदाऽब्रवीत् ॥७-३०-३६॥
तां तु भार्यां स निर्भर्त्स्य सोऽब्रवीत्सुमहातपाः ।
दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ॥७-३०-३७॥
रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता ।
तस्माद्रूपवती लोके न त्वमेका भविष्यति ॥७-३०-३८॥
रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः ।
यत्तदेकं समाश्रित्य विभ्रमोऽयमुपस्थितः ॥७-३०-३९॥
तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः ।
सा तं प्रसादयामास महर्षिं गौतमं तदा ॥७-३०-४०॥
अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा ।
न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि ॥७-३०-४१॥
अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः ।
उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः ॥७-३०-४२॥
रामो नाम श्रुतो लोके वनं चाप्युपयास्यति ।
ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः ।
तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि ॥७-३०-४३॥
स हि पावयितुं शक्तस्त्वया यद्दुष्कृतं कृतम् ।
तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि ॥७-३०-४४॥
वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनि ।
एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम् ॥७-३०-४५॥
तपश्चाचार सुमहत्सा पत्नी ब्रह्मवादिनः ।
शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् ॥७-३०-४६॥
तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् ।
तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव ॥७-३०-४७॥
शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः ।
पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः ॥७-३०-४८॥
पुत्रश्च तव देवेन्द्र न विनष्टो महारणे ।
नीतः सन्निहितश्चैव आर्यकेण महोदधौ ॥७-३०-४९॥
एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् ।
पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट् ॥७-३०-५०॥
एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया ।
निर्जितस्तेन देवेन्द्रः प्राणिनोऽन्ये तु किं पुनः ॥७-३०-५१॥
आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा ।
अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा ॥७-३०-५२॥
विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् ।
आश्चर्यं स्मारितोऽस्म्यद्य यत्तद्दृष्टं पुरातनम् ॥७-३०-५३॥
अगस्त्यं त्वब्रवीद्रामः सत्यमेतच्छ्रुतं च मे ॥७-३०-५४॥
एवं राम समुद्भूतो रावणो लोककण्टकः ।
सपुत्रो येन सङ्ग्रामे जितः शक्रः सुरेश्वरः ॥७-३०-५५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे इन्द्रपराजयकारणकथनम् नाम त्रिंशः सर्गः ॥७-३०॥
Previous
वासवग्रहणम्
Next
रावणनर्मदावगाहः