रावणग्रहणम्
उत्तरकाण्डः / रावणग्रहणम्
Script
Translation
Previous
रावणनर्मदावगाहः
Next
रावणविमोक्षः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे रावणग्रहणम् नाम द्वात्रिंशः सर्गः ॥७-३२॥
नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः ।
पुष्पोपहारं कुरुते तस्माद्देशाददूरतः ॥७-३२-१॥
अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः ।
क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ॥७-३२-२॥
तासां मध्यगतो राजा रराज च तदार्जुनः ।
करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ॥७-३२-३॥
जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् ।
रुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः ॥७-३२-४॥
कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् ।
कूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति ॥७-३२-५॥
समीननक्रमकरः सपुष्पकुशसंस्तरः ।
स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ॥७-३२-६॥
स वेगः कार्तवीर्येण सम्प्रेषित इवाम्भसः ।
पुष्पोपहारं सकलं रावणस्य जहार ह ॥७-३२-७॥
रावणोऽर्धसमाप्तं तमुत्सृज्य नियमं तदा ।
नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ॥७-३२-८॥
पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् ।
वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ॥७-३२-९॥
ततोऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम् ।
निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् ॥७-३२-१०॥
सव्येतरकराङ्गुल्या सशब्दं च दशाननः ।
वेगप्रभावमन्वेष्टुं सोऽदिशच्छुकसारणौ ॥७-३२-११॥
तौ तु रावणसन्दिष्टौ भ्रातरौ शुकसारणौ ।
व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ ॥७-३२-१२॥
अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ ।
पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ॥७-३२-१३॥
बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम् ।
मदरक्तान्तनयनं मदव्याकुलतेजसम् ॥७-३२-१४॥
नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् ।
गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ॥७-३२-१५॥
बालानां वरनारीणां सहस्रेण समावृतम् ।
समदानां करेणूनां सहस्रेणेव कुञ्जरम् ॥७-३२-१६॥
तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ ।
सन्निवृत्तावुपागम्य रावणं तमथोचतुः ॥७-३२-१७॥
बृहत्सालप्रतीकाशः कोऽप्यसौ राक्षसेश्वर ।
नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः ॥७-३२-१८॥
तेन बाहुसहस्रेण सन्निरुद्धजला नदी ।
सागरोद्गारसङ्काशानुद्गारान्सृजते मुहुः ॥७-३२-१९॥
इत्येवं भाषमाणौ तौ निशाम्य शुकसारणौ ।
रावणोऽर्जुन इत्युक्त्वा प्रययौ युद्धलालसः ॥७-३२-२०॥
अर्जुनाभिमुखे तस्मिन्रावणे राक्षसाधिपे ।
चण्डः प्रवाति पवनः सनादः सुरजास्तथा ॥७-३२-२१॥
सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः ।
महोदरमहापार्श्वधूम्राक्षशुकसारणैः ॥७-३२-२२॥
संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र चार्जुनः ।
अदीर्घेणैव कालेन स तदा राक्षसो बली ।
तं नर्मदाह्रदं भीममाजगामाञ्जनप्रभः ॥७-३२-२३॥
स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् ।
नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् ॥७-३२-२४॥
स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ॥७-३२-२५॥
इत्येवमर्जुनामात्यनाह गम्भीरया गिरा ।
अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै ॥७-३२-२६॥
युद्धार्थी समनुप्राप्तो रावणो नाम राक्षसः ।
रावणस्य वचः श्रुत्वा मन्त्रिणोऽथार्जुनस्य ते ।
उत्तस्थुः सायुधास्त्राश्च रावणं वाक्यमब्रुवन् ॥७-३२-२७॥
युद्धस्य कालो विज्ञेयः साधु भोः साधु रावण ॥७-३२-२८॥
चः श्रुत्वा मन्त्रिणोऽथार्जुनस्य ते ।
यः क्षीबं स्त्रीवृतं चैव योद्धुमुत्सहते नृपम् ।
स्त्रीसमक्षं कथं यत्तद्योद्धुमुत्सहसेऽर्जुनम् ।
वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् ॥७-३२-२९॥
क्षमस्वाद्य दशग्रीव चोष्यतां रजनी त्वया ।
युद्धे श्रद्धा च यद्यस्ति श्वस्तात समरेऽर्जुनम् ॥७-३२-३०॥
यद्यद्यास्ति मतिर्योद्धुं युद्धतृष्णासमावृता ।
निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि ॥७-३२-३१॥
ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु ।
सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः ॥७-३२-३२॥
ततो हलहलाशब्दो नर्मदातीर आबभौ ।
अर्जुनस्यानुयातऽणां रावणस्य च मन्त्रिणाम् ॥७-३२-३३॥
इषुभिस्तोमरैः शूलैस्त्रिशूलैर्वज्रकर्षणैः ।
सरावणानर्दयन्तः समन्तात्समभिद्रुताः ॥७-३२-३४॥
हैहयाधिपयोधानां वेग आसीत्सुदारुणः ।
सनक्रमीनमकरसमुद्रस्येव निःस्वनः ॥७-३२-३५॥
रावणस्य तु तेऽमात्याः प्रहस्तशुकसारणाः ।
कार्तवीर्यबलं क्रुद्धा निर्दहन्ति स्म तेजसा ॥७-३२-३६॥
अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः ।
क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ॥७-३२-३७॥
श्रुत्वा न भेतव्यमिति स्त्रीजनं तं ततोऽर्जुनः ।
उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः ॥७-३२-३८॥
क्रोधदूषितनेत्रस्तु स ततोऽर्जुनपावकः ।
प्रजज्वाल महाघोरो युगान्त इव पावकः ॥७-३२-३९॥
स तूर्णतरमादाय वरहेमाङ्गदो गदाम् ।
अभिदुद्राव रक्षांसि तमांसीव दिवाकरः ॥७-३२-४०॥
बाहुविक्षेपकरणां समुद्यम्य महागदाम् ।
गारुडं वेगमास्थाय चापपातैव सोऽर्जुनः ॥७-३२-४१॥
तस्य मार्गं समारुद्ध्य विन्ध्योऽर्कस्येव पर्वतः ।
स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ॥७-३२-४२॥
ततोऽस्य मुसलं घोरं लोहबद्धं महोद्धतः ।
प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः ॥७-३२-४३॥
तस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः ।
प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ॥७-३२-४४॥
अथायान्तं तु मुसलं कार्तवीर्यस्तदार्जुनः ।
निपुणं वञ्चयामास सगदोऽगदविक्रमः ॥७-३२-४५॥
ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः ।
भ्रामयानो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् ॥७-३२-४६॥
तथा हतोऽतिवेगेन प्रहस्तो गदया तदा ।
निपपात स्थितः शैलो वज्रिवज्रहतो यथा ॥७-३२-४७॥
प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः ।
समहोदरधूम्राक्षा ह्यपसृष्टा रणाजिरात् ॥७-३२-४८॥
अपक्रान्तेष्वमात्येषु प्रहस्ते वै निपातिते ।
रावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ॥७-३२-४९॥
सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् ।
नृपराक्षसयोस्तत्र चारब्धं रोमहर्षणम् ॥७-३२-५०॥
सागराविव संरब्धौ चलन्मूलाविवाचलौ ।
तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ॥७-३२-५१॥
बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ ।
मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ॥७-३२-५२॥
रुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ ।
परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ॥७-३२-५३॥
वज्रप्रहारानचला यथा घोरान्विषेहिरे ।
गदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ ॥७-३२-५४॥
यथाऽ शनिरवेभ्यस्तु जायतेऽथ प्रतिश्रुतिः ।
तथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः ॥७-३२-५५॥
अर्जुनस्य गदा सा तु पात्यमानाऽहितोरसि ।
काञ्चनाभं नभश्चक्रे विद्युत्सौदामिनी यथा ॥७-३२-५६॥
तथैव रावणेनापि पात्यमाना मुहुर्मुहुः ।
अर्जुनोरसि निर्भाति गदोल्केव महागिरौ ॥७-३२-५७॥
नार्जुनः खेदमायाति न राक्षसगणेश्वरः ।
इदमासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ॥७-३२-५८॥
शृङ्गैरिव वृषायुध्यन्दन्ताग्रैरिव कुञ्जरौ ।
परस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ ॥७-३२-५९॥
ततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा ।
स्तनयोरन्तरे मुक्ता रावणस्य महोरसि ॥७-३२-६०॥
वरदानकृतत्राणे सा गदा रावणोरसि ।
दुर्बलेव यथावेगं द्विधाभूत्वाऽपतत्क्षितौ ॥७-३२-६१॥
स त्वर्जुनप्रमुक्तेन गदापातेन रावणः ।
अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् ॥७-३२-६२॥
स विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनः ।
सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् ॥७-३२-६३॥
स तु बाहुसहस्रेण बलाद्गृह्य दशाननम् ।
बबन्ध बलवान्राजा बलिं नारायणो यथा ॥७-३२-६४॥
बध्यमाने दशग्रीवे सिद्धचारणदेवताः ।
साध्वीतिवादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ॥७-३२-६५॥
व्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम् ।
ननाद हैहयो राजा हर्षादम्बुदवन्मुहुः ॥७-३२-६६॥
प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् ।
सह तै राक्षसैः क्रुद्धश्चाभिदुद्राव पार्थिवम् ॥७-३२-६७॥
नक्तञ्चराणां वेगस्तु तेषामापततां बभौ ।
उद्भूत आतपापाये पयोदानामिवाम्बुधौ ॥७-३२-६८॥
मुञ्च मुञ्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत् ।
मुसलानि सशूलानि सोत्ससर्ज तदार्जुने ॥७-३२-६९॥
अप्राप्तान्येव तान्याशु असम्भ्रान्तस्तदार्जुनः ।
आयुधान्यमरारीणां जग्राहारिनिषूदनः ॥७-३२-७०॥
ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः ।
भित्त्वा विद्रावयामास वायुरम्बुधरानिव ॥७-३२-७१॥
राक्षसांस्त्रासयित्वा तु कार्तवीर्योऽर्जुनस्तदा ।
रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ॥७-३२-७२॥
स कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसन्निभः ।
तदाऽर्जुनः सम्प्रविवेश तां पुरीं बलिं निगृह्येव सहस्रलोचनः ॥७-३२-७३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे रावणग्रहणम् नाम द्वात्रिंशः सर्गः ॥७-३२॥
Previous
रावणनर्मदावगाहः
Next
रावणविमोक्षः