वासवग्रहणम्
उत्तरकाण्डः / वासवग्रहणम्
Script
Translation
Previous
जयन्तापवाहनम्
Next
इन्द्रपराजयकारणकथनम्
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे वासवग्रहणम् नाम एकोनत्रिंशः सर्गः ॥७-२९॥
ततस्तमसि सञ्जाते सर्वे ते देवराक्षसाः ।
अयुद्ध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ॥७-२९-१॥
ततस्तु देवसैन्येन राक्षसानां बृहद्बलम् ।
दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥७-२९-२॥
तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः ।
अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ॥७-२९-३॥
इन्द्रश्च रावणश्चैव रावणिश्च महाबलः ।
तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ॥७-२९-४॥
स तु दृष्ट्वा बलं सर्वं रावणो निहतं क्षणात् ।
क्रोधमभ्यगमत्तीव्रं महानादं च मुक्तवान् ॥७-२९-५॥
क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह ।
परसैन्यस्य मध्येन यावदन्तो नयस्व माम् ॥७-२९-६॥
अद्यैतान् त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् ।
नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ॥७-२९-७॥
अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् ।
त्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि ।
विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ॥७-२९-८॥
द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ॥७-२९-९॥
अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् ।
नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ॥७-२९-१०॥
तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान् ।
आदिदेशाथ शत्रणां मध्येनैव च सारथिः ॥७-२९-११॥
तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा ।
रथस्थः समरस्थस्तान्देवान्वाक्यमथाब्रवीत् ॥७-२९-१२॥
सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते ।
जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ॥७-२९-१३॥
एष ह्यतिबलः सैन्यै रथेन पवनौजसा ।
गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ॥७-२९-१४॥
नह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः ।
तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ॥७-२९-१५॥
यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया ।
एवमेतस्य पापस्य निरोधो मम रोचते ॥७-२९-१६॥
ततोऽन्यं देशमास्थाय शक्रः सन्त्यज्य रावणम् ।
अयुध्यत महाराज राक्षसांस्त्रासयन्रणे ॥७-२९-१७॥
उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः ।
दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ॥७-२९-१८॥
ततः स योजनशतं प्रविष्टो राक्षसाधिपः ।
देवतानां बलं सर्वं शरवर्षैरवाकिरत् ॥७-२९-१९॥
ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् ।
न्यवर्तयदसम्भ्रान्तः समावृत्य दशाननम् ॥७-२९-२०॥
एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः ।
हा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ॥७-२९-२१॥
ततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः ।
तत्सैन्यमतिसङ्क्रुद्धः प्रविवेश सुदारुणम् ॥७-२९-२२॥
तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा ।
प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ॥७-२९-२३॥
स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत ।
महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ॥७-२९-२४॥
विमुक्तकवचस्तत्र वध्यमानोऽपि रावणिः ।
त्रिदशैः सुमहावीर्यैर्न चकार च किञ्चन ॥७-२९-२५॥
स मातलिं समायान्तं ताडयित्वा शरोत्तमैः ।
महेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ॥७-२९-२६॥
ततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम् ।
ऐरावतं समारुह्य मृगयामास रावणिम् ॥७-२९-२७॥
स तत्र मायाबलवानदृश्योऽथान्तरिक्षगः ।
इन्द्रं मायापरिक्षिप्तं कृत्वा स प्राद्रवच्छरैः ॥७-२९-२८॥
स तं यदा परिश्रान्तमिन्द्रं जज्ञेऽथ रावणिः ।
तदैनं मायया बद्ध्वा स्वसैन्यमभितोऽनयत् ॥७-२९-२९॥
तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात् ।
महेन्द्रममराः सर्वे किं नु स्यादित्यचिन्तयन् ॥७-२९-३०॥
दृश्यते न स मायावी शक्रजित्समितिञ्जयः ।
विद्यावानपि येनेन्द्रो मायया नीयते बलात् ॥७-२९-३१॥
एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा ।
रावणं विमुखीकृत्य शरवर्षैरवाकिरन् ॥७-२९-३२॥
रावणस्तु समासाद्य आदित्यांश्च वसूंस्तदा ।
न शशाक स सङ्ग्रामे योद्धुं शत्रुभिरर्दितः ॥७-२९-३३॥
स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् ।
रावणिः पितरं युद्धे दर्शनस्थोऽब्रवीदिदम् ॥७-२९-३४॥
आगच्छ तात गच्छामो रणकर्म निवर्तताम् ।
जितं नो विदितं तेऽस्तु स्वस्थो भव गतज्वरः ॥७-२९-३५॥
अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः ।
स गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ॥७-२९-३६॥
यथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा ।
वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ॥७-२९-३७॥
ततस्ते दैवतगणा निवृत्ता रणकर्मणः ।
तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेताः बभूव ह ॥७-२९-३८॥
अथ स रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः ।
स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ॥७-२९-३९॥
अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् ।
यदयमतुल्यबलस्त्वयाद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ॥७-२९-४०॥
नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् ।
अहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ॥७-२९-४१॥
अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः ।
स्वभवनमभिगम्य वीर्यवान्कृतसमरान्विससर्ज राक्षसान् ॥७-२९-४२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे वासवग्रहणम् नाम एकोनत्रिंशः सर्गः ॥७-२९॥
Previous
जयन्तापवाहनम्
Next
इन्द्रपराजयकारणकथनम्