जयन्तापवाहनम्
उत्तरकाण्डः / जयन्तापवाहनम्
Script
Translation
Previous
सुमालिवधः
Next
वासवग्रहणम्
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे जयन्तापवाहनम् नाम अष्टाविंशः सर्गः ॥७-२८॥
सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् ।
स्वसैन्यं विद्रुतं चापि लक्षयित्वाऽर्दितं सुरैः ॥७-२८-१॥
ततः स बलवान्क्रुद्धो रावणस्य सुतस्तदा ।
निवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ॥७-२८-२॥
सुरथेनाग्निवर्णेन कामगेन महारथः ।
अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥७-२८-३॥
ततः प्रविशतस्तस्य विविधायुधधारिणः ।
विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ॥७-२८-४॥
न बभूव तदा कश्चिद्युयुत्सोरस्य सम्मुखे ।
सर्वानाविद्ध्य वित्रस्तांस्ततः शक्रोऽब्रवीत्सुरान् ॥७-२८-५॥
न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः ।
एष गच्छति पुत्रो मे युद्धार्थमपराजितः ॥७-२८-६॥
ततः शक्रसुतो देवो जयन्त इति विश्रुतः ।
रथेनाद्भुतकल्पेन सङ्ग्रामे सोऽभ्यवर्तत ॥७-२८-७॥
ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् ।
रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ॥७-२८-८॥
तेषां युद्धं समभवत्सदृशं देवरक्षसाम् ।
महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥७-२८-९॥
ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः ।
सारथौ पातयामास शरान्कनकभूषणान् ॥७-२८-१०॥
शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् ।
तं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यत ॥७-२८-११॥
स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः ।
रावणिः शक्रतनयं शरवर्षैरवाकिरत् ॥७-२८-१२॥
ततो नानाप्रहरणाञ्छितधारान्सहस्रशः ।
पातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः ॥७-२८-१३॥
शतघ्नीमुसलप्रासगदाखड्गपरश्वधान् ।
महान्ति गिरिशृङ्गाणि पातयामास रावणिः ॥७-२८-१४॥
ततः प्रव्यथिता लोकाः सञ्जज्ञे च तमोऽभवत् ।
तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ॥७-२८-१५॥
ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् ।
बहुप्रकारमस्वस्थमभवच्छरपीडितम् ॥७-२८-१६॥
नाभ्यजानन्त चान्योन्यं रक्षो वा देवताऽथवा ।
तत्र तत्र विपर्यस्तं समन्तात्परिधावति ॥७-२८-१७॥
देवा देवान्निजघ्नुस्ते राक्षसान्राक्षसास्तथा ।
सम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा ॥७-२८-१८॥
एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् ।
दैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रोऽपवाहितः ॥७-२८-१९॥
सङ्गृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा ।
आर्यकः स हि तस्यासीत्पुलोमा येन सा शची ॥७-२८-२०॥
ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः ।
अप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः ॥७-२८-२१॥
रावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः ।
अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ॥७-२८-२२॥
दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् ।
मातलिं चाह देवेशो रथः समुपनीयताम् ॥७-२८-२३॥
स तु दिव्यो महाभीमः सज्ज एव महारथः ।
उपस्थितो मातलिना वाह्यमानो महाजवः ॥७-२८-२४॥
ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः ।
अग्रतो वायुचपला नेदुः परमनिःस्वनाः ॥७-२८-२५॥
नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः ।
ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ॥७-२८-२६॥
रुद्रैर्वसुभिरादित्यैस्साध्यैश्च समरुद्गणैः ।
वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ॥७-२८-२७॥
निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ ।
भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ॥७-२८-२८॥
एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् ।
आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ॥७-२८-२९॥
पन्नगैः सुमहाकार्यैर्वेष्टितं रोमहर्षणैः ।
तेषां निःश्वासवातेन प्रदीप्तमिव संयुगे ॥७-२८-३०॥
दैत्यैर्निशाचरैश्चैव स रथः परिवारितः ।
समराभिमुखो दैत्यो महेन्द्रं सोऽभ्यवर्तत ॥७-२८-३१॥
पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः ।
सोऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ॥७-२८-३२॥
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह ।
शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ॥७-२८-३३॥
कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः ।
नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ॥७-२८-३४॥
दन्तैः भुजाभ्यां पद्मां च शक्तितोमरसायकैः ।
येन केनैव संरब्धस्ताडयामास वै सुरान् ततो रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः ।
प्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम् ॥७-२८-३५॥
बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् ।
विद्युत्स्तनितनिर्घोषो धारवानिव तोयदः ॥७-२८-३६॥
ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः ।
रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ॥७-२८-३७॥
केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले ।
वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ॥७-२८-३८॥
रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगान् रणे ।
शिंशुमारान्वराहांश्च पिशाचवदनान्तथा ॥७-२८-३९॥
तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रुताः ।
देवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः ॥७-२८-४०॥
चित्रकर्म इवाभाति स तेषां रणसम्प्लवः ।
निहतानां प्रमत्तानां राक्षसानां महीतले ॥७-२८-४१॥
शोणितोदकनिष्पन्दकङ्कगृध्रसमाकुला ।
प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥७-२८-४२॥
एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् ।
निरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम् ॥७-२८-४३॥
स तं प्रति विगाह्याशु प्रवृद्धं सैन्यसागरम् ।
त्रिदशान्समरे निघ्नञ्छक्रमेवाभ्यवर्तत ॥७-२८-४४॥
आगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम् ।
यस्य विस्फारघोषेण स्तनन्ति स्म दिशो दश ॥७-२८-४५॥
तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि ।
निपातयामास शरान्पावकादित्यवर्चसः ॥७-२८-४६॥
तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः ।
शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥७-२८-४७॥
प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः ।
न ज्ञायते तदा किञ्चित्सर्वं हि तमसा वृतम् ॥७-२८-४८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे जयन्तापवाहनम् नाम अष्टाविंशः सर्गः ॥७-२८॥
Previous
सुमालिवधः
Next
वासवग्रहणम्