रावणसंधुक्षणम्

उत्तरकाण्डः / रावणसंधुक्षणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे रावणसंधुक्षणम् नाम विंशः सर्गः ॥७-२०॥
ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः । आससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ॥७-२०-१॥
तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः । अब्रवीत्कुशलं पृष्ट्वा हेतुमागमनस्य च ॥७-२०-२॥
नारदस्तु महातेजा देवर्षिरमितप्रभः । अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ॥७-२०-३॥
राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत । प्रीतोऽस्म्यभिजनोपेतविक्रमैरूर्जितैस्तव ॥७-२०-४॥
विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः । त्वया समं विमर्दैश्च भृशं हि परितोषितः ॥७-२०-५॥
किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि । श्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम । तन्मे निगदतस्तात समाधिं श्रवणे कुरु ॥७-२०-६॥
किमयं वध्यते तात त्वयाऽवध्येन दैवतैः । हत एव ह्ययं लोको यदा मृत्युवशं गतः ॥७-२०-७॥
्तम । देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् । अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ॥७-२०-८॥
नित्यं श्रेयसि सम्मूढं महद्भिर्व्यसनैर्वृतम् । हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ॥७-२०-९॥
तैस्तैरनिष्टोपगमैरजस्रं यत्र कुत्र कः । मतिमान्मानुषे लोके युद्धेन प्रणयी भवेत् ॥७-२०-१०॥
क्षीयमाणं दैवहतं श्रुत्पिपासाजरादिभिः । विषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ॥७-२०-११॥
पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् । मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ॥७-२०-१२॥
क्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः । रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ॥७-२०-१३॥
मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः । मोहितोऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ॥७-२०-१४॥
अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् । जित एव त्वया सौम्य मर्त्यलोको न संशयः ॥७-२०-१५॥
अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम् । तन्निगृह्णीष्व पौलस्त्य यमं परपुरञ्जय ॥७-२०-१६॥
तस्मिञ्जिते जितं सर्वं भवत्येव न संशयः । एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा । अब्रवीन्नारदं तत्र सम्प्रहस्याभिवाद्य च ॥७-२०-१७॥
महर्षे देवगन्धर्वविहार समरप्रिय । अहं समुद्यतो गन्तुं विजयार्थं रसातलम् ॥७-२०-१८॥
ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे । समुद्रममृतार्थं च मथिष्यामि रसालयम् ॥७-२०-१९॥
अथाब्रवीदृशग्रीवं नारदो भगवानृषिः । क्व खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ॥७-२०-२०॥
अयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति । मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ॥७-२०-२१॥
स तु शारदमेघाभं हासं मुक्त्वा दशाननः । उवाच कृतमित्येव वचनं चेदमब्रवीत् ॥७-२०-२२॥
तस्मादेवमहं ब्रह्मन् वैवस्वतवधोद्यतः । गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ॥७-२०-२३॥
मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना । अवजेष्यामि चतुरो लोकपालानिति प्रभो ॥७-२०-२४॥
तदिह प्रस्थितोऽहं वै प्रेतराजपुरं प्रति । प्राणिसङ्क्लेशकर्तारं योजयिष्यामि मृत्युना ॥७-२०-२५॥
एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च । प्रययौ दक्षिणामाशां प्रविष्टः सह मन्त्रिभिः ॥७-२०-२६॥
नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः । चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ॥७-२०-२७॥
येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः । क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ॥७-२०-२८॥
स्वदत्तकृतसाक्षी यो द्वितीय इव पावकः । लब्धसञ्ज्ञा विजेष्यन्ते लोका यस्य महात्मनः ॥७-२०-२९॥
यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः । तं कथं राक्षसेन्द्रोऽसौ स्वयमेव गमिष्यति ॥७-२०-३०॥
यो विधाता च धाता च सुकृतं दुष्कृतं तथा । त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ॥७-२०-३१॥
अपरं किन्तु कृत्वायं विधानं संविधास्यति । कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ॥७-२०-३२॥
विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ॥७-२०-३३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे रावणसंधुक्षणम् नाम विंशः सर्गः ॥७-२०॥