अनरण्यशापः

उत्तरकाण्डः / अनरण्यशापः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे अनरण्यशापः नाम एकोनविंशः सर्गः ॥७-१९॥
अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः । नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ॥७-१९-१॥
समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् । अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ॥७-१९-२॥
निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः । अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ॥७-१९-३॥
ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः । मन्त्रयित्वा ततोऽन्योन्यं राजानः सुमहाबलाः । निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ॥७-१९-४॥
दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः । एते सर्वेऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ॥७-१९-५॥
अथायोध्यां समासाद्य रावणो राक्षसाधिपः ॥७-१९-६॥
सुगुप्तामनरण्येन शक्रेणेवामरावतीम् । स तं पुरुषशार्दूलं पुरन्दरसमं बले ॥७-१९-७॥
प्राह राजानमासाद्य युद्धं देहीति रावणः । निर्जितोऽस्मीति वा ब्रूहि त्वमेवं मम शासनम् ॥७-१९-८॥
अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः । अनरण्यस्तु सङ्क्रुद्धो राक्षसेन्द्रमथाब्रवीत् ॥७-१९-९॥
दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया । सन्तिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् ॥७-१९-१०॥
अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम् । निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ॥७-१९-११॥
नागानां दशसाहस्रं वाजिनां नियुतं तथा । रथानां बहुसाहस्रं पत्तीनां च नरोत्तम ॥७-१९-१२॥
महीं सञ्छाद्य निष्क्रान्तं सपदातिरथं रणे । ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद ॥७-१९-१३॥
अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् । तद्रावणबलं प्राप्य बलं तस्य महीपतेः ॥७-१९-१४॥
प्राणश्यत तदा सर्वं हव्यं हुतमिवानले । युद्ध्वा च सुचिरं कालं कृत्वा विक्रममुत्तमम् ॥७-१९-१५॥
प्रज्वलन्तं तमासाद्य क्षिप्रमेवावशेषितम् । प्राविशत्सङ्कुलं तत्र शलभा इव पावकम् । नश्यति स्म बलं तत्र हव्यं हुतमिवानले ॥७-१९-१६॥
सोऽपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम् । महार्णवं समासाद्य वनापगशतं यथा ॥७-१९-१७॥
ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् । आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः ॥७-१९-१८॥
अनरण्येन तेऽमात्या मारीचशुकसारणाः । प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव ॥७-१९-१९॥
ततो बाणशतान्यष्टौ पातयामास मूर्धनि । तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ॥७-१९-२०॥
तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित् । वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि ॥७-१९-२१॥
ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा । तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह ॥७-१९-२२॥
स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः । वज्रदग्ध इवारण्ये सालो निपतितो यथा ॥७-१९-२३॥
तं प्रहस्याब्रवीद्द्रक्ष इक्ष्वाकुं पृथिवीपतिम् । किमिदानीं फलं प्राप्तं त्वया मां प्रति युद्ध्यता ॥७-१९-२४॥
त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप । शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम ॥७-१९-२५॥
तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् । किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः ॥७-१९-२६॥
नह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना । कालेनैव विपन्नोऽहं हेतुभूतस्तु मे भवान् ॥७-१९-२७॥
किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये । नह्यहं विमुखी रक्षो युध्यमानस्त्वया हतः ॥७-१९-२८॥
इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस । यदि दत्तं यदि हुतं यदि मे सुकृतं तपः यदि गुप्ताः प्रजाः सम्यक्तदा सत्यं वचोऽस्तु मे ॥७-१९-२९॥
उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् । रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति ॥७-१९-३०॥
ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः । तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता ॥७-१९-३१॥
ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् । स्वर्गते च नृपे तस्मिन्राक्षसः सोऽपसर्पत ॥७-१९-३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अनरण्यशापः नाम एकोनविंशः सर्गः ॥७-१९॥