यमरावणयुद्धम्
उत्तरकाण्डः / यमरावणयुद्धम्
Script
Translation
Previous
रावणसंधुक्षणम्
Next
यमजयः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे यमरावणयुद्धम् नाम एकविंशः सर्गः ॥७-२१॥
एवं सञ्चिन्त्य विप्रेन्दो जगाम लघुविक्रमः ।
आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ॥७-२१-१॥
अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् ।
विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ॥७-२१-२॥
स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् ।
अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ॥७-२१-३॥
कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो न नश्यति ।
किमागमनकृत्यं ते देवगन्धर्वसेवित ॥७-२१-४॥
अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः ।
श्रूयतामभिधास्यामि विधानं च विधीयताम् ॥७-२१-५॥
एष नाम्नो दशग्रीवः पितृराज निशाचरः ।
उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ॥७-२१-६॥
एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो ।
दण्डप्रहरणस्याद्य तव किं नु भविष्यति ॥७-२१-७॥
एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम् ।
ददृशुर्दीप्तमायान्तं विमानं तस्य रक्षसः ॥७-२१-८॥
तं देशं प्रभया तस्य पुष्पकस्य महाबलः ।
कृत्वा वितिमिरं सर्वं समीपं सोऽभ्यवर्तत ॥७-२१-९॥
सोऽपश्यत्स महाबाहुर्दशग्रीवस्ततस्ततः ।
प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ॥७-२१-१०॥
अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह ।
यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः ॥७-२१-११॥
ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः ।
क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ॥७-२१-१२॥
कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ॥७-२१-१३॥
क्षोत्रायासकरा वाचो वदतश्च भयावहाः ।
सन्तार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् ॥७-२१-१४॥
वालुकासु च तप्तासु तप्यमानान्मुहूर्मुहुः ।
असिपत्रवने चैव भिद्यमानानधार्मिकान् ॥७-२१-१५॥
रौरवे क्षारनद्यां च क्षुरधारासु चैव हि ।
पानीयं याचमानांश्च तृषितान्क्षुधितानपि ॥७-२१-१६॥
शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् ।
मलपङ्कधरान्दीनान्रूक्षांश्च परिधावतः ॥७-२१-१७॥
ददर्श रावणो मार्गे शतशोऽथ सहस्रशः ।
कांश्चिच्च गृहमुख्येषु गीतवादित्रनिःस्वनैः ।
प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः ॥७-२१-१८॥
गौरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः ।
गृहांश्च गृहदातारः स्वकर्मफलमश्नतः ॥७-२१-१९॥
सुवर्णमणिमुक्ताभिः प्रमदाभिरलङ्कृतान् ॥७-२१-२०॥
धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा ।
ददर्श सुमहाबाहू रावणो राक्षसाधिपः ॥७-२१-२१॥
ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः ।
रावणो मोचयामास विक्रमेण बलाद्बली ॥७-२१-२२॥
प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा ।
सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम् ॥७-२१-२३॥
प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा ।
प्रेतगोपाः सुसङ्क्रुद्धा राक्षसेन्द्रमभिद्रवन् ॥७-२१-२४॥
ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः ।
धर्मराजस्य योधानां शूराणां सम्प्रधावताम् ॥७-२१-२५॥
ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः ।
पुष्पकं समवर्षन्त शूराः शतसहस्रशः ॥७-२१-२६॥
तस्यासनानि प्रासादान्वेदिकास्तोरणानि च ।
पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ॥७-२१-२७॥
देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे ।
भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ॥७-२१-२८॥
असङ्ख्या सुमहत्यासीत्तस्य सेना महात्मनः ।
शूराणामग्रयातऽणां सहस्राणि शतानि च ॥७-२१-२९॥
ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा ।
ततस्ते सचिवास्तस्य यथाकामं यथाबलम् ।
अयुध्यन्त महावीराः स च राजा दशाननः ॥७-२१-३०॥
ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः ।
अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ॥७-२१-३१॥
अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम् ।
यमस्य च महाबाहो रावणस्य च मन्त्रिणः ॥७-२१-३२॥
अमात्यांस्तांस्तु सन्त्यज्य यमयोधा महाबलाः ।
तमेव चाभ्यधावन्त शूलवर्षैर्दशाननम् ॥७-२१-३३॥
ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः ।
फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः ॥७-२१-३४॥
स तु शूलगदापासाञ्छक्तितोमरसायकान् ।
मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली ॥७-२१-३५॥
तरूणां च शिलानां च शस्त्राणां चातिदारुणम् ।
यमसैन्येषु तद्वर्षं पपात धरणीतले ॥७-२१-३६॥
तांस्तु सर्वान्विनिर्भिद्य तदस्त्रमपहत्य च ।
जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः ॥७-२१-३७॥
परिवार्य च तं सर्वे शैलं मोघोत्करा इव ।
भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन् ॥७-२१-३८॥
विमुक्तकवचः क्रुद्धः सिक्तः शोणितविस्रवैः ।
ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ॥७-२१-३९॥
ततः स कार्मुकी वाणी समरे चाभिवर्तत ।
लब्धसञ्ज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः ॥७-२१-४०॥
ततः पाशुपतं दिव्यमस्त्रं सन्धाय कार्मुके ।
तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष स ॥७-२१-४१॥
आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे ।
मुमोच तं शरं क्रुद्धस्त्रिपुरे शङ्करो यथा ॥७-२१-४२॥
तस्य रूपं शरस्यासीत्विधूमज्वालमण्डलम् ।
वनं दहिष्यतो घर्मे दावाग्नेरिव मूर्च्छतः ॥७-२१-४३॥
ज्वालामाली स तु शरः क्रव्यादानुगतो रणे ।
मुक्तो गुल्मान्द्रुमांश्चापि भस्म कृत्वा प्रधावति ॥७-२१-४४॥
ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु ।
रणे तस्मिन्निपतिता दावदग्धा नगा इव ॥७-२१-४५॥
ततस्तु सिचवैः सार्धं राक्षसो भीमविक्रमः ।
ननाद सुमहानादं कम्पयन्निव मेदिनीम् ॥७-२१-४६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे यमरावणयुद्धम् नाम एकविंशः सर्गः ॥७-२१॥
Previous
रावणसंधुक्षणम्
Next
यमजयः