यक्षरक्षोयुद्धम्
उत्तरकाण्डः / यक्षरक्षोयुद्धम्
Script
Translation
Previous
धनददूतहननम्
Next
पुष्पकहरणम्
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे यक्षरक्षोयुद्धम् नाम चतुर्दशः सर्गः ॥७-१४॥
ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः ।
महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ॥७-१४-१॥
धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना ।
वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव ॥७-१४-२॥
पुराणि स नदीः शैलान्वनान्युपवनानि च ।
अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ॥७-१४-३॥
सन्निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु ।
युद्धेऽत्यर्थकृतोत्साहं दुरात्मानं समन्त्रिणम् ॥७-१४-४॥
यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः ।
राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ॥७-१४-५॥
ते गत्वा सर्वमाचख्युर्भ्रातुस्तस्य चिकीर्षितम् ।
अनुज्ञाता ययुर्हष्टा युद्धाय धनदेन ते ॥७-१४-६॥
ततो बलानां सङ्क्षोभो व्यवर्धत महोदधेः ।
तस्य नैर्ऋतराजस्य शैलं सञ्चालयन्निव ॥७-१४-७॥
ततो युद्धं समभवद्यक्षराक्षससङ्कुलम् ।
व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ॥७-१४-८॥
स दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः ।
हर्षनादान्बहून्कृत्वा स क्रोधादभ्यधावत ॥७-१४-९॥
ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः ।
तेषां सहस्रमेकैकं यक्षाणां समयोधयन् ॥७-१४-१०॥
ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः ।
हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत ॥७-१४-११॥
स निरुच्छ्वासवत्तत्र वध्यमानो दशाननः ।
वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत ॥७-१४-१२॥
न चकार व्यथां चैव यक्षशस्त्रैः समाहतः ।
महीधर इवाम्भोदैर्धाराशतसमुक्षितः ॥७-१४-१३॥
स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् ।
प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ॥७-१४-१४॥
स कक्षमिव विस्तीर्णं शुष्केन्धनमिवाकुलम् ।
वातेनाग्निरिवायत्तो यक्षसैन्यं ददाह तत् ॥७-१४-१५॥
तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः ।
अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ॥७-१४-१६॥
केचित्समाहता भग्नाः पतिताः समरक्षितौ ।
ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे ॥७-१४-१७॥
श्रान्ताश्चान्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे ।
सीदन्ति च तदा यक्षाः कूला इव जलेन ह ॥७-१४-१८॥
हतानां गच्छतां स्वर्गं युध्यतां पृथिवीतले ।
प्रेक्षतामृषिसङ्घानां न बभूवान्तरं दिवि ॥७-१४-१९॥
भग्नांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान् ।
धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान् ॥७-१४-२०॥
एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः ।
प्रेषितो न्यपतद्यक्षो नाम्ना संयोधकण्टकः ॥७-१४-२१॥
तेन चक्रेण मारीचो विष्णुनेव रणे हतः ।
पतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः ॥७-१४-२२॥
ससञ्ज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः ।
तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे ॥७-१४-२३॥
ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम् ।
मर्यादां प्रतिहाराणां तोरणान्तरमाविशत् ॥७-१४-२४॥
तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम् ।
सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ॥७-१४-२५॥
स वार्यमाणो यक्षेण प्रविवेश निशाचरः ।
यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः ॥७-१४-२६॥
ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः ।
रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव ॥७-१४-२७॥
स शैलशिखराभेण तोरणेन समाहतः ।
जगाम न क्षतिं वीरो वरदानात्स्वयम्भुवः ॥७-१४-२८॥
तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः ।
नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ॥७-१४-२९॥
ततः प्रदुद्रुवुः सर्वे दृष्ट्वा रक्षःपराक्रमम् ।
ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः ।
त्यक्तप्रहरणाः श्रान्ता विवर्णवदनास्तदा ॥७-१४-३०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे यक्षरक्षोयुद्धम् नाम चतुर्दशः सर्गः ॥७-१४॥
Previous
धनददूतहननम्
Next
पुष्पकहरणम्