पुष्पकहरणम्
उत्तरकाण्डः / पुष्पकहरणम्
Script
Translation
Previous
यक्षरक्षोयुद्धम्
Next
रावणनामप्राप्तिः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे पुष्पकहरणम् नाम पञ्चदशः सर्गः ॥७-१५॥
ततस्ताँल्लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः ।
धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ॥७-१५-१॥
रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् ।
शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ॥७-१५-२॥
एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः ।
वृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् ॥७-१५-३॥
ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः ।
अभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ॥७-१५-४॥
कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु ।
बाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ॥७-१५-५॥
ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः ।
दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् ॥७-१५-६॥
यक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे ।
महोदरेण चानिन्द्यं सहस्रमपरं हतम् ॥७-१५-७॥
क्रुद्धेन च तदा राजन्मारीचेन युयुत्सुना ।
निमेषान्तरमात्रेण द्वे सहस्रे निपातिते ॥७-१५-८॥
क्व च यक्षार्जवं युद्धं क्व च मायाबलाश्रयम् ।
रक्षसां पुरुषव्याघ्र तेन तेऽभ्यधिका युधि ॥७-१५-९॥
धूम्राक्षेण समागम्य माणिभद्रो महारणे ।
मुसलेनोरसि क्रोधात्तडितो न च कम्पितः ॥७-१५-१०॥
ततो गदां समाविध्य माणिभद्रेण राक्षसः ।
धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ॥७-१५-११॥
धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् ।
अभ्यधावत सङ्ग्रामे माणिभद्रं दशाननः ॥७-१५-१२॥
तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् ।
शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ॥७-१५-१३॥
ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे ।
तस्य तेन प्रहारेम मुकुटं पार्श्वमागतम् ॥७-१५-१४॥
ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत ।
तदाप्रभृति यक्षोऽसौ पार्श्वमौलिरिति स्मृतः ।
सन्नादः सुमहान्राजंस्तस्मिन्शैलेऽभ्यवर्तत ॥७-१५-१५॥
ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः ।
शुक्रप्रौष्ठपदाभ्यां च पद्मशङ्खसमावृतः ॥७-१५-१६॥
स दृष्ट्वा भ्रातरं सङ्ख्ये शापाद्विभ्रष्टगौरवम् ।
उवाच वचनं धीमान्युक्तं पैतामहे कुले ॥७-१५-१७॥
यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते ।
पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ॥७-१५-१८॥
यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः ।
स तस्य परिणामान्ते जानीते कर्मणः फलम् ॥७-१५-१९॥
देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् ।
येन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे ॥७-१५-२०॥
मातरं पितरं यो हि आचार्यं चावमन्यते ।
स पश्यति फलं तस्य प्रेतराजवशं गतः ॥७-१५-२१॥
अध्रुवे हि शरीरे यो न करोति तपोर्जनम् ।
स पश्चात्तप्यते मूढो मृतो दृष्ट्वाऽऽत्मनो गतिम् ॥७-१५-२२॥
धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च ।
तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ॥७-१५-२३॥
पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना ।
तस्मादात्मापघातार्थं मूढः पापं करिष्यति ॥७-१५-२४॥
कस्य चिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः ।
देवं चेष्टयते सर्वं हतो दैवेन हन्यते ।
यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥७-१५-२५॥
बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च ।
प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ॥७-१५-२६॥
एवं निरयगामी त्वं यस्य ते मतिरीदृशी ।
न त्वां समभिभाषिष्येऽसद्वृत्तेष्वेव निर्णयः ॥७-१५-२७॥
एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः ।
मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ॥७-१५-२८॥
ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना ।
गदयाभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ॥७-१५-२९॥
ततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे ।
न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ॥७-१५-३०॥
आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा ।
राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ॥७-१५-३१॥
ततो मायां प्रविष्टोऽसौ राक्षसीं राक्षसेश्वरः ।
रूपाणां शतसाहस्रं विनाशाय चकार च ॥७-१५-३२॥
व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः ।
यक्षो दैत्यस्वरूपी च सोऽदृश्यत दशाननः ॥७-१५-३३॥
बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः ।
प्रतिगृह्य ततो राम महदस्त्रं दशाननः ॥७-१५-३४॥
जघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम् ।
एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ॥७-१५-३५॥
कृत्तमूल इवाशोको निपपात धनाधिपः ॥७-१५-३६॥
ततः पद्मादिभिस्तत्र निधिभिः स तदा वृतः ।
धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ॥७-१५-३७॥
निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः ।
पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ॥७-१५-३८॥
काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् ।
मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ॥७-१५-३९॥
मनोजवं कामगमं कामरूपं विहङ्गमम् ।
मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ॥७-१५-४०॥
देवोपवाह्यमक्षय्यं सदादृष्टिमनःसुखम् ।
बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ॥७-१५-४१॥
निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् ।
न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ॥७-१५-४२॥
स तं राजा समारुह्य कामगं वीर्यनिर्जितम् ।
जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः ॥७-१५-४३॥
जित्वा वैश्रवणं देवं कैलासात्समवातरत् ॥७-१५-४४॥
स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् ।
रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः ॥७-१५-४५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पुष्पकहरणम् नाम पञ्चदशः सर्गः ॥७-१५॥
Previous
यक्षरक्षोयुद्धम्
Next
रावणनामप्राप्तिः