धनददूतहननम्
उत्तरकाण्डः / धनददूतहननम्
Script
Translation
Previous
रावणादिविवाहः
Next
यक्षरक्षोयुद्धम्
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे धनददूतहननम् नाम त्रयोदशः सर्गः ॥७-१३॥
अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् ।
निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ॥७-१३-१॥
ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः ।
निद्रा मां बाधते राजन्कारयस्व ममालयम् ॥७-१३-२॥
विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् ।
विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ॥७-१३-३॥
दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे ।
स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् ॥७-१३-४॥
वैडूर्यकृतसोपानं किङ्किणीजालकं तथा ।
दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ॥७-१३-५॥
मनोहरं सर्वसुखं कारयामास राक्षसः ।
सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव ॥७-१३-६॥
तत्र निद्रां समाविष्टः कुम्भकर्णो महाबलः ।
बहून्यब्दसहस्राणि शयानो न प्रबुद्ध्यते ॥७-१३-७॥
निद्राभिभूते तु तदा कुम्भकर्णे दशाननः ।
देवर्षियक्षगन्धर्वान्सञ्जघ्ने हि निरङ्कुशः ॥७-१३-८॥
उद्यानानि च चित्राणि नन्दनादीनि यानि च ।
तानि गत्वा सुसङक्रुद्धो भिनत्ति स्म दशाननः ॥७-१३-९॥
नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् ।
नगान्व्रज्र इवोत्सृष्टो विध्वंसयति राक्षसः ॥७-१३-१०॥
तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः ।
कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः ॥७-१३-११॥
सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा ।
लङ्कां सम्प्रेषयामास दशग्रीवस्य वै हितम् ॥७-१३-१२॥
स गत्वा नगरीं लङ्कामाससाद विभीषणम् ।
मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ॥७-१३-१३॥
पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च बिभीषणः ।
सभायां दर्शयामास तमासीनं दशाननम् ॥७-१३-१४॥
स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा ।
जयेति वाचा सम्पूज्य तूष्णीं समभिवर्तत ॥७-१३-१५॥
तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते ।
उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् ॥७-१३-१६॥
राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् ।
उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ॥७-१३-१७॥
साधु पर्याप्तमेतावत्कृतश्चारित्रसङ्ग्रहः ।
साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते ॥७-१३-१८॥
दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः ।
देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः ॥७-१३-१९॥
निराकृतश्च बहुशस्त्वयाऽहं राक्षसाधिप ।
अपराद्धा हि बाल्याच्च रमणीयाः स्वबान्धवाः ॥७-१३-२०॥
अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् ।
रौद्रं व्रत्तं समास्थाय नियतो नियतेन्द्रियः ॥७-१३-२१॥
तत्र देवो मया दृष्टः सह देव्या मया प्रभुः ।
सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ॥७-१३-२२॥
का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना ।
रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति ॥७-१३-२३॥
देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम् ।
रेणुध्वस्तमिव ज्योतिः पिङ्गुलत्वमुपागतम् ॥७-१३-२४॥
ततोऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् ।
तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् ॥७-१३-२५॥
समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः ।
प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ॥७-१३-२६॥
पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् ।
प्रीतोऽस्मि तव धर्मज्ञ तपसा नेन सुव्रत ॥७-१३-२७॥
मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप ।
तृतीयः पुरुषो नास्ति यश्चरेव्रतमीदृशम् ॥७-१३-२८॥
व्रतं सुनिश्चयं ह्येतन्मया ह्युत्पादितं पुरा ।
तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर ॥७-१३-२९॥
तपसा निर्जितश्चैव सखा भव ममानघ ।
देव्या दग्धं प्रभावेण यच्च सव्यं तवेक्षणम् ॥७-१३-३०॥
एकाक्षिपिङ्गलेत्येव नाम स्थास्यति शाश्वतम् ।
एवं तेन सखित्वं च प्राप्यानुज्ञां च शङ्करात् ॥७-१३-३१॥
आगत्य च श्रुतोऽयं मे तव पापविनिश्चयः ॥७-१३-३२॥
तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् ।
चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव ॥७-१३-३३॥
एवमुक्तो दशग्रीवः क्रुद्धसंरक्तलोचनः ।
हस्तौ दन्तांश्च सम्पीड्य वाक्यमेतदुवाच ह ॥७-१३-३४॥
विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे ।
नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ॥७-१३-३५॥
हितं नैष ममैतद्धि ब्रवीति धनरक्षकः ।
महेश्वरसखित्वं तु मूढ श्रावयते किल ॥७-१३-३६॥
न चेदं क्षमणीयं मे यदेतद्भाषितं त्वया ।
यदेतावन्मया कालं दूत तस्य तु मर्षितम् ॥७-१३-३७॥
न हन्तव्यो गुरुर्ज्येष्ठो मयाऽयमिति मन्यते ।
तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ॥७-१३-३८॥
त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ॥७-१३-३९॥
एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते ।
चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ॥७-१३-४०॥
एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् ।
ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ॥७-१३-४१॥
एवं कृतस्वस्त्ययनो रथमारुह्य रावणः ।
त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः ॥७-१३-४२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे धनददूतहननम् नाम त्रयोदशः सर्गः ॥७-१३॥
Previous
रावणादिविवाहः
Next
यक्षरक्षोयुद्धम्