महापार्श्ववधः

युद्धकाण्डः / महापार्श्ववधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे महापार्श्ववधः नाम एकोनशततमः सर्गः ॥६-९९॥
महोदरे तु निहते महापार्श्वो महाबलः । सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः ॥६-९९-१॥
अङ्गदस्य चमूं भीमां क्षोभयामास मार्गणैः । स वानराणां मुख्यानामुत्तमाङ्गानि राक्षसः ॥६-९९-२॥
पातयामास कायेभ्यः फलं वृन्तादिवानिलः । केषांचिदिषुभिर्बाहूंश्चिच्छेदाथ स राक्षसः ॥६-९९-३॥
वानराणां सुसंरब्धः पार्श्वं केषांचिदाक्षिपत् । तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः ॥६-९९-४॥
विषादविमुखाः सर्वे बभूवुर्गतचेतसः । निशम्य बलमुद्विग्नमङ्गदो राक्षसार्दितम् ॥६-९९-५॥
वेगं चक्रे महावेगः समुद्र इव पर्वसु । आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम् ॥६-९९-६॥
समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् । स तु तेन प्रहारेण महापार्श्वो विचेतनः ॥६-९९-७॥
ससूतः स्यन्दनात् तस्माद् विसंज्ञश्चापतद् भुवि । तस्यर्क्षराजस्तेजस्वी नीलाञ्जनचयोपमः ॥६-९९-८॥
निष्पत्य सुमहावीर्यः स्वयूथान्मेघसंनिभात् । प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम् ॥६-९९-९॥
अश्वाञ्जघान तरसा बभञ्ज स्यन्दनं च तम् । मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः ॥६-९९-१०॥
अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत । जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे ॥६-९९-११॥
ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः । गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ ॥६-९९-१२॥
जग्राह परिघं घोरमङ्गदः क्रोधमूर्च्छितः । तस्याङ्गदः सरोषाक्षो राक्षसस्य तमायसम् ॥६-९९-१३॥
दूरस्थितस्य परिघं रविरश्मिसमप्रभम् । द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवत् ॥६-९९-१४॥
महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः । स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः ॥६-९९-१५॥
धनुश्च सशरं हस्ताच्छिरस्त्राणं च पातयत् । तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् ॥६-९९-१६॥
तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले । स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः ॥६-९९-१७॥
करेणैकेन जग्राह सुमहान्तं परश्वधम् । तं तैलधौतं विमलं शैलसारमयं दृढम् ॥६-९९-१८॥
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् । तेन वामांसफलके भृशं प्रत्यवपातितम् ॥६-९९-१९॥
अङ्गदो मोक्षयामास सरोषः स परश्वधम् । स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः ॥६-९९-२०॥
संवर्तयत् सुसंक्रुद्धः पितुस्तुल्यपराक्रमः । राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति ॥६-९९-२१॥
इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् । तेन तस्य निपातेन राक्षसस्य महामृधे ॥६-९९-२२॥
पफाल हृदयं चास्य स पपात हतो भुवि । तस्मिन् विनिहते भूमौ तत् सैन्यं सम्प्रचुक्षुभे ॥६-९९-२३॥
अभवच्च महान् क्रोधः समरे रावणस्य तु । वानराणां प्रहृष्टानां सिंहनादः सुपुष्कलः ॥६-९९-२४॥
स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम् । सहेन्द्रेणेव देवानां नादः समभवन्महान् ॥६-९९-२५॥
अथेन्द्रशत्रुस्त्रिदशालयानां वनौकसां चैव महाप्रणादम् । श्रुत्वा सरोषं युधि राक्षसेन्द्रः पुनश्च युद्धाभिमुखोऽवतस्थे ॥६-९९-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे महापार्श्ववधः नाम एकोनशततमः सर्गः ॥६-९९॥