रामरावणास्त्रपरम्परा

युद्धकाण्डः / रामरावणास्त्रपरम्परा

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रामरावणास्त्रपरम्परा नाम शततमः सर्गः ॥६-१००॥
महोदरमहापार्श्वौ हतौ दृष्ट्वा स रावणः । तस्मिंश्च निहते वीरे विरूपाक्षे महाबले ॥६-१००-१॥
आविवेश महान् क्रोधो रावणं तु महामृधे । सूतं संचोदयामास वाक्यं चेदमुवाच ह ॥६-१००-२॥
निहतानाममात्यानां रुद्धस्य नगरस्य च । दुःखमेवापनेष्यामि हत्वा तौ रामलक्ष्मणौ ॥६-१००-३॥
रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् । प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः ॥६-१००-४॥
द्विविदश्चैव मैन्दश्च अङ्गदो गन्धमादनः । हनूमांश्च सुषेणश्च सर्वे च हरियूथपाः ॥६-१००-५॥
स दिशो दश घोषेण रथस्यातिरथो महान् । नादयन् प्रययौ तूर्णं राघवं चाभ्यधावत ॥६-१००-६॥
पूरिता तेन शब्देन सनदीगिरिकानना । संचचाल मही सर्वा त्रस्तसिंहमृगद्विजा ॥६-१००-७॥
तामसं सुमहाघोरं चकारास्त्रं सुदारुणम् । निर्ददाह कपीन् सर्वांस्ते प्रपेतुः समन्ततः ॥६-१००-८॥
उत्पपात रजो भूमौ तैर्भग्नैः सम्प्रधावितैः । नहि तत् सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ॥६-१००-९॥
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः । दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ॥६-१००-१०॥
ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम् । स ददर्श ततो रामं तिष्ठन्तमपराजितम् ॥६-१००-११॥
लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा । आलिखन्तमिवाकाशमवष्टभ्य महद् धनुः ॥६-१००-१२॥
पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम् । ततो रामो महातेजाः सौमित्रिसहितो बली ॥६-१००-१३॥
वानरांश्च रणे भग्नानापतन्तं च रावणम् । समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ॥६-१००-१४॥
विस्फारयितुमारेभे ततः स धनुरुत्तमम् । महावेगं महानादं निर्भिन्दन्निव मेदिनीम् ॥६-१००-१५॥
रावणस्य च बाणौघै रामविस्फारितेन च । शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा ॥६-१००-१६॥
तयोः शरपथं प्राप्य रावणो राजपुत्रयोः । स बभौ च यथा राहुः समीपे शशिसूर्ययोः ॥६-१००-१७॥
तमिच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः । मुमोच धनुरायम्य शरानग्निशिखोपमान् ॥६-१००-१८॥
तान् मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता । बाणान् बाणैर्महातेजा रावणः प्रत्यवारयत् ॥६-१००-१९॥
एकमेकेन बाणेन त्रिभिस्त्रीन् दशभिर्दश । लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम् ॥६-१००-२०॥
अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः । आससाद रणे रामं स्थितं शैलमिवापरम् ॥६-१००-२१॥
स राघवं समासाद्य क्रोधसंरक्तलोचनः । व्यसृजच्छरवर्षाणि रावणो राक्षसेश्वरः ॥६-१००-२२॥
शरधारास्ततो रामो रावणस्य धनुश्च्युताः । दृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम् ॥६-१००-२३॥
ताञ्छरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः । दीप्यमानान् महाघोराञ्छरानाशीविषोपमान् ॥६-१००-२४॥
राघवो रावणं तूर्णं रावणो राघवं तथा । अन्योन्यं विविधैस्तीक्ष्णैः शरवर्षैर्ववर्षतुः ॥६-१००-२५॥
चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् । बाणवेगात् समुत्क्षिप्तावन्योन्यमपराजितौ ॥६-१००-२६॥
तयोर्भूतानि वित्रेसुर्युगपत् सम्प्रयुध्यतोः । रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ॥६-१००-२७॥
सततं विविधैर्बाणैर्बभूव गगनं तदा । घनैरिवातपापाये विद्युन्मालासमाकुलैः ॥६-१००-२८॥
गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः । महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः ॥६-१००-२९॥
शरान्धकारमाकाशं चक्रतुः परमं तदा । गतेऽस्तं तपने चापि महामेघाविवोत्थितौ ॥६-१००-३०॥
तयोरभून्महायुद्धमन्योन्यवधकांक्षिणोः । अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ॥६-१००-३१॥
उभौ हि परमेष्वासावुभौ युद्धविशारदौ । उभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ॥६-१००-३२॥
उभौ हि येन व्रजतस्तेन तेन शरोर्मयः । ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ॥६-१००-३३॥
ततः संसक्तहस्तस्तु रावणो लोकरावणः । नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ॥६-१००-३४॥
रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम् । शिरसाधारयद् रामो न व्यथामभ्यपद्यत ॥६-१००-३५॥
अथ मन्त्रानपि जपन् रौद्रमस्त्रमुदीरयन् । शरान् भूयः समादाय रामः क्रोधसमन्वितः ॥६-१००-३६॥
मुमोच च महातेजाश्चापमायम्य वीर्यवान् । तान् शरान् राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः ॥६-१००-३७॥
ते महामेघसंकाशे कवचे पतिताः शराः । अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ॥६-१००-३८॥
पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम् । ललाटे परमास्त्रेण सर्वास्त्रकुशलोऽभिनत् ॥६-१००-३९॥
ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः । श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः ॥६-१००-४०॥
निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्च्छितः । आसुरं सुमहाघोरमस्त्रं प्रादुश्चकार सः ॥६-१००-४१॥
सिंहव्याघ्रमुखांश्चापि कङ्ककोकमुखानपि । गृध्रश्येनमुखांश्चापि शृगालवदनांस्तथा ॥६-१००-४२॥
ईहामृगमुखांश्चापि व्यादितास्यान् भयावहान् । पञ्चास्याँल्लेलिहानांश्च ससर्ज निशितान् शरान् ॥६-१००-४३॥
शरान् खरमुखांश्चान्यान् वराहमुखसंश्रितान् । श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् ॥६-१००-४४॥
एतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्छरान् । रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ॥६-१००-४५॥
आसुरेण समाविष्टः सोऽस्त्रेण रघुपुङ्गवः । ससर्जास्त्रं महोत्साहं पावकं पावकोपमः ॥६-१००-४६॥
अग्निदीप्तमुखान् बाणांस्तत्र सूर्यमुखानपि । चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि । ग्रहनक्षत्रवर्णांश्च महोल्कामुखसंस्थितान् ॥६-१००-४७॥
विद्युज्जिह्वोपमांश्चापि ससर्ज विविधाञ्छरान् । ते रावणशरा घोरा राघवास्त्रसमाहताः ॥६-१००-४८॥
विलयं जग्मुराकाशे जघ्नुश्चैव सहस्रशः । तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥६-१००-४९॥
हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः । सुग्रीवाभिमुखा वीराः सम्परिक्षिप्य राघवम् ॥६-१००-५०॥
ततस्तदस्त्रं विनिहत्य राघवः प्रसह्य तद् रावणबाहुनिःसृतम् । मुदान्वितो दाशरथिर्महात्मा विनेदुरुच्चैर्मुदिताः कपीश्वराः ॥६-१००-५१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रामरावणास्त्रपरम्परा नाम शततमः सर्गः ॥६-१००॥