महोदरवधः
युद्धकाण्डः / महोदरवधः
Script
Translation
Previous
विरूपाक्षवधः
Next
महापार्श्ववधः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे महोदरवधः नाम अष्टनवतितमः सर्गः ॥६-९८॥
हन्यमाने बले तूर्णमन्योन्यं ते महामृधे ।
सरसीव महाघर्मे सूपक्षीणे बभूवतुः ॥६-९८-१॥
स्वबलस्य तु घातेन विरूपाक्षवधेन च ।
बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥६-९८-२॥
प्रक्षीणं स्वबलं दृष्ट्वा वध्यमानं वलीमुखैः ।
बभूवास्य व्यथा युद्धे दृष्ट्वा दैवविपर्ययम् ॥६-९८-३॥
उवाच च समीपस्थं महोदरमनन्तरम् ।
अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता ॥६-९८-४॥
जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् ।
भर्तृपिण्डस्य कालोऽयं निर्वेष्टुं साधु युध्यताम् ॥६-९८-५॥
एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः ।
प्रविवेशारिसेनां स पतङ्ग इव पावकम् ॥६-९८-६॥
ततः स कदनं चक्रे वानराणां महाबलः ।
भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ॥६-९८-७॥
वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः ।
प्रविश्यारिबलं भीमं जघ्नुस्ते सर्वराक्षसान् ॥६-९८-८॥
महोदरः सुसंक्रुद्धः शरैः काञ्चनभूषणैः ।
चिच्छेद पाणिपादोरु वानराणां महाहवे ॥६-९८-९॥
ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम् ।
दिशो दश द्रुताः केचित् केचित् सुग्रीवमाश्रिताः ॥६-९८-१०॥
प्रभग्नं समरे दृष्ट्वा वानराणां महाबलम् ।
अभिदुद्राव सुग्रीवो महोदरमनन्तरम् ॥६-९८-११॥
प्रगृह्य विपुलां घोरां महीधरसमां शिलाम् ।
चिक्षेप च महातेजास्तद्वधाय हरीश्वरः ॥६-९८-१२॥
तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः ।
असम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ॥६-९८-१३॥
रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा ।
निपपात तदा भूमौ गृध्रचक्रमिवाकुलम् ॥६-९८-१४॥
तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्च्छितः ।
सालमुत्पाट्य चिक्षेप तं स चिच्छेद नैकधा ॥६-९८-१५॥
शरैश्च विददारैनं शूरः परबलार्दनः ।
स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ॥६-९८-१६॥
आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् ।
परिघेणोग्रवेगेन जघानास्य हयोत्तमान् ॥६-९८-१७॥
तस्माद्धतहयाद् वीरः सोऽवप्लुत्य महारथात् ।
गदां जग्राह संक्रुद्धो राक्षसोऽथ महोदरः ॥६-९८-१८॥
गदापरिघहस्तौ तौ युधि वीरौ समीयतुः ।
नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ ॥६-९८-१९॥
ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः ।
ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः ॥६-९८-२०॥
गदां तां सुमहाघोरामापतन्तीं महाबलः ।
सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे ॥६-९८-२१॥
आजघान गदां तस्य परिघेण हरीश्वरः ।
पपात तरसा भिन्नः परिघस्तस्य भूतले ॥६-९८-२२॥
ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् ।
आयसं मुसलं घोरं सर्वतो हेमभूषितम् ॥६-९८-२३॥
स तमुद्यम्य चिक्षेप सोऽप्यस्य प्राक्षिपद् गदाम् ।
भिन्नावन्योन्यमासाद्य पेततुस्तौ महीतले ॥६-९८-२४॥
ततो भिन्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः ।
तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ॥६-९८-२५॥
जघ्नतुस्तौ तदान्योन्यं नदन्तौ च पुनः पुनः ।
तलैश्चान्योन्यमासाद्य पेततुश्च महीतले ॥६-९८-२६॥
उत्पेततुस्तदा तूर्णं जघ्नतुश्च परस्परम् ।
भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ ॥६-९८-२७॥
जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परंतपौ ।
आजहार तदा खड्गमदूरपरिवर्तिनम् ॥६-९८-२८॥
राक्षसश्चर्मणा सार्धं महावेगो महोदरः ।
तथैव च महाखड्गं चर्मणा पतितं सह ।
जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ॥६-९८-२९॥
ततो रोषपरीताङ्गौ नदन्तावभ्यधावताम् ।
उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ ॥६-९८-३०॥
दक्षिणं मण्डलं चोभौ सुतूर्णं सम्परीयतुः ।
अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ ॥६-९८-३१॥
स तु शूरो महावेगो वीर्यश्लाघी महोदरः ।
महावर्मणि तं खड्गं पातयामास दुर्मतिः ॥६-९८-३२॥
लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः ।
जहार सशिरस्त्राणं कुण्डलोपगतं शिरः ॥६-९८-३३॥
निकृत्तशिरसस्तस्य पतितस्य महीतले ।
तद् बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न दृश्यते ॥६-९८-३४॥
हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः ।
चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ॥६-९८-३५॥
विषण्णवदनाः सर्वे राक्षसा दीनचेतसः ।
विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः ॥६-९८-३६॥
महोदरं तं विनिपात्य भूमौ महागिरेः कीर्णमिवैकदेशम् ।
सूर्यात्मजस्तत्र रराज लक्ष्म्या सूर्यः स्वतेजोभिरिवाप्रधृष्यः ॥६-९८-३७॥
अथ विजयमवाप्य वानरेन्द्रः समरमुखे सुरसिद्धयक्षसङ्घैः ।
अवनितलगतैश्च भूतसङ्घैर्हरुषसमाकुलितैर्निरीक्ष्यमाणः ॥६-९८-३८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे महोदरवधः नाम अष्टनवतितमः सर्गः ॥६-९८॥
Previous
विरूपाक्षवधः
Next
महापार्श्ववधः