विरूपाक्षवधः
युद्धकाण्डः / विरूपाक्षवधः
Script
Translation
Previous
रावणाभिषेणनम्
Next
महोदरवधः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे विरूपाक्षवधः नाम सप्तनवतितमः सर्गः ॥६-९७॥
तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः ।
बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा ॥६-९७-१॥
रावणस्याप्रसह्यं तं शरसम्पातमेकतः ।
न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा ॥६-९७-२॥
तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः ।
पावकार्चिः समाविष्टा दह्यमाना यथा गजाः ॥६-९७-३॥
प्लवंगानामनीकानि महाभ्राणीव मारुतः ।
संययौ समरे तस्मिन् विधमन् रावणः शरैः ॥६-९७-४॥
कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् ।
आससाद ततो युद्धे त्वरितं राघवं रणे ॥६-९७-५॥
सुग्रीवस्तान् कपीन् दृष्ट्वा भग्नान् विद्रावितान् रणे ।
गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः ॥६-९७-६॥
आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम् ।
सुग्रीवोऽभिमुखं शत्रुं प्रतस्थे पादपायुधः ॥६-९७-७॥
पार्श्वतः पृष्ठतश्चास्य सर्वे वानरयूथपाः ।
अनुजग्मुर्महाशैलान् विविधांश्च वनस्पतीन् ॥६-९७-८॥
ननर्द युधि सुग्रीवः स्वरेण महता महान् ।
पोथयन् विविधांश्चान्यान् ममन्थोत्तमराक्षसान् ॥६-९७-९॥
ममर्द च महाकायो राक्षसान् वानरेश्वरः ।
युगान्तसमये वायुः प्रवृद्धानगमानिव ॥६-९७-१०॥
राक्षसानामनीकेषु शैलवर्षं ववर्ष ह ।
अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने ॥६-९७-११॥
कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः ।
विकीर्णशिरसः पेतुर्विकीर्णा इव पर्वताः ॥६-९७-१२॥
अथ संक्षीयमाणेषु राक्षसेषु समन्ततः ।
सुग्रीवेण प्रभग्नेषु नदत्सु च पतत्सु च ॥६-९७-१३॥
विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः ।
रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ॥६-९७-१४॥
स तं द्विपमथारुह्य विरूपाक्षो महाबलः ।
ननर्द भीमनिर्ह्रादं वानरानभ्यधावत ॥६-९७-१५॥
सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे ।
स्थापयामास चोद्विग्नान् राक्षसान् सम्प्रहर्षयन् ॥६-९७-१६॥
सोऽतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा ।
चुक्रोश च महाक्रोधो वधे चास्य मनो दधे ॥६-९७-१७॥
ततः पादपमुद्धृत्य शूरः सम्प्रधनो हरिः ।
अभिपत्य जघानास्य प्रमुखे तं महागजम् ॥६-९७-१८॥
स तु प्रहाराभिहतः सुग्रीवेण महागजः ।
अपासर्पद् धनुर्मात्रं निषसाद ननाद च ॥६-९७-१९॥
गजात् तु मथितात् तूर्णमपक्रम्य स वीर्यवान् ।
राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् ॥६-९७-२०॥
आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः ।
भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ॥६-९७-२१॥
स हि तस्याभिसंक्रुद्धः प्रगृह्य विपुलां शिलाम् ।
विरूपाक्षस्य चिक्षेप सुग्रीवो जलदोपमाम् ॥६-९७-२२॥
स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुंगवः ।
अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत् तदा ॥६-९७-२३॥
तेन खड्गप्रहारेण रक्षसा बलिना हतः ।
मुहूर्तमभवद् भूमौ विसंज्ञ इव वानरः ॥६-९७-२४॥
सहसा स तदोत्पत्य राक्षसस्य महाहवे ।
मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि ॥६-९७-२५॥
मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः ।
तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे ॥६-९७-२६॥
कवचं पातयामास पद्भ्यामभिहतोऽपतत् ।
स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् ॥६-९७-२७॥
तलप्रहारमशनेः समानं भीमनिःस्वनम् ।
तलप्रहारं तद् रक्षः सुग्रीवेण समुद्यतम् ॥६-९७-२८॥
नैपुण्यान्मोचयित्वैनं मुष्टिनोरसि ताडयत् ।
ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः ॥६-९७-२९॥
मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा ।
स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ॥६-९७-३०॥
ततोऽन्यं पातयत् क्रोधाच्छङ्खदेशे महातलम् ।
महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ॥६-९७-३१॥
पपात रुधिरक्लिन्नः शोणितं हि समुद्गिरन् ।
स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव ॥६-९७-३२॥
विवृत्तनयनं क्रोधात् सफेनं रुधिराप्लुतम् ।
ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् ॥६-९७-३३॥
स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम् ।
करुणं च विनर्दन्तं ददृशुः कपयो रिपुम् ॥६-९७-३४॥
तथा तु तौ संयति सम्प्रयुक्तौ तरस्विनौ वानरराक्षसानाम् ।
बलार्णवौ सस्वनतुश्च भीमौ महार्णवौ द्वाविव भिन्नसेतू ॥६-९७-३५॥
विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन ।
बलं समेतं कपिराक्षसानामुद्वृत्तगङ्गाप्रतिमं बभूव ॥६-९७-३६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विरूपाक्षवधः नाम सप्तनवतितमः सर्गः ॥६-९७॥
Previous
रावणाभिषेणनम्
Next
महोदरवधः