रावणाभिषेणनम्
युद्धकाण्डः / रावणाभिषेणनम्
Script
Translation
Previous
राक्षसीविलापः
Next
विरूपाक्षवधः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रावणाभिषेणनम् नाम षण्णवतितमः सर्गः ॥६-९६॥
आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले ।
रावणः करुणं शब्दं शुश्राव परिदेवितम् ॥६-९६-१॥
स तु दीर्घं विनिःश्वस्य मुहूर्तं ध्यानमास्थितः ।
बभूव परमक्रुद्धो रावणो भीमदर्शनः ॥६-९६-२॥
संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः ।
राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्तिमान् ॥६-९६-३॥
उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः ।
क्रोधाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा ॥६-९६-४॥
महोदरं महापार्श्वं विरूपाक्षं च राक्षसम् ।
शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया ॥६-९६-५॥
तस्य तद् वचनं श्रुत्वा राक्षसास्ते भयार्दिताः ।
चोदयामासुरव्यग्रान् राक्षसांस्तान् नृपाज्ञया ॥६-९६-६॥
ते तु सर्वे तथेत्युक्त्वा राक्षसा भीमदर्शनाः ।
कृतस्वस्त्ययनाः सर्वे ते रणाभिमुखा ययुः ॥६-९६-७॥
प्रतिपूज्य यथान्यायं रावणं ते महारथाः ।
तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः ॥६-९६-८॥
ततोवाच प्रहस्यैतान् रावणः क्रोधमूर्च्छितः ।
महोदरमहापार्श्वौ विरूपाक्षं च राक्षसम् ॥६-९६-९॥
अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैः ।
राघवं लक्ष्मणं चैव नेष्यामि यमसादनम् ॥६-९६-१०॥
खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा ।
करिष्यामि प्रतीकारमद्य शत्रुवधादहम् ॥६-९६-११॥
नैवान्तरिक्षं न दिशो न च द्यौर्नापि सागराः ।
प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः ॥६-९६-१२॥
अद्य वानरमुख्यानां तानि यूथानि भागशः ।
धनुषा शरजालेन वधिष्यामि पतत्त्रिणा ॥६-९६-१३॥
अद्य वानरसैन्यानि रथेन पवनौजसा ।
धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः ॥६-९६-१४॥
व्याकोशपद्मवक्त्राणि पद्मकेसरवर्चसाम् ।
अद्य यूथतटाकानि गजवत् प्रमथाम्यहम् ॥६-९६-१५॥
सशरैरद्य वदनैः संख्ये वानरयूथपाः ।
मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः ॥६-९६-१६॥
अद्य यूथप्रचण्डानां हरीणां द्रुमयोधिनाम् ।
मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम् ॥६-९६-१७॥
हतो भ्राता च येषां वै येषां च तनयो हतः ।
वधेनाद्य रिपोस्तेषां करोम्यश्रुप्रमार्जनम् ॥६-९६-१८॥
अद्य मद्बाणनिर्भिन्नैः प्रस्तीर्णैर्गतचेतनैः ।
करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम् ॥६-९६-१९॥
अद्य काकाश्च गृध्राश्च ये च मांसाशिनोऽपरे ।
सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शराहतैः ॥६-९६-२०॥
कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः ।
अनुप्रयान्तु मां युद्धे येऽत्र शिष्टा निशाचराः ॥६-९६-२१॥
तस्य तद् वचनं श्रुत्वा महापार्श्वोऽब्रवीद् वचः ।
बलाध्यक्षान् स्थितांस्तत्र बलं संत्वर्यतामिति ॥६-९६-२२॥
बलाध्यक्षास्तु संयुक्ता राक्षसांस्तान् गृहे गृहे ।
चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः ॥६-९६-२३॥
ततो मुहूर्तान्निष्पेतू राक्षसा भीमदर्शनाः ।
नदन्तो भीमवदना नानाप्रहरणैर्भुजैः ॥६-९६-२४॥
असिभिः पट्टिशैः शूलैर्गदाभिर्मुसलैर्हलैः ।
शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः ॥६-९६-२५॥
यष्टिभिर्विविधैश्चक्रैर्निशितैश्च परश्वधैः ।
भिन्दिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः ॥६-९६-२६॥
अथानयन् बलाध्यक्षाश्चत्वारो रावणाज्ञया ।
रथानां नियुतं साग्रं नागानां नियुतत्रयम् ॥६-९६-२७॥
अश्वानां षष्टिकोट्यस्तु खरोष्ट्राणां तथैव च ।
पदातयस्त्वसंख्याता जग्मुस्ते राजशासनात् ॥६-९६-२८॥
बलाध्यक्षाश्च संस्थाप्य राज्ञः सेनां पुरःस्थिताम् ।
एतस्मिन्नन्तरे सूतः स्थापयामास तं रथम् ॥६-९६-२९॥
दिव्यास्त्रवरसम्पन्नं नानालंकारभूषितम् ।
नानायुधसमाकीर्णं किङ्किणीजालसंयुतम् ॥६-९६-३०॥
नानारत्नपरिक्षिप्तं रत्नस्तम्भैर्विराजितम् ।
जाम्बूनदमयैश्चैव सहस्रकलशैर्वृतम् ॥६-९६-३१॥
तं दृष्ट्वा राक्षसाः सर्वे विस्मयं परमं गताः ।
तं दृष्ट्वा सहसोत्थाय रावणो राक्षसेश्वरः ॥६-९६-३२॥
कोटिसूर्यप्रतीकाशं ज्वलन्तमिव पावकम् ।
द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम् ।
आरुरोह तदा भीमं दीप्यमानं स्वतेजसा ॥६-९६-३३॥
ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः ।
रावणः सत्त्वगाम्भीर्याद् दारयन्निव मेदिनीम् ॥६-९६-३४॥
ततश्चासीन्महानादस्तूर्याणां च ततस्ततः ।
मृदङ्गैः पटहैः शङ्खैः कलहैः सह रक्षसाम् ॥६-९६-३५॥
आगतो रक्षसां राजा छत्रचामरसंयुतः ।
सीतापहारी दुर्वृत्तो ब्रह्मघ्नो देवकण्टकः ।
योद्धुं रघुवरेणेति शुश्रुवे कलहध्वनिः ॥६-९६-३६॥
तेन नादेन महता पृथिवी समकम्पत ।
तं शब्दं सहसा श्रुत्वा वानरा दुद्रुवुर्भयात् ॥६-९६-३७॥
रावणस्तु महाबाहुः सचिवैः परिवारितः ।
आजगाम महातेजा जयाय विजयं प्रति ॥६-९६-३८॥
रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ ।
विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा ॥६-९६-३९॥
ते तु हृष्टाभिनर्दन्तो भिन्दन्त इव मेदिनीम् ।
नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः ॥६-९६-४०॥
ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः ।
निर्ययावुद्यतधनुः कालान्तकयमोपमः ॥६-९६-४१॥
ततः प्रजविताश्वेन रथेन स महारथः ।
द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ ॥६-९६-४२॥
ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः ।
द्विजाश्च नेदुर्घोराश्च संचचाल च मेदिनी ॥६-९६-४३॥
ववर्ष रुधिरं देवश्चस्खलुश्च तुरंगमाः ।
ध्वजाग्रे न्यपतद् गृध्रो विनेदुश्चाशिवं शिवाः ॥६-९६-४४॥
नयनं चास्फुरद् वामं वामो बाहुरकम्पत ।
विवर्णवदनश्चासीत् किंचिदभ्रश्यत स्वनः ॥६-९६-४५॥
ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः ।
रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे ॥६-९६-४६॥
अन्तरिक्षात् पपातोल्का निर्घातसमनिःस्वना ।
विनेदुरशिवा गृध्रा वायसैरभिमिश्रिताः ॥६-९६-४७॥
एतानचिन्तयन् घोरानुत्पातान् समवस्थितान् ।
निर्ययौ रावणो मोहाद् वधार्थं कालचोदितः ॥६-९६-४८॥
तेषां तु रथघोषेण राक्षसानां महात्मनाम् ।
वानराणामपि चमूर्युद्धायैवाभ्यवर्तत ॥६-९६-४९॥
तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम् ।
अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम् ॥६-९६-५०॥
ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः ।
वानराणामनीकेषु चकार कदनं महत् ॥६-९६-५१॥
निकृत्तशिरसः केचिद् रावणेन वलीमुखाः ।
केचिद् विच्छिन्नहृदयाः केचिच्छ्रोत्रविवर्जिताः ॥६-९६-५२॥
निरुच्छ्वासा हताः केचित् केचित् पार्श्वेषु दारिताः ।
केचिद् विभिन्नशिरसः केचिच्चक्षुर्विनाकृताः ॥६-९६-५३॥
दशाननः क्रोधविवृत्तनेत्रो यतो यतोऽभ्येति रथेन संख्ये ।
ततस्ततस्तस्य शरप्रवेगं सोढुं न शेकुर्हरियूथपास्ते ॥६-९६-५४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रावणाभिषेणनम् नाम षण्णवतितमः सर्गः ॥६-९६॥
Previous
राक्षसीविलापः
Next
विरूपाक्षवधः