राक्षसीविलापः

युद्धकाण्डः / राक्षसीविलापः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे राक्षसीविलापः नाम पञ्चनवतितमः सर्गः ॥६-९५॥
तानि नागसहस्राणि सारोहाणि च वाजिनाम् । रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः ॥६-९५-१॥
राक्षसानां सहस्राणि गदापरिघयोधिनाम् । काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ॥६-९५-२॥
निहतानि शरैर्दीप्तैस्तप्तकाञ्चनभूषणैः । रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ॥६-९५-३॥
दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः । राक्षस्यश्च समागम्य दीनाश्चिन्तापरिप्लुताः ॥६-९५-४॥
विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः । राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन् ॥६-९५-५॥
कथं शूर्पणखा वृद्धा कराला निर्णतोदरी । आससाद वने रामं कंदर्पसमरूपिणम् ॥६-९५-६॥
सुकुमारं महासत्त्वं सर्वभूतहिते रतम् । तं दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता ॥६-९५-७॥
कथं सर्वगुणैर्हीना गुणवन्तं महौजसम् । सुमुखं दुर्मुखी रामं कामयामास राक्षसी ॥६-९५-८॥
जनस्यास्याल्पभाग्यत्वाद् वलिनी श्वेतमूर्धजा । अकार्यमपहास्यं च सर्वलोकविगर्हितम् ॥६-९५-९॥
राक्षसानां विनाशाय दूषणस्य खरस्य च । चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् ॥६-९५-१०॥
तन्निमित्तमिदं वैरं रावणेन कृतं महत् । वधाय सीता साऽऽनीता दशग्रीवेण रक्षसा ॥६-९५-११॥
न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम् । बद्धं बलवता वैरमक्षयं राघवेण च ॥६-९५-१२॥
वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसम् । हतमेकेन रामेण पर्याप्तं तन्निदर्शनम् ॥६-९५-१३॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥६-९५-१४॥
खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा । शरैरादित्यसंकाशैः पर्याप्तं तन्निदर्शनम् ॥६-९५-१५॥
हतो योजनबाहुश्च कबन्धो रुधिराशनः । क्रोधान्नादं नदन् सोऽथ पर्याप्तं तन्निदर्शनम् ॥६-९५-१६॥
जघान बलिनं रामः सहस्रनयनात्मजम् । वालिनं मेरुसंकाशं पर्याप्तं तन्निदर्शनम् ॥६-९५-१७॥
ऋष्यमूके वसंश्चैव दीनो भग्नमनोरथः । सुग्रीवः प्रापितो राज्यं पर्याप्तं तन्निदर्शनम् ॥६-९५-१८॥
धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम् । युक्तं विभीषणेनोक्तं मोहात् तस्य न रोचते ॥६-९५-१९॥
विभीषणवचः कुर्याद् यदि स्म धनदानुजः । श्मशानभूता दुःखार्ता नेयं लङ्का भविष्यति ॥६-९५-२०॥
कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम् । अतिकायं च दुर्मर्षं लक्ष्मणेन हतं तदा । प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते ॥६-९५-२१॥
मम पुत्रो मम भ्राता मम भर्ता रणे हतः । इत्येष श्रूयते शब्दो राक्षसीनां कुले कुले ॥६-९५-२२॥
रथाश्वनागाश्च हतास्तत्र तत्र सहस्रशः । रणे रामेण शूरेण हताश्चापि पदातयः ॥६-९५-२३॥
रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः । हन्ति नो रामरूपेण यदि वा स्वयमन्तकः ॥६-९५-२४॥
हतप्रवीरा रामेण निराशा जीविते वयम् । अपश्यन्त्यो भयस्यान्तमनाथा विलपामहे ॥६-९५-२५॥
रामहस्ताद् दशग्रीवः शूरो दत्तमहावरः । इदं भयं महाघोरं समुत्पन्नं न बुद्ध्यते ॥६-९५-२६॥
तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः । उपसृष्टं परित्रातुं शक्ता रामेण संयुगे ॥६-९५-२७॥
उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे । कथयन्ति हि रामेण रावणस्य निबर्हणम् ॥६-९५-२८॥
पितामहेन प्रीतेन देवदानवराक्षसैः । रावणस्याभयं दत्तं मनुष्येभ्यो न याचितम् ॥६-९५-२९॥
तदिदं मानुषं मन्ये प्राप्तं निःसंशयं भयम् । जीवितान्तकरं घोरं रक्षसां रावणस्य च ॥६-९५-३०॥
पीड्यमानास्तु बलिना वरदानेन रक्षसा । दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् ॥६-९५-३१॥
देवतानां हितार्थाय महात्मा वै पितामहः । उवाच देवतास्तुष्ट इदं सर्वा महद्वचः ॥६-९५-३२॥
अद्यप्रभृति लोकांस्त्रीन् सर्वे दानवराक्षसाः । भयेन प्रभृता नित्यं विचरिष्यन्ति शाश्वतम् ॥६-९५-३३॥
दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः । वृषध्वजस्त्रिपुरहा महादेवः प्रतोषितः ॥६-९५-३४॥
प्रसन्नस्तु महादेवो देवानेतद् वचोऽब्रवीत् । उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा ॥६-९५-३५॥
एषा देवैः प्रयुक्ता तु क्षुद् यथा दानवान् पुरा । भक्षयिष्यति नः सर्वान् राक्षसघ्नी सरावणान् ॥६-९५-३६॥
रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः । अयं निष्टानको घोरः शोकेन समभिप्लुतः ॥६-९५-३७॥
तं न पश्यामहे लोके यो नः शरणदो भवेत् । राघवेणोपसृष्टानां कालेनेव युगक्षये ॥६-९५-३८॥
नास्ति नः शरणं किंचिद् भये महति तिष्ठताम् । दावाग्निवेष्टितानां हि करेणूनां यथा वने ॥६-९५-३९॥
प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना । यत एव भयं दृष्टं तमेव शरणं गतः ॥६-९५-४०॥
इतीव सर्वा रजनीचरस्त्रियः परस्परं सम्परिरभ्य बाहुभिः । विषेदुरार्तातिभयाभिपीडिता विनेदुरुच्चैश्च तदा सुदारुणम् ॥६-९५-४१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे राक्षसीविलापः नाम पञ्चनवतितमः सर्गः ॥६-९५॥