गन्धर्वास्त्रमोहनम्
युद्धकाण्डः / गन्धर्वास्त्रमोहनम्
Script
Translation
Previous
सीताहननोद्यमनिवृत्तिः
Next
राक्षसीविलापः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे गन्धर्वास्त्रमोहनम् नाम चतुर्नवतितमः सर्गः ॥६-९४॥
स प्रविश्य सभां राजा दीनः परमदुःखितः ।
निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन् ॥६-९४-१॥
अब्रवीच्च स तान् सर्वान् बलमुख्यान् महाबलः ।
रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्शितः ॥६-९४-२॥
सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः ।
निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः ॥६-९४-३॥
एकं रामं परिक्षिप्य समरे हन्तुमर्हथ ।
वर्षन्तः शरवर्षाणि प्रावृट्काल इवाम्बुदाः ॥६-९४-४॥
अथवाहं शरैस्तीक्ष्णैर्भिन्नगात्रं महाहवे ।
भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः ॥६-९४-५॥
इत्येतद् वाक्यमादाय राक्षसेन्द्रस्य राक्षसाः ।
निर्ययुस्ते रथैः शीघ्रैर्नानानीकैश्च संयुताः ॥६-९४-६॥
परिघान् पट्टिशांश्चैव शरखड्गपरश्वधान् ।
शरीरान्तकरान् सर्वे चिक्षिपुर्वानरान् प्रति ॥६-९४-७॥
वानराश्च द्रुमान् शैलान् राक्षसान् प्रति चिक्षिपुः ।
स संग्रामो महाभीमः सूर्यस्योदयनं प्रति ॥६-९४-८॥
रक्षसां वानराणां च तुमुलः समपद्यत ।
ते गदाभिश्च चित्राभिः प्रासैः खड्गैः परश्वधैः ॥६-९४-९॥
अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः ।
एवं प्रवृत्ते संग्रामे ह्यद्भुतं सुमहद्रजः ॥६-९४-१०॥
रक्षसां वानराणां च शान्तं शोणितविस्रवैः ।
मातंगरथकूलाश्च शरमत्स्या ध्वजद्रुमाः ॥६-९४-११॥
शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः ।
ततस्ते वानराः सर्वे शोणितौघपरिप्लुताः ॥६-९४-१२॥
ध्वजवर्मरथानश्वान् नानाप्रहरणानि च ।
आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे ॥६-९४-१३॥
केशान् कर्णललाटं च नासिकाश्च प्लवंगमाः ।
रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन् ॥६-९४-१४॥
एकैकं राक्षसं संख्ये शतं वानरपुंगवाः ।
अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा ॥६-९४-१५॥
तदा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः ।
निर्जघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः ॥६-९४-१६॥
राक्षसैर्वध्यमानानां वानराणां महाचमूः ।
शरण्यं शरणं याता रामं दशरथात्मजम् ॥६-९४-१७॥
ततो रामो महातेजा धनुरादाय वीर्यवान् ।
प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष च ॥६-९४-१८॥
प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे ।
नाधिजग्मुर्महाघोरा निर्दहन्तं शराग्निना ॥६-९४-१९॥
कृतान्येव सुघोराणि रामेण रजनीचराः ।
रणे रामस्य ददृशुः कर्माण्यसुकराणि ते ॥६-९४-२०॥
चालयन्तं महासैन्यं विधमन्तं महारथान् ।
ददृशुस्ते न वै रामं वातं वनगतं यथा ॥६-९४-२१॥
छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम् ।
बलं रामेण ददृशुर्न रामं शीघ्रकारिणम् ॥६-९४-२२॥
प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम् ।
इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः ॥६-९४-२३॥
एष हन्ति गजानीकमेष हन्ति महारथान् ।
एष हन्ति शरैस्तीक्ष्णैः पदातीन् वाजिभिः सह ॥६-९४-२४॥
इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे ।
अन्योन्यं कुपिता जघ्नुः सादृश्याद् राघवस्य तु ॥६-९४-२५॥
न ते ददृशिरे रामं दहन्तमपि वाहिनीम् ।
मोहिताः परमास्त्रेण गान्धर्वेण महात्मना ॥६-९४-२६॥
ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः ।
पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे ॥६-९४-२७॥
भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः ।
अलातचक्रप्रतिमां ददृशुस्ते न राघवम् ॥६-९४-२८॥
शरीरनाभि सत्त्वार्चिः शरारं नेमिकार्मुकम् ।
ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम् ॥६-९४-२९॥
दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान् ।
ददृशू रामचक्रं तत् कालचक्रमिव प्रजाः ॥६-९४-३०॥
अनीकं दशसाहस्रं रथानां वातरंहसाम् ।
अष्टादश सहस्राणि कुञ्जराणां तरस्विनाम् ॥६-९४-३१॥
चतुर्दश सहस्राणि सारोहाणां च वाजिनाम् ।
पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम् ॥६-९४-३२॥
दिवसस्याष्टभागेन शरैरग्निशिखोपमैः ।
हतान्येकेन रामेण रक्षसां कामरूपिणाम् ॥६-९४-३३॥
ते हताश्वा हतरथाः शान्ता विमथितध्वजाः ।
अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः ॥६-९४-३४॥
हतैर्गजपदात्यश्वैस्तद् बभूव रणाजिरम् ।
आक्रीडभूमिः क्रुद्धस्य रुद्रस्येव महात्मनः ॥६-९४-३५॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
साधु साध्विति रामस्य तत् कर्म समपूजयन् ॥६-९४-३६॥
अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम् ।
विभीषणं च धर्मात्मा हनूमन्तं च वानरम् ॥६-९४-३७॥
जाम्बवन्तं हरिश्रेष्ठं मैन्दं द्विविदमेव च ।
एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा ॥६-९४-३८॥
निहत्य तां राक्षसराजवाहिनीं रामस्तदा शक्रसमो महात्मा ।
अस्त्रेषु शस्त्रेषु जितक्लमश्च संस्तूयते देवगणैः प्रहृष्टैः ॥६-९४-३९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे गन्धर्वास्त्रमोहनम् नाम चतुर्नवतितमः सर्गः ॥६-९४॥
Previous
सीताहननोद्यमनिवृत्तिः
Next
राक्षसीविलापः