सीताहननोद्यमनिवृत्तिः
युद्धकाण्डः / सीताहननोद्यमनिवृत्तिः
Script
Translation
Previous
रावणिशस्त्रहतचिकित्सा
Next
गन्धर्वास्त्रमोहनम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे सीताहननोद्यमनिवृत्तिः नाम त्रिनवतितमः सर्गः ॥६-९३॥
ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितो वधम् ।
आचचक्षुरभिज्ञाय दशग्रीवाय सत्वराः ॥६-९३-१॥
युद्धे हतो महाराज लक्ष्मणेन तवात्मजः ।
विभीषणसहायेन मिषतां नो महाद्युतिः ॥६-९३-२॥
शूरः शूरेण संगम्य संयुगेष्वपराजितः ।
लक्ष्मणेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित् ॥६-९३-३॥
गतः स परमाँल्लोकान् शरैः संतर्प्य लक्ष्मणम् ।
स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् ॥६-९३-४॥
घोरमिन्द्रजितः संख्ये कश्मलं प्राविशन्महत् ।
उपलभ्य चिरात् संज्ञां राजा राक्षसपुंगवः ॥६-९३-५॥
पुत्रशोकाकुलो दीनो विललापाकुलेन्द्रियः ।
हा राक्षसचमूमुख्य मम वत्स महाबल ॥६-९३-६॥
जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः ।
ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि ॥६-९३-७॥
मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि ।
अद्य वैवस्वतो राजा भूयो बहुमतो मम ॥६-९३-८॥
येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा ।
एष पन्थाः सुयोधानां सर्वामरगणेष्वपि ।
यः कृते हन्यते भर्तुः स पुमान् स्वर्गमृच्छति ॥६-९३-९॥
अद्य देवगणाः सर्वे लोकपाला महर्षयः ।
हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः ॥६-९३-१०॥
अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना ।
एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे ॥६-९३-११॥
अद्य नैर्ऋतकन्यानां श्रोष्याम्यन्तःपुरे रवम् ।
करेणुसङ्घस्य यथा निनादं गिरिगह्वरे ॥६-९३-१२॥
यौवराज्यं च लङ्कां च रक्षांसि च परंतप ।
मातरं मां च भार्याश्च क्व गतोऽसि विहाय नः ॥६-९३-१३॥
मम नाम त्वया वीर गतस्य यमसादनम् ।
प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे ॥६-९३-१४॥
स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे ।
मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः ॥६-९३-१५॥
एवमादिविलापार्तं रावणं राक्षसाधिपम् ।
आविवेश महान् कोपः पुत्रव्यसनसम्भवः ॥६-९३-१६॥
प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः ।
दीप्तं संदीपयामासुर्घर्मेऽर्कमिव रश्मयः ॥६-९३-१७॥
ललाटे भ्रुकुटीभिश्च संगताभिर्व्यरोचत ।
युगान्ते सह नक्रैस्तु महोर्मिभिरिवोदधिः ॥६-९३-१८॥
कोपाद् विजृम्भमाणस्य वक्त्राद् व्यक्तमिव ज्वलन् ।
उत्पपात सधूमाग्निर्वृत्रस्य वदनादिव ॥६-९३-१९॥
स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः ।
समीक्ष्य रावणो बुद्ध्या वैदेह्या रोचयद् वधम् ॥६-९३-२०॥
तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निनापि च ।
रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः ॥६-९३-२१॥
घोरं प्रकृत्या रूपं तत् तस्य क्रोधाग्निमूर्च्छितम् ।
बभूव रूपं क्रुद्धस्य रुद्रस्येव दुरासदम् ॥६-९३-२२॥
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ।
दीपाभ्यामिव दीप्ताभ्यां सार्चिषः स्नेहबिन्दवः ॥६-९३-२३॥
दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः ।
यन्त्रस्याकृष्यमाणस्य मथ्नतो दानवैरिव ॥६-९३-२४॥
कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत ।
तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे ॥६-९३-२५॥
तमन्तकमिव क्रुद्धं चराचरचिखादिषुम् ।
वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः ॥६-९३-२६॥
ततः परमसंक्रुद्धो रावणो राक्षसाधिपः ।
अब्रवीद् रक्षसां मध्ये संस्तम्भयिषुराहवे ॥६-९३-२७॥
मया वर्षसहस्राणि चरित्वा परमं तपः ।
तेषु तेष्ववकाशेषु स्वयंभूः परितोषितः ॥६-९३-२८॥
तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयंभुवः ।
नासुरेभ्यो न देवेभ्यो भयं मम कदाचन ॥६-९३-२९॥
कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम् ।
देवासुरविमर्देषु न च्छिन्नं वज्रमुष्टिभिः ॥६-९३-३०॥
तेन मामद्य संयुक्तं रथस्थमिह संयुगे ।
प्रतीयात् कोऽद्य मामाजौ साक्षादपि पुरंदरः ॥६-९३-३१॥
यत् तदाभिप्रसन्नेन सशरं कार्मुकं महत् ।
देवासुरविमर्देषु मम दत्तं स्वयंभुवा ॥६-९३-३२॥
अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम ।
रामलक्ष्मणयोरेव वधाय परमाहवे ॥६-९३-३३॥
स पुत्रवधसंतप्तः क्रूरः क्रोधवशं गतः ।
समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत ॥६-९३-३४॥
प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः ।
दीनो दीनस्वरान् सर्वांस्तानुवाच निशाचरान् ॥६-९३-३५॥
मायया मम वत्सेन वञ्चनार्थं वनौकसाम् ।
किंचिदेव हतं तत्र सीतेयमिति दर्शितम् ॥६-९३-३६॥
तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः ।
वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् ॥६-९३-३७॥
इत्येवमुक्त्वा सचिवान् खड्गमाशु परामृशत् ।
उद्धृत्य गुणसम्पन्नं विमलाम्बरवर्चसम् ॥६-९३-३८॥
निष्पपात स वेगेन सभार्यः सचिवैर्वृतः ।
रावणः पुत्रशोकेन भृशमाकुलचेतनः ॥६-९३-३९॥
संक्रुद्धः खड्गमादाय सहसा यत्र मैथिली ।
व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं विचुक्रुशुः ॥६-९३-४०॥
ऊचुश्चान्योन्यमालिङ्ग्य संक्रुद्धं प्रेक्ष्य राक्षसम् ।
अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः ॥६-९३-४१॥
लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः ।
बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः ॥६-९३-४२॥
त्रिषु लोकेषु रत्नानि भुङ्क्ते आहृत्य रावणः ।
विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि ॥६-९३-४३॥
तेषां संजल्पमानानामशोकवनिकां गताम् ।
अभिदुद्राव वैदेहीं रावणः क्रोधमूर्च्छितः ॥६-९३-४४॥
वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः ।
अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव ॥६-९३-४५॥
मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता ।
ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् ॥६-९३-४६॥
तं निशम्य सनिस्त्रिंशं व्यथिता जनकात्मजा ।
निवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम् ॥६-९३-४७॥
सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत् ।
यथायं मामभिक्रुद्धः समभिद्रवति स्वयम् ॥६-९३-४८॥
वधिष्यति सनाथां मामनाथामिव दुर्मतिः ।
बहुशश्चोदयामास भर्तारं मामनुव्रताम् ॥६-९३-४९॥
भार्या मम भवस्वेति प्रत्याख्यातो ध्रुवं मया ।
सोऽयं मामनुपस्थाने व्यक्तं नैराश्यमागतः ॥६-९३-५०॥
क्रोधमोहसमाविष्टो व्यक्तं मां हन्तुमुद्यतः ।
अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ ॥६-९३-५१॥
मन्निमित्तमनार्येण समरेऽद्य निपातितौ ।
भैरवो हि महान् नादो राक्षसानां श्रुतो मया ॥६-९३-५२॥
बहूनामिह हृष्टानां तथा विक्रोशतां प्रियम् ।
अहो धिङ्मन्निमित्तोऽयं विनाशो राजपुत्रयोः ॥६-९३-५३॥
अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ ।
विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः ॥६-९३-५४॥
हनूमतस्तु तद् वाक्यं न कृतं क्षुद्रया मया ।
यद्यहं तस्य पृष्ठेन तदायासमनिर्जिता ॥६-९३-५५॥
नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती ।
मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति ॥६-९३-५६॥
एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि ।
सा हि जन्म च बाल्यं च यौवनं च महात्मनः ॥६-९३-५७॥
धर्मकार्याणि रूपं च रुदती संस्मरिष्यति ।
निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना ॥६-९३-५८॥
अग्निमावेक्ष्यते नूनमपो वापि प्रवेक्ष्यति ।
धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम् ॥६-९३-५९॥
यन्निमित्तमिमं शोकं कौसल्या प्रतिपत्स्यते ।
इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम् ॥६-९३-६०॥
रोहिणीमिव चन्द्रेण बिना ग्रहवशं गताम् ।
एतस्मिन्नन्तरे तस्य अमात्यः शीलवान् शुचिः ॥६-९३-६१॥
सुपार्श्वो नाम मेधावी रावणं रक्षसां वरम् ।
निवार्यमाणः सचिवैरिदं वचनमब्रवीत् ॥६-९३-६२॥
कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज ।
हन्तुमिच्छसि वैदेहीं क्रोधाद् धर्ममपास्य च ॥६-९३-६३॥
वेदविद्याव्रतस्नातः स्वकर्मनिरतस्तथा ।
स्त्रियः कस्माद् वधं वीर मन्यसे राक्षसेश्वर ॥६-९३-६४॥
मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव ।
तस्मिन्नेव सहास्माभिराहवे क्रोधमुत्सृज ॥६-९३-६५॥
अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशी ।
कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ॥६-९३-६६॥
शूरो धीमान् रथी खड्गी रथप्रवरमास्थितः ।
हत्वा दाशरथिं रामं भवान् प्राप्स्यति मैथिलीम् ॥६-९३-६७॥
स तद् दुरात्मा सुहृदा निवेदितं वचः सुधर्म्यं प्रतिगृह्य रावणः ।
गृहं जगामाथ ततश्च वीर्यवान् पुनः सभां च प्रययौ सुहृद्वृतः ॥६-९३-६८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सीताहननोद्यमनिवृत्तिः नाम त्रिनवतितमः सर्गः ॥६-९३॥
Previous
रावणिशस्त्रहतचिकित्सा
Next
गन्धर्वास्त्रमोहनम्