रावणिशस्त्रहतचिकित्सा

युद्धकाण्डः / रावणिशस्त्रहतचिकित्सा

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रावणिशस्त्रहतचिकित्सा नाम द्विनवतितमः सर्गः ॥६-९२॥
रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः । बभूव हृष्टस्तं हत्वा शत्रुजेतारमाहवे ॥६-९२-१॥
ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान् । संनिपत्य महातेजास्तांश्च सर्वान् वनौकसः ॥६-९२-२॥
आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ । विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः ॥६-९२-३॥
ततो राममभिक्रम्य सौमित्रिरभिवाद्य च । तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा ॥६-९२-४॥
निष्टनन्निव चागत्य राघवाय महात्मने । आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम् ॥६-९२-५॥
रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना । न्यवेदयत रामाय तदा हृष्टो विभीषणः ॥६-९२-६॥
श्रुत्वैव तु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम् । प्रहर्षमतुलं लेभे वाक्यं चेदमुवाच ह ॥६-९२-७॥
साधु लक्ष्मण तुष्टोऽस्मि कर्म चासुकरं कृतम् । रावणेर्हि विनाशेन जितमित्युपधारय ॥६-९२-८॥
स तं शिरस्युपाघ्राय लक्ष्मणं कीर्तिवर्धनम् । लज्जमानं बलात् स्नेहादङ्कमारोप्य वीर्यवान् ॥६-९२-९॥
उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम् । भ्रातरं लक्ष्मणं स्निग्धं पुनः पुनरुदैक्षत ॥६-९२-१०॥
शल्यसम्पीडितं शस्तं निःश्वसन्तं तु लक्ष्मणम् । रामस्तु दुःखसंतप्तं तं तु निःश्वासपीडितम् ॥६-९२-११॥
मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन् । उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः ॥६-९२-१२॥
कृतं परमकल्याणं कर्म दुष्करकर्मणा । अद्य मन्ये हते पुत्रे रावणं निहतं युधि ॥६-९२-१३॥
अद्याहं विजयी शत्रौ हते तस्मिन् दुरात्मनि । रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे ॥६-९२-१४॥
छिन्नो हि दक्षिणो बाहुः स हि तस्य व्यपाश्रयः । विभीषणहनूमद्भ्यां कृतं कर्म महद् रणे ॥६-९२-१५॥
अहोरात्रैस्त्रिभिर्वीरः कथंचिद् विनिपातितः । निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः ॥६-९२-१६॥
बलव्यूहेन महता निर्यास्यति हि रावणः । बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् ॥६-९२-१७॥
तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम् । बलेनावृत्य महता निहनिष्यामि दुर्जयम् ॥६-९२-१८॥
त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे । न दुष्प्रापा हते तस्मिन् शक्रजेतरि चाहवे ॥६-९२-१९॥
स तं भ्रातरमाश्वास्य परिष्वज्य च राघवः । रामः सुषेणं मुदितः समाभाष्येदमब्रवीत् ॥६-९२-२०॥
विशल्योऽयं महाप्राज्ञ सौमित्रिर्मित्रवत्सलः । यथा भवति सुस्वस्थस्तथा त्वं समुपाचर ॥६-९२-२१॥
विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः । ऋक्षवानरसैन्यानां शूराणां द्रुमयोधिनाम् ॥६-९२-२२॥
ये चाप्यन्येऽत्र युध्यन्ति सशल्या व्रणिनस्तथा । तेऽपि सर्वे प्रयत्नेन क्रियन्ते सुखिनस्त्वया ॥६-९२-२३॥
एवमुक्तः स रामेण महात्मा हरियूथपः । लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम् ॥६-९२-२४॥
स तस्य गन्धमाघ्राय विशल्यः समपद्यत । तदा निर्वेदनश्चैव संरूढव्रण एव च ॥६-९२-२५॥
विभीषणमुखानां च सुहृदां राघवाज्ञया । सर्ववानरमुख्यानां चिकित्सामकरोत् तदा ॥६-९२-२६॥
ततः प्रकृतिमापन्नो हृतशल्यो गतक्लमः । सौमित्रिर्मुमुदे तत्र क्षणेन विगतज्वरः ॥६-९२-२७॥
तदैव रामः प्लवगाधिपस्तथा विभीषणश्चर्क्षपतिश्च वीर्यवान् । अवेक्ष्य सौमित्रिमरोगमुत्थितं मुदा ससैन्याः सुचिरं जहर्षिरे ॥६-९२-२८॥
अपूजयत् कर्म स लक्ष्मणस्य सुदुष्करं दाशरथिर्महात्मा । बभूव हृष्टो युधि वानरेन्द्रो निशम्य तं शक्रजितं निपातितम् ॥६-९२-२९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रावणिशस्त्रहतचिकित्सा नाम द्विनवतितमः सर्गः ॥६-९२॥