रावणिवधः

युद्धकाण्डः / रावणिवधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रावणिवधः नाम एकनवतितमः सर्गः ॥६-९१॥
स हताश्वो महातेजा भूमौ तिष्ठन् निशाचरः । इन्द्रजित् परमक्रुद्धः सम्प्रजज्वाल तेजसा ॥६-९१-१॥
तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम् । विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव ॥६-९१-२॥
निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः । भर्तारं न जहुर्युद्धे सम्पतन्तस्ततस्ततः ॥६-९१-३॥
ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः । स्तुन्वानो हर्षमाणश्च इदं वचनमब्रवीत् ॥६-९१-४॥
तमसा बहुलेनेमाः संसक्ताः सर्वतो दिशः । नेह विज्ञायते स्वो वा परो वा राक्षसोत्तमाः ॥६-९१-५॥
धृष्टं भवन्तो युध्यन्तु हरीणां मोहनाय वै । अहं तु रथमास्थाय आगमिष्यामि संयुगे ॥६-९१-६॥
तथा भवन्तः कुर्वन्तु यथेमे हि वनौकसः । न युध्येयुर्महात्मानः प्रविष्टे नगरं मयि ॥६-९१-७॥
इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः । प्रविवेश पुरीं लङ्कां रथहेतोरमित्रहा ॥६-९१-८॥
स रथं भूषयित्वाथ रुचिरं हेमभूषितम् । प्रासासिशरसंयुक्तं युक्तं परमवाजिभिः ॥६-९१-९॥
अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना । आरुरोह महातेजा रावणिः समितिंजयः ॥६-९१-१०॥
स राक्षसगणैर्मुख्यैर्वृतो मन्दोदरीसुतः । निर्ययौ नगराद् वीरः कृतान्तबलचोदितः ॥६-९१-११॥
सोऽभिनिष्क्रम्य नगरादिन्द्रजित् परमौजसा । अभ्ययाज्जवनैरश्वैर्लक्ष्मणं सविभीषणम् ॥६-९१-१२॥
ततो रथस्थमालोक्य सौमित्री रावणात्मजम् । वानराश्च महावीर्या राक्षसश्च विभीषणः ॥६-९१-१३॥
विस्मयं परमं जग्मुर्लाघवात् तस्य धीमतः । रावणिश्चापि संक्रुद्धो रणे वानरयूथपान् ॥६-९१-१४॥
पातयामास बाणौघैः शतशोऽथ सहस्रशः । स मण्डलीकृतधनू रावणिः समितिंजयः ॥६-९१-१५॥
हरीनभ्यहनत् क्रुद्धः परं लाघवमास्थितः । ते वध्यमाना हरयो नाराचैर्भीमविक्रमाः ॥६-९१-१६॥
सौमित्रिं शरणं प्राप्ताः प्रजापतिमिव प्रजाः । ततः समरकोपेन ज्वलितो रघुनन्दनः । चिच्छेद कार्मुकं तस्य दर्शयन् पाणिलाघवम् ॥६-९१-१७॥
सोऽन्यत्कार्मुकमादाय सज्यं चक्रे त्वरन्निव । तदप्यस्य त्रिभिर्बाणैर्लक्ष्मणो निरकृन्तत ॥६-९१-१८॥
अथैनं छिन्नधन्वानमाशीविषविषोपमैः । विव्याधोरसि सौमित्री रावणिं पञ्चभिः शरैः ॥६-९१-१९॥
ते तस्य कायं निर्भिद्य महाकार्मुकनिःसृताः । निपेतुर्धरणीं बाणा रक्ता इव महोरगाः ॥६-९१-२०॥
स च्छिन्नधन्वा रुधिरं वमन् वक्त्रेण रावणिः । जग्राह कार्मुकश्रेष्ठं दृढज्यं बलवत्तरम् ॥६-९१-२१॥
स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः । ववर्ष शरवर्षाणि वर्षाणीव पुरंदरः ॥६-९१-२२॥
मुक्तमिन्द्रजिता तत्तु शरवर्षमरिंदमः । आवारयदसम्भ्रान्तो लक्ष्मणः सुदुरासदम् ॥६-९१-२३॥
संदर्शयामास तदा रावणिं रघुनन्दनः । असम्भ्रान्तो महातेजास्तदद्भुतमिवाभवत् ॥६-९१-२४॥
ततस्तान् राक्षसान् सर्वांस्त्रिभिरेकैकमाहवे । अविध्यत् परमक्रुद्धः शीघ्रास्त्रं सम्प्रदर्शयन् । राक्षसेन्द्रसुतं चापि बाणौघैः समताडयत् ॥६-९१-२५॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुघातिना । असक्तं प्रेषयामास लक्ष्मणाय बहून् शरान् ॥६-९१-२६॥
तानप्राप्तान् शितैर्बाणैश्चिच्छेद परवीरहा । सारथेरस्य च रणे रथिनो रथसत्तमः ॥६-९१-२७॥
शिरो जहार धर्मात्मा भल्लेनानतपर्वणा । असूतास्ते हयास्तत्र रथमूहुरविक्लवाः ॥६-९१-२८॥
मण्डलान्यभिधावन्ति तदद्भुतमिवाभवत् । अमर्षवशमापन्नः सौमित्रिर्दृढविक्रमः ॥६-९१-२९॥
प्रत्यविध्यद्धयांस्तस्य शरैर्वित्रासयन् रणे । अमर्षमाणस्तत्कर्म रावणस्य सुतो रणे ॥६-९१-३०॥
विव्याध दशभिर्बाणैः सौमित्रिं तममर्षणम् । ते तस्य वज्रप्रतिमाः शराः सर्पविषोपमाः । विलयं जग्मुरागत्य कवचं काञ्चनप्रभम् ॥६-९१-३१॥
अभेद्यकवचं मत्वा लक्ष्मणं रावणात्मजः । ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित् ॥६-९१-३२॥
अविध्यत् परमक्रुद्धः शीघ्रमस्त्रं प्रदर्शयन् । तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः ॥६-९१-३३॥
रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः । स तथाप्यर्दितो बाणै राक्षसेन तदा मृधे ॥६-९१-३४॥
तमाशु प्रतिविव्याध लक्ष्मणः पञ्चभिः शरैः । विकृष्येन्द्रजितो युद्धे वदने शुभकुण्डले ॥६-९१-३५॥
लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ । अन्योन्यं जघ्नतुर्वीरौ विशिखैर्भीमविक्रमौ ॥६-९१-३६॥
ततः शोणितदिग्धाङ्गौ लक्ष्मणेन्द्रजितावुभौ । रणे तौ रेजतुर्वीरौ पुष्पिताविव किंशुकौ ॥६-९१-३७॥
तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ । घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये ॥६-९१-३८॥
ततः समरकोपेन संयुतो रावणात्मजः । विभीषणं त्रिभिर्बाणैर्विव्याध वदने शुभे ॥६-९१-३९॥
अयोमुखैस्त्रिभिर्विद्ध्वा राक्षसेन्द्रं विभीषणम् । एकैकेनाभिविव्याध तान् सर्वान् हरियूथपान् ॥६-९१-४०॥
तस्मै दृढतरं क्रुद्धो जघान गदया हयान् । विभीषणो महातेजा रावणेः स दुरात्मनः ॥६-९१-४१॥
स हताश्वादवप्लुत्य रथान्निहतसारथेः । अथ शक्तिं महातेजाः पितृव्याय मुमोच ह ॥६-९१-४२॥
तामापतन्तीं सम्प्रेक्ष्य सुमित्रानन्दवर्धनः । चिच्छेद निशितैर्बाणैर्दशधापातयद् भुवि ॥६-९१-४३॥
तस्मै दृढधनुः क्रुद्धो हताश्वाय विभीषणः । वज्रस्पर्शसमान् पञ्च ससर्जोरसि मार्गणान् ॥६-९१-४४॥
ते तस्य कायं भित्त्वा तु रुक्मपुङ्खा निमित्तगाः । बभूवुर्लोहितादिग्धा रक्ता इव महोरगाः ॥६-९१-४५॥
स पितृव्यस्य संक्रुद्ध इन्द्रजिच्छरमाददे । उत्तमं रक्षसां मध्ये यमदत्तं महाबलः ॥६-९१-४६॥
तं समीक्ष्य महातेजा महेषुं तेन संहितम् । लक्ष्मणोऽप्याददे बाणमन्यद् भीमपराक्रमः ॥६-९१-४७॥
कुबेरेण स्वयं स्वप्ने यद् दत्तममितात्मना । दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः ॥६-९१-४८॥
तयोस्तु धनुषी श्रेष्ठे बाहुभिः परिघोपमैः । विकृष्यमाणे बलवत् क्रौञ्चाविव चुकूजतुः ॥६-९१-४९॥
ताभ्यां तु धनुषि श्रेष्ठे संहितौ सायकोत्तमौ । विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया ॥६-९१-५०॥
तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ । मुखेन मुखमाहत्य संनिपेततुरोजसा ॥६-९१-५१॥
संनिपातस्तयोश्चासीच्छरयोर्घोररूपयोः । सधूमविस्फुलिङ्गश्च तज्जोऽग्निर्दारुणोऽभवत् ॥६-९१-५२॥
तौ महाग्रहसंकाशावन्योन्यं संनिपत्य च । संग्रामे शतधा यातौ मेदिन्यां चैव पेततुः ॥६-९१-५३॥
शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि । व्रीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा ॥६-९१-५४॥
सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे । रौद्रं महेन्द्रजिद् युद्धेऽप्यसृजद् युधि निष्ठितः ॥६-९१-५५॥
तेन तद्विहितं शस्त्रं वारुणं परमाद्भुतम् । ततः क्रुद्धो महातेजा इन्द्रजित् समितिंजयः । आग्नेयं संदधे दीप्तं स लोकं संक्षिपन्निव ॥६-९१-५६॥
सौरेणास्त्रेण तद् वीरो लक्ष्मणः पर्यवारयत् । अस्त्रं निवारितं दृष्ट्वा रावणिः क्रोधमूर्च्छितः ॥६-९१-५७॥
आददे निशितं बाणमासुरं शत्रुदारणम् । तस्माच्चापाद् विनिष्पेतुर्भास्वराः कूटमुद्गराः ॥६-९१-५८॥
शूलानि च भुशुण्ड्यश्च गदाः खड्गाः परश्वधाः । तद् दृष्ट्वा लक्ष्मणः संख्ये घोरमस्त्रमथासुरम् ॥६-९१-५९॥
अवार्यं सर्वभूतानां सर्वशस्त्रविदारणम् । माहेश्वरेण द्युतिमांस्तदस्त्रं प्रत्यवारयत् ॥६-९१-६०॥
तयोः समभवद् युद्धमद्भुतं रोमहर्षणम् । गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन् ॥६-९१-६१॥
भैरवाभिरुते भीमे युद्धे वानररक्षसाम् । भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ ॥६-९१-६२॥
ऋषयः पितरो देवा गन्धर्वगरुडोरगाः । शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे ॥६-९१-६३॥
अथान्यं मार्गणश्रेष्ठं संदधे राघवानुजः । हुताशनसमस्पर्शं रावणात्मजदारणम् ॥६-९१-६४॥
सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम् । सुवर्णविकृतं वीरः शरीरान्तकरं शरम् ॥६-९१-६५॥
दुरावारं दुर्विषहं राक्षसानां भयावहम् । आशीविषविषप्रख्यं देवसंघैः समर्चितम् ॥६-९१-६६॥
येन शक्रो महातेजा दानवानजयत् प्रभुः । पुरा देवासुरे युद्धे वीर्यवान् हरिवाहनः ॥६-९१-६७॥
अथैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम् । शरश्रेष्ठं धनुश्रेष्ठे विकर्षन्निदमब्रवीत् ॥६-९१-६८॥
लक्ष्मीवाँल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः । धर्मात्मा सत्यसंधश्च रामो दाशरथिर्यदि । पौरुषे चाप्रतिद्वन्द्वस्तदैनं जहि रावणिम् ॥६-९१-६९॥
इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम् । लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति । ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा ॥६-९१-७०॥
तच्छिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् । प्रमथ्येन्द्रजितः कायात् पातयामास भूतले ॥६-९१-७१॥
तद् राक्षसतनूजस्य भिन्नस्कन्धं शिरो महत् । तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् ॥६-९१-७२॥
हतः स निपपाताथ धरण्यां रावणात्मजः । कवची सशिरस्त्राणो विप्रविद्धशरासनः ॥६-९१-७३॥
चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः । हृष्यन्ते निहते तस्मिन् देवा वृत्रवधे यथा ॥६-९१-७४॥
अथान्तरिक्षे देवानामृषीणां च महात्मनाम् । जज्ञेऽथ जयसंनादो गन्धर्वाप्सरसामपि ॥६-९१-७५॥
पतितं समभिज्ञाय राक्षसी सा महाचमूः । वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः ॥६-९१-७६॥
वानरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः । लङ्कामभिमुखाः सस्रुर्भ्रष्टसंज्ञाः प्रधाविताः ॥६-९१-७७॥
दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः । त्यक्त्वा प्रहरणान् सर्वे पट्टिशासिपरश्वधान् ॥६-९१-७८॥
केचिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः । समुद्रे पतिताः केचित् केचित् पर्वतमाश्रिताः ॥६-९१-७९॥
हतमिन्द्रजितं दृष्ट्वा शयानं च रणक्षितौ । राक्षसानां सहस्रेषु न कश्चित् प्रत्यदृश्यत ॥६-९१-८०॥
यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः । तथा तस्मिन् निपतिते राक्षसास्ते गता दिशः ॥६-९१-८१॥
शान्तरश्मिरिवादित्यो निर्वाण इव पावकः । बभूव स महाबाहुर्व्यपास्तगतजीवितः ॥६-९१-८२॥
प्रशान्तपीडाबहुलो विनष्टारिः प्रहर्षवान् । बभूव लोकः पतिते राक्षसेन्द्रसुते तदा ॥६-९१-८३॥
हर्षं च शक्रो भगवान् सह सर्वैर्महर्षिभिः । जगाम निहते तस्मिन् राक्षसे पापकर्मणि ॥६-९१-८४॥
आकाशे चापि देवानां शुश्रुवे दुन्दुभिस्वनः । नृत्यद्भिरप्सरोभिश्च गन्धर्वैश्च महात्मभिः ॥६-९१-८५॥
ववर्षुः पुष्पवर्षाणि तदद्भुतमिवाभवत् । प्रशशाम हते तस्मिन् राक्षसे क्रूरकर्मणि ॥६-९१-८६॥
शुद्धा आपो नभश्चैव जहृषुर्देवदानवाः । आजग्मुः पतिते तस्मिन् सर्वलोकभयावहे ॥६-९१-८७॥
ऊचुश्च सहितास्तुष्टा देवगन्धर्वदानवाः । विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति ॥६-९१-८८॥
ततोऽभ्यनन्दन् संहृष्टाः समरे हरियूथपाः । तमप्रतिबलं दृष्ट्वा हतं नैर्ऋतपुङ्गवम् ॥६-९१-८९॥
विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः । विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम् ॥६-९१-९०॥
क्ष्वेडन्तश्च प्लवन्तश्च गर्जन्तश्च प्लवंगमाः । लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे ॥६-९१-९१॥
लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः । लक्ष्मणो जयतीत्येव वाक्यं विश्रावयंस्तदा ॥६-९१-९२॥
अन्योन्यं च समाश्लिष्य हरयो हृष्टमानसाः । चक्रुरुच्चावचगुणा राघवाश्रयसत्कथाः ॥६-९१-९३॥
तदसुकरमथाभिवीक्ष्य हृष्टाः प्रियसुहृदो युधि लक्ष्मणस्य कर्म । परममुपलभन्मनःप्रहर्षं विनिहतमिन्द्ररिपुं निशम्य देवाः ॥६-९१-९४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रावणिवधः नाम एकनवतितमः सर्गः ॥६-९१॥