सौमित्रिरावणियुद्धम्

युद्धकाण्डः / सौमित्रिरावणियुद्धम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे सौमित्रिरावणियुद्धम् नाम नवतितमः सर्गः ॥६-९०॥
युध्यमानौ ततो दृष्ट्वा प्रसक्तौ नरराक्षसौ । प्रभिन्नाविव मातङ्गौ परस्परजयैषिणौ ॥६-९०-१॥
तयोर्युद्धं द्रष्टुकामो वरचापधरो बली । शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि ॥६-९०-२॥
ततो विस्फारयामास महद् धनुरवस्थितः । उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान् ॥६-९०-३॥
ते शराः शिखिसंस्पर्शा निपतन्तः समाहिताः । राक्षसान् द्रावयामासुर्वज्राणीव महागिरीन् ॥६-९०-४॥
विभीषणस्यानुचरास्तेऽपि शूलासिपट्टिशैः । चिच्छिदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः ॥६-९०-५॥
राक्षसैस्तैः परिवृतः स तदा तु विभीषणः । बभौ मध्ये प्रधृष्टानां कलभानामिव द्विपः ॥६-९०-६॥
ततः संचोदमानो वै हरीन् रक्षोवधप्रियान् । उवाच वचनं काले कालज्ञो रक्षसां वरः ॥६-९०-७॥
एकोऽयं राक्षसेन्द्रस्य परायणमवस्थितः । एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः ॥६-९०-८॥
अस्मिंश्च निहते पापे राक्षसे रणमूर्धनि । रावणं वर्जयित्वा तु शेषमस्य बलं हतम् ॥६-९०-९॥
प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः । कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः ॥६-९०-१०॥
जम्बुमाली महामाली तीक्ष्णवेगोऽशनिप्रभः । सुप्तघ्नो यज्ञकोपश्च वज्रदंष्ट्रश्च राक्षसः ॥६-९०-११॥
संह्रादी विकटोऽरिघ्नस्तपनो मन्द एव च । प्रघासः प्रघसश्चैव प्रजङ्घो जङ्घ एव च ॥६-९०-१२॥
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान् । विद्युज्जिह्वो द्विजिह्वश्च सूर्यशत्रुश्च राक्षसः ॥६-९०-१३॥
अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः । कम्पनः सत्त्ववन्तौ तौ देवान्तकनरान्तकौ ॥६-९०-१४॥
एतान् निहत्यातिबलान् बहून् राक्षससत्तमान् । बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु ॥६-९०-१५॥
एतावदेव शेषं वो जेतव्यमिति वानराः । हताः सर्वे समागम्य राक्षसा बलदर्पिताः ॥६-९०-१६॥
अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम । घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् ॥६-९०-१७॥
हन्तुकामस्य मे बाष्पं चक्षुश्चैव निरुध्यति । तमेवैष महाबाहुर्लक्ष्मणः शमयिष्यति ॥६-९०-१८॥
वानरा घ्नत सम्भूय भृत्यानस्य समीपगान् । इति तेनातियशसा राक्षसेनाभिचोदिताः ॥६-९०-१९॥
वानरेन्द्रा जहृषिरे लाङ्गूलानि च विव्यधुः । ततस्तु कपिशार्दूलाः क्ष्वेडन्तश्च पुनः पुनः । मुमुचुर्विविधान् नादान् मेघान् दृष्ट्वेव बर्हिणः ॥६-९०-२०॥
जाम्बवानपि तैः सर्वैः स्वयूथ्यैरभिसंवृतः । तेऽश्मभिस्ताडयामासुर्नखैर्दन्तैश्च राक्षसान् ॥६-९०-२१॥
निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः । परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः ॥६-९०-२२॥
शरैः परशुभिस्तीक्ष्णैः पट्टिशैर्यष्टितोमरैः । जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम् ॥६-९०-२३॥
स सम्प्रहारस्तुमुलः संजज्ञे कपिरक्षसाम् । देवासुराणां क्रुद्धानां यथा भीमो महास्वनः ॥६-९०-२४॥
हनूमानपि संक्रुद्धः सालमुत्पाट्य पर्वतात् । स लक्ष्मणं स्वयं पृष्ठादवरोप्य महामनाः ॥६-९०-२५॥
रक्षसां कदनं चक्रे दुरासादः सहस्रशः । स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद् बली ॥६-९०-२६॥
लक्ष्मणं परवीरघ्नः पुनरेवाभ्यधावत । तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ ॥६-९०-२७॥
शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् । अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ ॥६-९०-२८॥
चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ । नह्यादानं न संधानं धनुषो वा परिग्रहः ॥६-९०-२९॥
न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः । न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम् ॥६-९०-३०॥
अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् । चापवेगप्रयुक्तैश्च बाणजालैः समन्ततः ॥६-९०-३१॥
अन्तरिक्षेऽभिसम्पन्ने न रूपाणि चकाशिरे । लक्ष्मणो रावणिं प्राप्य रावणिश्चापि लक्ष्मणम् ॥६-९०-३२॥
अव्यवस्था भवत्युग्रा ताभ्यामन्योन्यविग्रहे । ताभ्यामुभाभ्यां तरसा प्रसृष्टैर्विशिखैः शितैः ॥६-९०-३३॥
निरन्तरमिवाकाशं बभूव तमसा वृतम् । तैः पतद्भिश्च बहुभिस्तयोः शरशतैः शितैः ॥६-९०-३४॥
दिशश्च प्रदिशश्चैव बभूवुः शरसंकुलाः । तमसा पिहितं सर्वमासीत् प्रतिभयं महत् ॥६-९०-३५॥
अस्तं गते सहस्रांशौ संवृते तमसा च वै । रुधिरौघा महानद्यः प्रावर्तन्त सहस्रशः ॥६-९०-३६॥
क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भीमनिःस्वनान् । न तदानीं ववौ वायुर्न च जज्वाल पावकः ॥६-९०-३७॥
स्वस्त्यस्तु लोकेभ्य इति जजल्पुस्ते महर्षयः । सम्पेतुश्चात्र संतप्ता गन्धर्वाः सह चारणैः ॥६-९०-३८॥
अथ राक्षससिंहस्य कृष्णान् कनकभूषणान् । शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् ॥६-९०-३९॥
ततोऽपरेण भल्लेन पीतेन निशितेन च । सम्पूर्णायतमुक्तेन सुपत्रेण सुवर्चसा ॥६-९०-४०॥
महेन्द्राशनिकल्पेन सूतस्य विचरिष्यतः । स तेन बाणाशनिना तलशब्दानुनादिना ॥६-९०-४१॥
लाघवाद् राघवः श्रीमान् शिरः कायादपाहरत् । स यन्तरि महातेजा हते मन्दोदरीसुतः ॥६-९०-४२॥
स्वयं सारथ्यमकरोत् पुनश्च धनुरस्पृशत् । तदद्भुतमभूत् तत्र सारथ्यं पश्यतां युधि ॥६-९०-४३॥
हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः । धनुष्यथ पुनर्व्यग्रं हयेषु मुमुचे शरान् ॥६-९०-४४॥
छिद्रेषु तेषु बाणौघैर्विचरन्तमभीतवत् । अर्दयामास समरे सौमित्रिः शीघ्रकृत्तमः ॥६-९०-४५॥
निहतं सारथिं दृष्ट्वा समरे रावणात्मजः । प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह ॥६-९०-४६॥
विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः । ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन् ॥६-९०-४७॥
ततः प्रमाथी रभसः शरभो गन्धमादनः । अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः ॥६-९०-४८॥
ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः । चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः ॥६-९०-४९॥
तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः । मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत ॥६-९०-५०॥
ते हया मथिता भग्ना व्यसवो धरणीं गताः । ते निहत्य हयांस्तस्य प्रमथ्य च महारथम् । पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः ॥६-९०-५१॥
स हताश्वादवप्लुत्य रथान्मथितसारथिः । शरवर्षेण सौमित्रिमभ्यधावत रावणिः ॥६-९०-५२॥
ततो महेन्द्रप्रतिमः स लक्ष्मणः पदातिनं तं निहतैर्हयोत्तमैः । सृजन्तमाजौ निशितान् शरोत्तमान् भृशं तदा बाणगणैर्व्यदारयत् ॥६-९०-५३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सौमित्रिरावणियुद्धम् नाम नवतितमः सर्गः ॥६-९०॥