सौमित्रिसंधुक्षणम्
युद्धकाण्डः / सौमित्रिसंधुक्षणम्
Script
Translation
Previous
सौमित्रिरावणियुद्धम्
Next
सौमित्रिरावणियुद्धम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे सौमित्रिसंधुक्षणम् नाम एकोननवतितमः सर्गः ॥६-८९॥
ततः शरान् दाशरथिः संधायामित्रकर्षणः ।
ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् ॥६-८९-१॥
तस्य ज्यातलनिर्घोषं स श्रुत्वा राक्षसाधिपः ।
विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत ॥६-८९-२॥
विवर्णवदनं दृष्ट्वा राक्षसं रावणात्मजम् ।
सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः ॥६-८९-३॥
निमित्तान्युपपश्यामि यान्यस्मिन् रावणात्मजे ।
त्वर तेन महाबाहो भग्न एष न संशयः ॥६-८९-४॥
ततः संधाय सौमित्रिः शरानाशीविषोपमान् ।
मुमोच विशिखांस्तस्मिन् सर्पानिव विषोल्बणान् ॥६-८९-५॥
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः ।
मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः ॥६-८९-६॥
उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः ।
ददर्शावस्थितं वीरमाजौ दशरथात्मजम् ।
सोऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः ॥६-८९-७॥
अब्रवीच्चैनमासाद्य पुनः स परुषं वचः ।
किं न स्मरसि तद् युद्धे प्रथमे मत्पराक्रमम् ।
निबद्धस्त्वं सह भ्रात्रा यदा युधि विचेष्टसे ॥६-८९-८॥
युवां खलु महायुद्धे वज्राशनिसमैः शरैः ।
शायितौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ ॥६-८९-९॥
स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम् ।
गन्तुमिच्छसि यन्मां त्वमाधर्षयितुमिच्छसि ॥६-८९-१०॥
यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः ।
अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः ॥६-८९-११॥
इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम् ।
दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः ॥६-८९-१२॥
ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान् ।
क्रोधाद् द्विगुणसंरब्धो निर्बिभेद विभीषणम् ॥६-८९-१३॥
तद् दृष्ट्वेन्द्रजिता कर्म कृतं रामानुजस्तदा ।
अचिन्तयित्वा प्रहसन्नैतत् किंचिदिति ब्रुवन् ॥६-८९-१४॥
मुमोच च शरान् घोरान् संगृह्य नरपुंगवः ।
अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि ॥६-८९-१५॥
नैवं रणगताः शूराः प्रहरन्ति निशाचर ।
लघवश्चाल्पवीर्याश्च शरा हीमे सुखास्तव ॥६-८९-१६॥
नैवं शूरास्तु युध्यन्ते समरे युद्धकाङ्क्षिणः ।
इत्येवं तं ब्रुवन् धन्वी शरैरभिववर्ष ह ॥६-८९-१७॥
तस्य बाणैः सुविध्वस्तं कवचं काञ्चनं महत् ।
व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् ॥६-८९-१८॥
विधूतवर्मा नाराचैर्बभूव स कृतव्रणः ।
इन्द्रजित् समरे वीरः प्रत्यूषे भानुमानिव ॥६-८९-१९॥
ततः शरसहस्रेण संक्रुद्धो रावणात्मजः ।
बिभेद समरे वीरो लक्ष्मणं भीमविक्रमः ॥६-८९-२०॥
व्यशीर्यत महद्दिव्यं कवचं लक्ष्मणस्य तु ।
कृतप्रतिकृतान्योन्यं बभूवतुररिंदमौ ॥६-८९-२१॥
अभीक्ष्णं निःश्वसन्तौ तौ युध्येतां तुमुलं युधि ।
शरसंकृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ ॥६-८९-२२॥
सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः ।
ततक्षतुर्महात्मानौ रणकर्मविशारदौ ।
बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ ॥६-८९-२३॥
तौ शरौघैस्तथाकीर्णौ निकृत्तकवचध्वजौ ।
सृजन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव ॥६-८९-२४॥
शरवर्षं ततो घोरं मुञ्चतोर्भीमनिःस्वनम् ।
सासारयोरिवाकाशे नीलयोः कालमेघयोः ॥६-८९-२५॥
तयोरथ महान् कालो व्यतीयाद् युध्यमानयोः ।
न च तौ युद्धवैमुख्यं क्लमं चाप्युपजग्मतुः ॥६-८९-२६॥
अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः ।
शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः ॥६-८९-२७॥
व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्ठु च ।
उभौ तु तुमुलं घोरं चक्रतुर्नरराक्षसौ ॥६-८९-२८॥
तयोः पृथक् पृथग् भीमः शुश्रुवे तलनिस्वनः ।
स कम्पं जनयामास निर्घात इव दारुणः ॥६-८९-२९॥
तयोः स भ्राजते शब्दस्तथा समरमत्तयोः ।
सुघोरयोर्निष्टनतोर्गगने मेघयोरिव ॥६-८९-३०॥
सुवर्णपुंखैर्नाराचैर्बलवन्तौ कृतव्रणौ ।
प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ ॥६-८९-३१॥
ते गात्रयोर्निपतिता रुक्मपुंखाः शरा युधि ।
असृग्दिग्धा विनिष्पेतुर्विविशुर्धरणीतलम् ॥६-८९-३२॥
अन्ये सुनिशितैः शस्त्रैराकाशे संजघट्टिरे ।
बभञ्जुश्चिच्छिदुश्चैव तयोर्बाणाः सहस्रशः ॥६-८९-३३॥
स बभूव रणो घोरस्तयोर्बाणमयश्चयः ।
अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः ॥६-८९-३४॥
तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः ।
सुपुष्पाविव निष्पत्रौ वने किंशुकशाल्मली ॥६-८९-३५॥
चक्रतुस्तुमुलं घोरं संनिपातं मुहुर्मुहुः ।
इन्द्रजिल्लक्ष्मणश्चैव परस्परजयैषिणौ ॥६-८९-३६॥
लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम् ।
अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रतिपद्यताम् ॥६-८९-३७॥
बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ ।
शुशुभाते महावीर्यौ प्ररूढाविव पर्वतौ ॥६-८९-३८॥
तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम् ।
बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः ॥६-८९-३९॥
तयोरथ महान् कालो व्यतीयाद् युध्यमानयोः ।
न च तौ युद्धवैमुख्यं श्रमं चाप्यभिजग्मतुः ॥६-८९-४०॥
अथ समरपरिश्रमं निहन्तुं समरमुखेष्वजितस्य लक्ष्मणस्य ।
प्रियहितमुपपादयन् महात्मा समरमुपेत्य विभीषणोऽवतस्थे ॥६-८९-४१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सौमित्रिसंधुक्षणम् नाम एकोननवतितमः सर्गः ॥६-८९॥
Previous
सौमित्रिरावणियुद्धम्
Next
सौमित्रिरावणियुद्धम्